________________
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् १/८
'सेकेणणं भंते! एवं वुच्चइ विजए दारे २ ?, गोयमा ! विजए णं दारे विजए नामं देवे महिड्डिए महज्जुई महाबले महायसे महासोक्खे पलिओवमठिइए परिवसइ, से णं तत्थ चउण्हं सामानियसाहस्सीणं चउन्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अनीयाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं विजयस्स णं दारस्स विजयाए अरायहाणीए अन्नेसिं च बहूणं विजयारायहाणीवत्थव्वाणं देवाणं देवीण य आहेवच्चं पोरेवच्चं सामित्तं भट्टित्तं महत्तरगत्तं आणाईसरसेणावच्चं कारेमाणे पालेमाणे दिव्वाई भोगभोगाई भुंजमाणे विहरइ, से तेणद्वेणं एवं वुच्चइ विजए दारे २" इति ।
अथ केनार्थेन भदन्त ! एवमुच्यते-विजयद्वारे विजयद्वारमिति ? भगवानाह - गौतम ! विजये द्वारे विजयो नाम प्राकृतत्वादव्यत्वाद्वा नामशब्दात्परस्य टावचनस्य लोपस्ततोऽयमर्थप्रवाहतः - अनादिकालसन्ततिपतितेन विजय इति नाम्ना देवो महर्द्धिको महती ऋद्धि-भवनपरिवारादिका यस्यासौ महर्द्धिकः, 'महाद्युतिकाः' महती द्युति शरीरगता आभरणगता च यस्यासौ महाद्युतिकः, तथा महत् बलं - शारीरः प्राणो यस्य स महाबलः, तथा महत् यशः - ख्यातिर्यस्यासौ महायशाः, तथा 'महेसक्खे' इति महान् ईश इत्याख्या - प्रसिद्धिर्यस्यासौ महेशाख्यः, अथवा ईशनं ईशो भावे घञ्प्रत्ययः एश्वर्यमित्यर्थः, 'ईश एश्वर्ये' इति वचनात्, तत ईशं- एश्वर्यं आत्मनः ख्याति - अन्तर्भूतण्यर्थतया ख्यापयति-प्रथयति स ईशाख्यः महांश्चासावीशाख्यश्च महेशाख्यः, कचिन्महासोक्खे इति पाठः, तत्र महत्सौख्यं प्रभूतसद्वेद्योदयवशाद्यस्य स महासौख्यः, पल्योपमस्थितिकः परिवसति, स च तत्र चतसृणां सामानिकसहस्राणां चतसृणामग्रमहिषीणां सपरिवाराणां प्रत्येकमेकैकसहस्रसंख्यपरिवारसहितानां तिसृणामभ्यन्तरमध्यमबाह्यरूपाणां यथाक्रममष्टदशद्वादशदेवसहस्रसङ्ख्याकानां पर्षदां, सप्तानीकानां हयानीकगजानीकरथानीकपदात्यनीकमहिषानीकगन्धर्वानीकनाट्यानीकरूपाणां सप्तानामनीकाधिपतीनां षोडशानामात्मरक्षकसहस्राणां विजयस्य द्वारस्य विजयायाश्च राजधान्या अन्येषां च बहूनां विजयराजधानीवास्तव्यानां देवानां देवीनां च अधिपतेः कर्म आधिपत्यं रक्षा इत्यर्थः, सा च रक्षा सामान्येनाप्यात्मरक्षकेणेव क्रियते तत आह-पौरपत्यं पुरस्य पति पुरपति तस्य कर्म पौरपत्यं, सर्वेषामग्रेसरत्वमिति भावः, तच्चाग्रेसरत्वं नायकत्वमन्तरेणापि स्वनायकनियुक्तथाविधगृहचिन्तकसामान्यपरुषस्येव ।
ततो नायकत्वप्रतिपत्यर्थमाह - 'स्वामित्वं' स्वमस्यास्तीति स्वामी तद्भावः स्वामित्वं नायकत्वमित्यर्थः, तदपि च नायकत्वं पोषकत्वमन्तरेणापि भवति यथा मृगयूथाधिपतेर्मृगस्य, तत आह-भर्तृत्वं- पोषकत्वं, 'डुभृञ, धारणपोषणयो रिति वचनात्, अत एव महत्तरकत्वं, महत्तरकत्वं कस्यचिदाज्ञाविकलस्यापि भवति यथा कस्यचिद्वणिजः स्वदासदासीवर्ग प्रति, तत आह- आज्ञया ईश्वरः आज्ञेश्वरः सेनायाः पति सेनापति आज्ञेश्वरश्चासौ सेनापतिश्च आज्ञेश्वरसेनापति तस्य कर्म आज्ञेश्वरसेनापत्यं स्वसैन्यं प्रत्यद्भुतमाज्ञाप्राधान्यमित्यर्थ कारयन् अन्यैर्नियुक्तैः पुरुषैः पालयन् स्वयमेव, महता 'रवेणे' ति योगः 'अहय'त्ति आख्यानकप्रतिबद्धानि यदिवा अहतानि - अव्याहतानि नित्यानुबन्धानीति भावः, ये नाट्यगीते नाट्यं-नृत्यं गीतं गानं यानि च वादितानि तन्त्रीतलतालत्रुटितानि, तन्त्री - वीणा तलो - हस्ततलस्ताल:: - कंशिका त्रुटितानि - शेषतूर्याणि, तथा यश्च घनमृदङ्गो - मेघसध्शध्वनिर्मुरजः पटुना पुरुषेण प्रवादितस्तत
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org
६४