________________
७७
वक्षस्कारः-१ सूत्रे पुंस्त्वनिर्देशः प्राकृतत्वात्, णमिति प्राग्वत्, भवनानि बहिर्वृत्तानि-बहिर्वृत्ताकाराणि अन्तः चतुरस्राणि-समचतुरस्राणि 'वण्णओ'त्ति अत्रभवनानां वर्णको वाच्यः, सच किंपर्यन्त इत्याह'जाव अच्छरगमसंघविकिण्ण'त्ति, ततोऽपि कियत्पर्यन्त इत्याह-'जाव पडिरूव'त्ति, स च प्रज्ञापनास्थानाख्य द्वितीयपदोक्तः, यथा
'अहे पुक्खरकण्णिआसंठाणसंठिया उक्किण्णंतरविउलगंभीरखायपरिहापागारट्टालयकवाडतोरणपडिदुवारदेसभागा जंतसयग्घिमुसलमुसुंढिपरिवारिआअउज्झा सयाजया सयागुत्ता अडयाललोढ़गरइआ अडयालकयवणमाला खेमा सिवा किंकरामदंडोवरखिआ लाउल्लोइअमहिआगोसीससरसरत्तचंदणदद्दर (दिण्ण)पंचंगुलितला उवचिअचंदणकलसा चंदनघडसुकयतोरणपडिदुवारदेसभागा आसत्तोसत्तविउलवट्टवग्धारियमल्लदामकलावा पंचवण्णसरससुरहिमुक्कपुष्फपुंजोवयारकलिया कालागुरुपवरकुंदुरुक्कतुरुक्कधूवमधमधेतगंधुद्धआभिरामा सुगंधवरगंधिआ गंधवट्टिभूया अच्छरगणसंघसंविकिण्णा दिव्वतुडियसद्दसंपणदिआसव्वरयणामया अच्छा सण्हा जाव अभिरूवा पडिरूव'त्ति, अत्र व्याख्या
___ अधस्तनभागे पुष्करकर्णिकासंस्थानसंस्थितानि तथा उत्कीर्णमिवोत्कीर्णं अतीव व्यक्तमित्यर्थ उत्कीर्णमन्तरंयासां खातपरिखाणांता उत्कीर्णान्तराः, किमुक्तंभवति?-खातानां च परिखाणां चस्पष्टवैविक्त्योन्मीलनार्थमपान्तरालेमहती पाली समस्तीतिउत्कीर्णान्तराः, विपुलाविस्तीर्णागम्भीरा-अलब्धमध्यभागाःखातपरिखायेषांभवनानांपरितस्तानि तथा, खातपरिखाणामयं विशेषःपरिखाउपरि विशालाअधः सङ्कुचिताखातंतूभयत्रापि सममिति, तथा प्राकारेषु-वप्रेषु प्रतिभवनं अट्टालकाः-प्रकारस्योपरिवत्यारियविशेषाः कपाटानि-प्रतोलीद्वारसत्कानि, एतेन प्रतोल्यः सर्वत्र सूचिताः, अन्यथा कपाटानामसम्भवात्, तोरणानि-प्रतोलीद्वारेषु प्रसिद्धानि प्रतिद्वाराणि-मूलद्वारापान्तरालवर्तिलघुद्वाराणि एतद्रूपा देशभागा-देशविशेषा येषुतानितथा, यन्त्राणि नानाविधानिशतध्यो-महायष्टयो महाशिला वा याउपरिष्टात्पातिताः सत्यः पुरुषाणां शतानि जन्तीति, मुसलानि-प्रतीतानि मुषण्ढयः-शश्त्रविशेषास्तैः परिवारितानि-समन्ततो वेष्टितानि, अत एवायोध्यानिपरैर्योद्धुमशक्यानि अयोध्यत्वादेव ‘सदाजयानि' सदा-सर्वकालं जयो येषु तानि सदाजयानि, सर्वकालं जयवन्तीति भावः, तथा सदा-सर्वकालं गुप्तानि प्रहरणैः पुरुषैश्चयोध्द भिः सर्वतो निरन्तरपरिवारिततया परेषामसहमानानां मनागपि प्रवेशासम्भवात्, तथा अष्टचत्वारिंशभेदभिन्नविच्छित्तिकलिताः कोष्ठकाः-अपवरका रचिताः-स्वयमेव रचनां प्राप्ता येषु तानि तथा, सुखादिदर्शनात् पाक्षिको निष्ठान्तस्य परनिपातः, तथा अष्टचत्वारिंश
भेदभिन्नविच्छित्तयः कृतावनमाला येषुतानि तथा, अन्येत्वभिदधति-अडयाल इति देशीशब्दः प्रशंसावाची, ततोऽयमर्थः
प्रशस्तकोष्ठकरचितानि प्रशस्तकृतवनमालानीति, तथा क्षेमाणि-परकृतोपद्रवरहितानि शिवानि-सदा मङ्गलोपेतानि, तथा किङ्कराः-किङ्करभूता येऽमरास्तैः दण्डैः कृत्वोपरक्षितानि, सर्वतः समन्ततोऽपरक्षितानि, तथालाइअमिव लाइअं-छगणादिना भूमेरुपलेपनमिव 'उल्लोइआ' उल्लोइयमिव उल्लोइअंच सेटिकादिना कुडयादिषुधवलनमिव ताभ्यां महितानीव-पूजितानीव, तथा गोशीर्षण-चन्दनविशेषेण सरसेन-रक्तचन्दनेन च दद्दरेण बहलेन दर्दराभिधानाद्रिजा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org