________________
७५
वक्षस्कारः
जगत्या रुद्धत्वान्निरवकाशत्वेनैकीभवनासम्भवात्, अन्यथा 'सव्वओ समंता संपरिक्खित्ते' त्ति वचनेनैकैव स्यादिति, 'ताओ न' मिति, सर्वं गतार्थं, नवरं पर्वतसमिका आयामेन, वैताढ्यसमाना आयामेनेत्यर्थः अथैतदगतगुहाद्वयप्ररूपणायाह
-9
"
'वेयद्धस्स ण' मित्यादि, वैताढ्यस्य पर्वतस्य 'पुरच्छिमपञ्च्चच्छिमेणं'ति, अत्र सूत्र पूर्वस्या दिशः पूज्यत्वात् आर्षत्वाद्वा पुरच्छिमेतिशब्दस्य प्राग्निपातेऽपि पश्चिमायां पूर्वस्यामिति व्याख्येयं, अत्र ग्रन्थे ग्रन्थान्तरे च पश्चिमायां तमिस्रगुहायाः पूर्वस्यां च खण्डप्रपातगुहायाः अभिधानात्, द्वे प्रज्ञप्ते, प्राकृत शैल्याच बहुवचनं, उत्तरदक्षिणयोरायते, एतावता य एव वैताढ्यस्य विष्कम्भः स एवानयोरायाम इति भावः, प्राचीनप्रतीचीनविस्तीर्णे इत्याद्यर्थतो व्यक्तं, अत्र च उमास्वातिवाचककृतजम्बूद्वीपसमासप्रकरणे गुहाया विजयद्वारप्रमाणद्वारेतिविशेषणदर्शनात् चतुर्योजनविस्तृतद्वारा इत्यपि विशेषणं ज्ञेयं, वज्रमयकपाटाभ्यामवघाटिते, आच्छादिते इत्यर्थः, एते च द्वे अपि चक्रवर्त्तिकालवर्जं दक्षिणपार्श्वे उत्तरपार्श्वे च प्रत्येकं सदासम्मीलितवज्रमयकपाटयुगले स्यातां, अत एव यमलानि - समस्थितानि युगलानि - द्वयरूपाणि घनानि - निश्छिद्राणि कपाटानि तैः दुष्प्रवेशे, तथा नित्यं अन्धकारतमिस्र, द्वौ तुल्यार्थी प्रकर्षपराविति प्रकृष्टान्धकारं ययोस्ते तथा, विशेषणद्वारा अत्रार्थे हेतुमाह- व्यपगतं ग्रहचन्द्रसूर्यनक्षत्राणां ज्योतिर्यतः स एताद्दशः पन्था ययोस्ते तथा, अथवा व्यपगता ग्रहादीनां ज्योतिषश्च - अग्नेः प्रभा ययोस्ते तथा यावत्प्रतिरूपे, अत्र यावतकरणात् 'पासाईया' इत्यादि विशेषणत्रयं 'अच्छाओ' इत्यादीनि वा विशेषणानि यथासम्भवं ज्ञेयानि, ते गुहे नामतो दर्शयति, तद्यथा - 'तमिस्र गुहा चैव खण्डप्रपाता, इमे द्वे अपि समस्वरूपे वेदितव्ये इति, 'तत्थण' मित्यादि, सर्वमेतद् विजयदेवसमगमकमिति व्याख्यातप्रायं, नवरं कृतमालकस्तमिस्प्रधिपति नृत्तमालकः खण्डप्रपाताधिपतिरिति ।
अथात्र श्रेणिप्ररूपणायाह- 'तेसि णं वनसंडाण' मित्यादि, तयोर्वैताढ्योभयपार्श्ववर्त्तिनोर्भूमिगतयोर्वनखण्डयोर्बहुसमरमणीयाद् भूमिभागादूर्ध्व वैताढ्यगिरेरुभयोः पार्श्वयोर्दश दश योजनान्युत्पत्य-गत्वा अत्र द्वे विद्याधर श्रेण्यौ -विद्याधराणामाश्रयभूते प्रज्ञप्ते, एका दक्षिणभागे एका चोत्तरभागे इत्यर्थः, प्रागपरायते उदगदक्षिणविस्तीर्णे, उभे अपि विष्कम्भेन दश २ योजनानि, अत एव प्रथममेखलायां वैताढ्यविष्कम्भस्त्रींशद्योजनानि, पर्वतसमिके आयामेन, वैताढ्यवदिमे अपि पूर्वापरोदधिस्पृष्टे इत्यर्थः, तथा प्रत्येकमुभयोः पार्श्वयोः द्वाभ्यां पद्मवरवेदिकाभ्यां द्वाभ्यां च वनखण्डाभ्यां संपरिक्षिप्ते, एवमेकैकस्यां श्रेण्यां द्वे पद्मवरवेदिके द्वे च वनखण्डे इत्युभयोः श्रेण्योर्मीलने चतस्य पद्मवरवेदिकाश्चत्वारि वनखण्डानीति ज्ञेयं, संवादी चायमर्थ श्रीमलयगिरिकृतबृहत्क्षेत्रसमासवृत्या, तथा च तत्रोक्तम्- “एकैका च श्रेणरुभयपार्श्ववर्त्तिभ्यां वैताढ्यप्रमाणायामाभ्यां द्वाभ्यां २ पद्मवरवेदिकाभ्यां द्वाभ्यां २ वनखण्डाभ्यां समन्ततः परिक्षिप्ते "ति, शेषं सूत्रं गतार्थमिति, अथ तयोः श्रेण्योः स्वरूपं पृच्छति - 'विज्जाहरे' त्यादि गतार्थं, नवरं अत्र बहुष्वादर्शेषु ‘नानामणिपंचवण्णेहिं मणीहिं' इति पाठो न दृश्यते, परं राजप्रश्नीयसूत्रवृत्योर्धष्टत्वात् सङ्गतत्वाच्च 'नानाविहपंचवण्णेहिं मणीहिं तणेहिं' इति पाठो लिखितोऽस्तीति बोध्यं ।
अथोभय श्रेण्योर्नगरसङख्यामाह-'तत्थ णं दाहिणिल्लाए' इत्यादि, तत्रतयोः श्रेण्योर्मध्ये दक्षिणस्यां विद्याधर श्रेण्यां गगनवल्लभप्रमुखाः पंचाशद्विद्याधरनगरावासाः प्रज्ञप्ताः,
'व्याख्यातो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org