SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/८ ६२ यस्य येन वा सपूर्वं सपूर्वं च तदपरं च २ तेन सपूर्वापरेण पूर्वापरसमुदायेनेत्यर्थः - विजयद्वारेऽशीतं - अशीत्यधिकं केतुसहस्रं भवतीत्याख्यातं मयाऽन्यैश्च तीर्थकृद्भिरिति शेषः, “विजयस्य णं दारस्स पुरओ नव भोमा पन्नत्ता, तेसि णं भोमाणं अंतो बहुसमरमणिज्जा भूमिभागापन्नत्ता जाव मणीणं फासो, तेसि णं भोमाणं उप्पिं उल्लोआ पउमलया जाव सामलयाभत्तिचित्ता जाव सव्वतवणिज्जमया अच्छा जाव पडिरूवा, तेसि णं भोमाणं बहुमज्झदेसभाए जे से पंचमे भो तस्स णं भोमस्स बहुमज्झदेसभाए महं एगे सीहासणे पन्नत्ते, सीहासणवण्णओ, विजयदूसे जाव अंकुसे जाव दामा चिट्ठति” अत्र व्याख्या विजयस्य द्वारस्य पुरतो नव भौमानि - विशिष्टानि स्थानानि प्रज्ञप्तानि, तुर्याङ्गे तु 'विजयस्स णं दारस्स एगमेगाए बाहाए णव णव भोमा पन्नत्ता' इति संख्याशब्दस्य पुरतो वीप्सावचनेन उभयबाहासत्कमीलनेनाष्टादशसंख्या अङ्कतो भौमानां सम्भाव्यते, तत्वं तु सातिशयजनगम्यमिति तेषां च भौमानां भूमिभागः उल्लोकाश्च पूर्ववद्वक्तव्याः, तेषां च भौमानां बहुमध्यदेशभागे यत्पञ्चमं भौमं तस्य बहुमध्यदेशभागे विजयद्वारधिपविजयदेवयोग्यं सिंहासनं प्रज्ञप्तं, तस्य च सिंहासनस्य वर्णनं विजयदूष्यकुम्भाग्रमुक्तादामवर्णनं च प्राग्वत् 'उत्तरपुरच्छिमेणं एत्थ णं विजयस्स देवस्स चउण्हं सामानि असाहस्सीणं चत्तारि भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासनस्स दाहिणपुरच्छिमेणं एत्थ मं विजअस्स देवस्स अब्मितरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दा सणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासणस्स दाहिणेणं एत्थ णं विजयस्स देवस्स अब्मितरिआए परिसाए अट्ठण्हं देवसाहस्सीणं अट्ठ भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सहासणस्स दाहिणं एत्थ णं विजयस्स देवस्स मज्झिमियाए परिसाए दसहं देवसाहस्सीणं दस भद्दासणसाहस्सीओ पन्नत्ताए, तस्स णं सीहासणस्स दाहिणपच्चच्छिमेमं एत्य णं विजयस्स देवस्स बाहिरियाए परिसाए बारसण्हं देवसाहस्सीणं बारस भद्दासणसाहस्सीओ पन्नत्ताओ, तस्स णं सीहासणस्स पुरच्छिमेणं दाहिणेणं पञ्चच्छिमेणं उत्तरेणं एत्थ णं विजयस्स देवस्स सोलस आयरक्खदेवसाहस्सीणं सोलस भद्दासणसाहस्सी ओ पन्नत्ताओ, तंजहा - पुरच्छिमेणंचत्तारि साहसीओ, एवं चउसुवि जाव उत्तरेणं चत्तारि साहस्सीओ, अवसेसेसु भोमेसु पत्तेयं पत्तेयं सीहासणं सपरिवारं पन्नत्तं" अत्र व्याख्या तस्य सिंहासनस्य 'अवरोत्तरेणं' ति अपरोत्तरस्यां वायव्यकोणे इत्यर्थः, 'उत्तरेणं' ति उत्तरस्यां दिशि उत्तरपूर्वस्यां च - ईशानकोणे सर्वसङ्कलनया तिसृषु दिक्षु अत्र विजयदेवस्य चतुर्णा समाने - विजयदेवसध्शे आयुर्द्युतिविभवादौ भवाः सामानिकास्तेषां 'साहस्सीणं' ति प्राकृतत्वाद् दीर्घत्वं स्त्रीत्वं च सहस्राणां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य च सिंहासनस्य पूर्वस्यामत्र विजयदेवस्य चतसृणामग्रमहिषीणां, इह 'कृताभिषेका देवी महिषी' त्युच्यते, सा च स्वपरिवारभूतानां सर्वासामपि देवीनामग्रा-प्रधाना, ताश्च ता महिष्यश्च अग्रमहिष्यस्तासामग्रमहिषीणां प्रत्येकमेकैकसहस्रसंख्यदेवीपरिवारसहितानां चत्वारि भद्रासनसहस्राणि प्रज्ञप्तानि तस्य सिंहासनस्य दक्षिणपूर्वस्यामाग्नेय्यां विदिशीत्यर्थः, अत्र विजयस्य देवस्य अभ्यन्तरिकायाः पर्षदः - अभ्यन्तरपर्षद्रूपाणामष्टानां देवसहस्राणां योग्यान्यष्ट भद्रासनसहस्राणि प्रज्ञप्तानि, तस्य सिंहासनस्य दक्षिणस्यां दिशि अत्र विजयेवस्य मध्यमिकायाः पर्षदो दशानां देवसहस्राणां योग्यानि दश Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy