________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/१३
तश्रीखण्डेन वा दत्ताः - न्यस्ताः पञ्चाङ्गुलयस्तला - हस्तका येषु तानि तथा, उपचिता- निवेशिता वंदनकलशा- माङ्गल्यघटा येषु तानि तथा, वन्दनघटैः - माङ्गल्यकलशैः सुकृतानि - सुष्ठु कृतानि शोभनानीत्यर्थः यानि तोरणानि तानि प्रतिद्वारदेशभागं -द्वारदेशभागे २ येषु तानि तथा, देशभागाश्च देशा एव, तथा आसक्त भूमौ लग्न उत्सक्तश्च - उपरि लग्नो विपुलः - अतिविस्तीर्णो वृत्तः अतिनिचिततया वर्त्तुलो वग्घारिअत्ति - प्रलम्बितो माल्यदा - मकलापः - पुष्पमालासमूहो येषु तानि तथा, पञ्चवर्णा सरसाः सुरभयो ये मुक्ताः - करप्रेरिताः पुष्पपुञ्जास्तैर्य उपचारः - पूजा भूमेस्तेन कलितानि, 'कालागरु' इत्यादि विशेषणत्रयं प्राग्वत्, अप्सरोगणानां संघः-समुदायः तेन सम्यग् - रमणीयतया विकीर्णानि व्याप्तानि तथा दिव्यानां त्रुटितानांआतोद्यानां ये शब्दास्तैः सम्यक् — श्रोतृमनोहारितया प्रकर्षेण - सर्वकालं नदितानि - शब्दवन्ति 'सव्वरयणामया' इत्यादि पदानि प्राग्वत्, 'तत्थ ण' मित्यादि, गतार्थमेतत् ।
अथ वैताढ्यस्य शिखरतलमाह तयोः - आभियोग्य श्रेण्योर्बहुसमरमणीयाद्भूमिभागाद्वैताढ्यस्य पर्वतस्योभयोः पार्श्वयोः पञ्च पञ्च योजनान्यर्द्धमुत्पत्य - गत्वा अत्रान्तरे वैताढ्यस्य पर्वतस्य शिखरतलंप्रज्ञप्तं, 'पाईणे' त्यादिप्राग्वत्, तच्च शिखरतलं एकया पद्मवरवेदिकया तत्परिवेष्टकभूतेन चैकेन वनखण्डेन सर्वतः समन्तात् संपरिक्षिप्तं, - यथा जगती मध्यभागे पद्मवरवेदिकैकैव जगतीं दिक्षु विदिक्षु वेष्टयित्वा स्थिता तथेयमपि सर्वतः शिखरतलं पर्यन्ते वेष्टयतिवा स्थिता, परमेषा आयतचतुरस्राकारशिखरतलसंस्थितत्वेनायतचतुरस्र बोद्धव्या, अत एवैकसंख्याका, तत्परतो बहिर्वर्त्ति वनखण्डमप्येकं, न तु वैताढ्यमूलगतपद्मवरवेदिकावने इव दक्षिणोत्तरविभागेन द्वयरूपे इति, श्रीमलयगिरिपादास्तु क्षेत्रविचारबृहदृत्तौ “तन्मध्ये पद्मवरवेदिकोभयपार्श्वयोर्वनखण्डा" वित्याहुः प्रमाणं- विष्कम्भायामविषयं, वर्णकश्च द्वयोरपि पद्मवरवेदिकावनखण्डयोः, प्राग्वद्भ०ि इत्यध्याहार्यं, अथ शिखरतलस्य स्वरूपं पृच्छति
७८
'वेअद्धस्स ण' मित्यादि, एतत्सर्वं जगतीगतपद्मवरवेदिकाया वनखण्डभूमिभागवद् व्याख्येयं, अथास्य कूटवक्तव्यता पृच्छति
'जंबुद्दीवेण', जम्बूद्वीपे भदन्त ! द्वीपे भरते वर्षे वैताढ्यपर्वते कति कूटानि प्रज्ञप्तानि ?, भगवानाह - गौतम नव कूटानि प्रज्ञप्तानि तद्यथा - सिद्धानि - शाश्वतानि सिद्धानां वा - शाश्वतीनामर्हत्प्रतिमानामायतनं - स्थानं सिद्धायतनं तदाधारभूतं कूटं सिद्धाय- तनकूटं, दक्षिणार्द्धभरतनाम्नां देवस्य निवासभूतं कूटं दक्षिणार्द्ध भरतकूटं, खण्डप्रपातगुहाधि-पदेवनिवासभूतं कूटं खण्डप्रपातगुहाकूटं, माणिभद्रनाम्नो देवस्य निवासभूतं कूटंमाणिभद्रकूटं वैताढ्यनाम्नो देवस्य निवासभूतं कूटं वैताढ्यकूटं, पूर्णभद्रनाम्नो देवस्य निवासभूतं पूर्णभद्रकूटं, अन्यत्र माणिभद्रकूटादनन्तरं पूर्णभद्रकूटं दृश्यते, तमिस्रगुहाधिपदेवस्य निवासभूतं कूटं तमिम्न-गुहाकूटं, उत्तरार्द्धभरतनाम्नो देवस्य निवासभूतं कूटं उत्तरार्द्धभरतकूटं वैश्रमणलोकपालनिवासभूतं कूटं वैश्रमणकूटं, सर्वत्र मध्यपदलोपी समासः ।
अथ 'यथोद्देशं निर्देश' इति प्रथमसिद्धायतनकूटस्थानप्रश्नमाह
मू. (१४) कहि णं भंते! जंबुद्दीवे दीवे भारहे वासे वेअद्धपव्वए सिद्धायतनकूडे नामं कूडे पन्नत्ते ?, गो० ! पुरच्छिमलवणसमुद्दस्स पचच्छिमेणं दाहिणद्धभरहकूडस्स पुरच्छिमेणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org