________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १ /१३
विशेषप्रतिपत्ति' रिति तेन नगरावासा राजधानीरूपा ज्ञेयाः, स्वस्वदेशप्रतिबद्धाः, यदाह"ते दसयोजणपिहुलेहिं सेढीसु जम्मुत्तरासु सजणवया । गिरिवरदीहासु कमा खयरपुरा पन्न सट्ठी या ॥"
119 11
इति, उत्तरस्यां विद्यधर श्रेण्यां रथनूपुरचक्रवालप्रमुखाः षष्टिर्विद्याधरनगरावासाः प्रज्ञप्ताः, दक्षिणश्रेणेः सकाशादस्या अधिकदीर्धत्वात्, ऋषभचरित्रादौ तु दक्षिणश्रेण्यां रथनुपूरचक्रवालं उत्तरश्रेण्यां गगनवल्लभमुक्तं तत्वं तु सातिशयश्रुतधरगम्यं, अनयोर्मुख्यता च श्रेण्यधिपराजधानीत्वेनेति, 'एवमेवेत्युक्तन्यायेनैव सह पूर्वेण यदपरं तत् सपूर्वापरं संख्यानं तेन दक्षिणस्यामुत्तरस्यां च विद्याधर श्रेण्यामेकं दशोत्तरं विद्याधरनगरावासशतं भवतीति आख्यातं मया अन्यैश्च तीर्थकरैरिति, श्रेणिद्वयगतपंचाशतषष्टिसङ्कलने यथोक्तसंख्याभवनादेषां च दशोत्तरशतसंख्यानगराणां नामानि श्रीहेमाचार्यकृत श्रीऋषभदेवचरित्रादवगन्तव्यानीति, 'ते विज्जाहरे'त्यादि, तानि विद्याधरनगराणि ऋद्धानि - भवनादिभिर्वृद्धिमुपगतानि स्तिमितानिनिर्भयत्वेन स्थिराणि समृद्धानि - धनधान्यादियुक्तानि ततः पदत्रयस्य कर्मधारयः, तथा प्रमुदिता - हृष्टाः प्रमोदवस्तूनां सद्भावाज्जना-नगरीवास्तव्यलोका जानपदाश्च - जनपदभवास्तत्रायाताः सन्तो येषु तानि तथा, यावत्करणात् सर्वोऽपि प्रथमोपाङ्गगतश्चम्पावर्णको ग्राह्यः, स च विस्तरभयान्नेह लिख्यते । अथ कियत्पर्यन्तः स ग्राह्य इत्याह
७६
पडिरूवा इति प्रतिरूपाणि- प्रतिविशिष्टं - असाधारणं रूपं - आकारो येषां तानि तथा तेषु णमिति प्राग्वत्, विद्याधरनगरेषु विद्याधरराजानः परिवसन्ति, अत्र समासान्तविधेरनित्यत्वान्नादन्तता, कथंभूतास्ते - महाहिमवान्-हैमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतः मलयः - पर्वतविशेषः सुप्रतीतो मन्दरो - मेरु माहेन्द्रः - पर्वतविशेषः, शक्रो वा ते इव साराः - प्रधानाः, 'रायवण्णओ भा०त्ति, अत्रापि सर्व प्रथमोपाङ्गगतो राजवर्णको भणितव्य इति 'विज्जाहरसेढी ण' मिति सूत्रं गतार्थं, अथात्रैव वर्त्तमाना- माभियोग श्रेणिं निरूपयति
'तासुणं०, तयोर्विद्याधर श्रेण्योर्बहुसमरमणीयाद्भूमिभागाद् वैताढ्यस्य पर्वतस्योभयोः पार्श्वयोर्दश दश योजनान्यूर्ध्वमुत्पत्य अत्र द्वे आ - समन्तात् आभिमुख्येन युज्यन्ते - प्रेष्यकर्मणि व्यापार्यन्ते इत्याभियोग्याः शक्रलोकपालप्रेष्यकर्मकारिणो व्यन्तरविशेषास्तेषाभावा- सभूते श्रेण्य-आभियोग्य श्रेण्यौ प्रज्ञप्ते, शेषं गतार्थं, नवरं 'वण्णओ दोण्हवि' त्ति द्वयोरपि जात्यपेक्षया पद्मवरवेदिकावनखण्डयोर्वर्णको वाच्य इति शेषः, तथा पर्वतसमि-काश्रतनऽपि पद्मवरवेदिका आयामेन - दैध्येर्ण, अत्र तत्सम्बन्धानि वनखण्डान्यपि पर्वतस - मान्यायामेनेति बोध्यं, 'आभिओगे' त्यादि, प्रागधस्तनसूत्रे जगती पद्मवरवेदिका समभूभाग मणितृणवर्णादिकं व्यन्तरदेवदेवीक्रीडादिकं च येनैव गमेन व्यावर्णितं स एवात्र गम इति न पुनव्याख्यायते ।
'तासि ण'मित्यादि, तासु आभियोग्य श्रेणिषु शक्रस्य आसनविशेषस्याधिष्ठाता शक्रस्तस्य दक्षिणार्द्धलोकाधितेरित्यर्थः, देवेन्द्रस्य - देवानां मध्ये परमैश्वर्ययुक्तस्य देवराज्ञः देवेषु कान्तयादि - गुणैरधिकं राजमानस्य सोमः - पूर्वदिक्पालो यमो - दक्षिणदिकपालो वरुणः - पश्चिमदिक्पालो वैश्रमणः - उत्तरदिक्पालस्तेषां कायो- निकाय आश्रयणीयत्वेन येषां ते तथा तेषां शक्रसम्बन्धिसोमादिदिकपालपरिवारभूतानामित्यर्थः, आभियोग्यानां देवानां बहूनि भवनानि प्रज्ञप्तानि, तानि,
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
-