SearchBrowseAboutContactDonate
Page Preview
Page 66
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ ६३ भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणापरस्यां दिशि नैऋत्यां विदिशीत्यर्थः, अत्र विजयदेवस्य बाह्यपर्षदो द्वादशानां देवसहस्राणां योग्यानि द्वादश भद्रासनसहस्राणि प्रज्ञप्तानि, ननु केऽभ्यन्तरमध्यबाह्यपर्षत्का देवाः यैरभ्यन्तरपर्षदादिव्यवहारो भवति?, उच्यते । अभ्यन्तरपर्षत्का देवा आहूता एव स्वामिनोऽन्तिकमायान्ति न त्वनाहूताः, परमगौरवपात्रत्वात्, मध्यमपर्षत्कास्तु आहूताअपिअनाहूताअपिस्वामिनोऽन्तिकमायान्ति, मध्यमप्रतिपत्तिविषयत्वात्, बाह्यपर्षत्काः पुनरनाहूताः स्वामिनोऽन्तिकमायान्ति, तेषामाकारणलक्षणगौरवानर्हत्वात्, अथवा यय सहोत्तममतित्वात् पर्यालोच्य विजयदेवः कार्यं विदधाति सा गौरवे पर्यालोचनायां चात्यन्मभ्यन्तराऽस्तीत्यभ्यन्तरिका, यस्याः पुरोऽभ्यन्तरपर्षदा सह पर्यालोच्य दृढीकृतंपदंगुणदोषकथनतःप्रपञ्चयति सागौरवेपर्यालोचनायांचमध्यमेभावेऽस्तीतिमध्यमिका, यस्याश्च पुरः प्रथमपर्षदा सह पर्यालोचितं द्वितीयपर्षदा सह प्रपञ्चितं पदमाशाप्रधानः सन्निदं विधेयमिदं न विधेयं वेति प्ररूपयति सा गौरवात्पर्यालोचनाच्च बहिर्भावेऽस्तीति बाह्या, तस्य सिंहासन्य पश्चिमेन-पश्चिमायां दिशि अत्र विजयस्य देवस्य सप्तानामनीकाधिपतीनां सप्त भद्रासनानि प्रज्ञप्तानि, अथ परिक्षेपान्तरमाह-तस्य सिंहासनस्य पूर्वस्यां दक्षिणस्यां पश्चिमाया उत्तरस्यां एवं चतसृषु दिक्षु अत्र विजयस्य देवस्य षोडशानामात्मरक्षकदेवसहस्राणां योग्यानि षोडशभद्रासनसहस्राणि प्रज्ञप्तानि, तद्यथा-पूर्वस्यांचत्वारिभद्रासनसहस्राणि, एवं चतसृष्वपि दिक्षुयावदुत्तरस्यांचत्वारिभद्रासनसहस्राणिप्रज्ञप्तानीति, एतद्व्याख्यानं साम्प्रतश्यमानजीवाभिगमसूत्रबहवादर्शपाठानुसारि, वृत्तौ तु तस्य सिंहासनस्य सर्वतः-सर्वासु दिक्षु समन्ततःसामस्त्येनेत्यादिव्याख्यानमस्ति, तत्पाठान्तरापेक्षयेति सम्भाव्यते, अवशेषेषु भौमेषु पूर्वापरमीलनेनाष्टसङ्ख्यकेषु प्रत्येकंप्रत्येकंसिंहासनंसपरिवारंसामानिकादिदेवयोग्यभद्रासनरूपपरिवारसहितं प्रज्ञप्तं, "विजयस्स णं दारस्स उवरिमागारे सोलसविहेहिं रयणेहिं उवसोभिए, तंजहा रयणेहिं १ वइरेहिं २ वेरुलिएहिं ३ लोहिअक्खेहिं ४ मसारगल्लेहिं ५ हंसगब्मेहिं ६पुलएहिं ७सोगंधिएहिं जोइरसेहिं९ अंकेहिं १० अंजणेहिं ११ रयएहिं १२ जयारूवेहिं १३अंजणपुलएहिं १४ फलिहेहिं १५ रिटेहिं १६"विजयस्य द्वारस्य उपरितन आकार-उत्तरङ्गादिरूपः, षोडशविधैः रलैरुपशोभितः, तद्यथा-रलैः १ वर्णोः रवैडूर्यै ३ लोहिताक्षैः ४ मसारगल्लैः ५ हंसग: ६ पुलकैः ७ सौगन्धिकैः८ज्योतीरसैः ९ अङ्क: १० अअनैः ११ रजतैः १२ जातरूपैः १३ अञ्जनपुलकैः १४ स्फटिकैः १५ रिष्ठैः १६। तत्र रत्नानि सामान्यतः कर्केतनादीनि, वज्रादीनि तुरत्नविशेषाः प्रतीता एव, नवरं रजतं-रूप्यं जातरूपं-सुवर्णं, एते अपि रने एवेति, “विजयस्स णं दारस्स उवरिं अट्ठमंगलगा पन्नत्ता, तंजहा-सोत्थिय सिरिवच्छ जाव दप्पणा सव्वरयणामया अच्छा जावपडिरूवा" 'विजयस्सण मित्यादि, विजयस्यद्वारस्योपरिअष्टावष्टौस्वस्तिकादीनि मङ्गलकानि प्रज्ञप्तानि, 'तद्यथे' त्यादिना तान्येवोपदर्शयति, 'सव्वरयणामया' इत्यादि प्राग्वत्, "विजयस्सणं दारस्स उप्पिं बहवे किण्हचामरज्झया जाव सव्वरयणामयाअच्छा जाव पडिरूवा, विजयस्सणं दारस्स उप्पिं बहवे छत्ताइछत्ता तहेव" विजयस्स णं दारस्स उप्पिं बहवे किण्हचामरज्झया" इत्यादि सूत्रपाठः जीवाभिगम- सूत्रबह्वादशेषु दृष्टत्वाल्लिखितोऽस्ति, स च पूर्ववद् व्याख्येयः, वृत्तौ तु केनापि हेतुना व्याख्यातो नास्तीति। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy