________________
-
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/११ लताः-पद्मलताद्याः वल्लयः-कूष्माण्डीप्रमुखाः, अत्र नदीद्रहवृक्षादिवनस्पतीनामशुभानुभावजनितानामेव बाहुल्यं बोध्यं, नतु एकान्तसुषमादिकालभावि तथाविधशुभानुभावजनितानां, तेषां प्रायः प्रज्ञापककालेऽल्पीयस्त्वात्, अटव्यो-दूरतरजननवासस्थाना भूमयः श्वापदाहिंसजीवाः स्तेनाः-चौराः तदेव कुर्वन्तीतिनिरुक्तितस्तस्कराः-सर्वदाचौर्यकारिणः डिम्बानिस्वदेशोत्थविप्लवा डमराणि-परराजकृतोपद्रवाः दुर्भिक्षं-भिक्षाचराणांभिक्षादुर्लभत्वं, दुष्कालोधान्यमहार्यतादिना दुष्टः कालः पाखण्डं-पाखण्डिजनोत्थापितमिथ्यावादः कृपणाः प्रतीताः ।
-वनीपका-याचका ईति-धान्याधुपद्रवकारिशलभमूषिकादि मारि-मरकः कुत्सिता वृष्टि कुवृष्टि कर्षकजनानभिलषणीया वृष्टिरित्यर्थः, अनावृष्टिवर्षणाभावइति राजानःआधिपत्यकर्तारः तद्बाहुल्यंचप्रजानां पीडाहेतुरिति रोगाः संक्लेशाश्चव्यक्ताः, अभीक्ष्णं२-पुनःपुनर्दण्डपारुष्यादिना संक्षोभाःचित्तानवस्थितता प्रजानामिति शेषः, इदंचसर्वंविशेषणजातं भरतस्य प्रज्ञापकापेक्षयामध्यमकालीनानुभावमेव व्यावर्णितं, तेनोत्तरसूत्रे एकान्तसुषमादावस्य बहुसमरमणीयत्वा-तिस्निग्धत्वादिकमेकान्तदुष्षमादौ निर्वनस्पतिकत्वाराजत्वादिकंच वक्ष्यमाणंन विरुध्यतेइति
-प्रागेवप्राचीनं, स्वार्थेईनप्रत्ययः, दिग्विवक्षायांप्राचीनंपूर्वाइत्यर्थः, एवंप्रतीचीनोदीचीने अपिवाच्ये, तेन पूर्वापरयोर्दिशोरायतंउदीचीदक्षिणयोर्दिशोर्विस्तीर्णं, अथवा प्राचीनप्रतीचीनावयवयोरायतमेवमुत्तरत्रापि, अथतदेव संस्थानतोविशिनष्टि-उत्तरतः-उत्तरस्यां दिशि पर्यङ्कस्येव संस्थितं-संस्थानं यस्य तत्तथा, दक्षिणतो-दक्षिणस्यां दिशि आरोपितज्यस्यधनुषः-कोदण्डस्य पृष्ठं-पाश्चात्यभागस्तस्येव संस्थितं-संस्थानं यस्य तत्तथा, अतएवास्य धनुःपृष्ठशरजीवाबाहानां सम्भवः, एषांचस्वरूपं स्वस्वावसरे निरूपयिष्यति, त्रिधा-पूर्वकोटिधनुःपृष्ठापरकोटिभिलवणसमुद्रंक्रमेणपूर्वदक्षिणापरलवणसमुद्रावयवंस्पृष्टं-धातूनामनेकार्थत्वात्प्राप्तं, ग्रामप्राप्त इत्यादिवत् कतरिक्तप्रत्ययः अयमर्थः-पूर्वकोटया पूर्वलवणसमुद्रधनुःपृष्ठेन दक्षिणलवणसमुद्रंअपरकोटया पश्चिमलवणसमुद्रसंस्पृश्य स्थितमिति, अथेदमेवषटखण्डविभजनद्वारा विशिनष्टि-गङ्गासिन्धुभ्यां महानदोभ्यां वैताढ्येन च पर्वतेन षट्संख्या भागाः षटभागास्तैर्विभक्तं, अयमर्थःअनन्तरोदितैस्त्रभिर्दक्षिणोत्तरयोः प्रयेकं खण्डत्रयकरणेन भरतस्य षट्खण्डानि कृतानीति।
अथ यदि जम्बूद्वीपैकदेशभूतं भरतं तर्हि विष्कम्भतः तस्य कतितमे भागे तदित्याह'जंबुद्दीवे'त्यादि, जम्बूद्वीपद्वीपस्य-जम्बूद्वीपविष्कम्भस्य नवत्यधिकशततमो यो भागस्तस्मिन् इति, अथ नवत्यधिकशततमभागे कियन्तियोजनानीत्याह-'पञ्चषड्विंशत्यधिकानियोजनशतानि षट्चयोजनस्यैकोनविंशतिभागान्, कोऽर्थः?-याशैरेकोनविंशतिभागैः समुदितैर्योजनं भवति ताद्दशान् षट् भागान् इति, विष्कम्भेन-विस्तारेण शरापरपर्यायेणेति, अयं भावः-जम्बूद्वीपविस्तारस्य लक्षयोजनरूपस्य नवत्यधिकशतेन भागे लब्धं योजनानि, एतावानेव च भरतविस्तारः, ननुभाजकराशिनवत्यधिकशतरूपः षड्भागास्तुयोजनैकोनविंशति-कलारूपा इति विसशमिव प्रतिभाति, उच्यते, तथाहि- जम्बूद्वीपव्यासस्य योजनलक्ष मितस्य नवत्यधिकशतभक्तस्यावशिष्टः षष्टिरूपो राशिभगदानासमर्थ इति भाज्यभाजकराश्योर्दशभिरपवर्तेजाता भाज्यराशौषट्भाजकराशौ इति सर्वंसुस्थं, ननु नवत्यधिकशतरूपभाजकाङ्कोत्पत्ती किं बीजमिति ?, उच्यते, एको भागो भरतस्य द्वौ भागौ हिमवतः, पूर्वक्षेत्रतो द्विगुणत्वात्,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org