SearchBrowseAboutContactDonate
Page Preview
Page 545
Loading...
Download File
Download File
Page Text
________________ - ५४२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/॥१७॥ तेषां गणे गुणवतांधुरि गण्यमानः, श्रीवाचकः सकलचन्द्रगुरूर्बभूव । मेघाविषुप्रथमतः प्रथमानकीर्ति, स्फूर्तिर्यदीयकविकर्मणि सुप्रसिद्धा ।। ॥१८॥ पुनः पुनः संस्मृतिमीयुषीणां, प्रतिक्रियेयं यदुपक्रियाणाम् । पुनः पुनर्लोचनसान्द्रभावः, पुनः पुनर्निश्वसनस्वभावः ।। ॥१९॥ तेषां शिष्याणुनेयं गुरुजनविहितानुग्रहादेव जम्बूद्वीपप्रज्ञप्तिवृत्ति स्वपरहितकृते शान्तिचन्द्रेण चक्रे। वर्षे श्रीविक्रमाकांद्विधुशरभूवक्रधात्री १६५१ प्रमाणे, राज्ये प्राज्ये श्रिया श्रीअकबरनृपतेः पुण्यकारुण्यसिन्धोः॥ ॥२०॥ अस्योपाङ्गस्य गाम्भीर्यान्मदीयमतिमान्यतः । सम्प्रदायव्यपायाच्च, पूर्ववृत्तिनिवृत्तितः।। विरुद्धमागमादिभ्यो, यदत्र लिखितं मया। धीलोचनैस्तदालोच्य, शोध्यं सानुग्रहैमयि ॥युग्मम् ।। ॥२२॥ तुष्यन्तु साधवः सर्वे, मारुष्यन्तु खला मयि । नमस्करोमि निशेषान्, प्रीत्या भीत्या क्रमादिमान् ।। ॥२३॥ गम्भीरमिदमुपाङ्गं यथामति विवृण्वता विशदमतिना। यदवापि मया कुशलं कुशलमतिस्तेन भवतु जनः॥ ॥२४॥ अचे यावल्लीलौकसि नभसि नक्षत्र कुसुमव्रजं राज्ञः श्यामाभिगमसमये पूरिततरम् मृजाकारः सूर्य करहबहुकरेणापनयति, ध्रुवा तावद्भयादियमखिललोकैः परिचिता ॥२६॥ अथ शोधनसमयगता पुरोऽनुसन्धीयते प्रशस्तिरियम्। तपगणसाम्राज्यरमां श्रयति श्रीविजयसेनगुरौ । ॥२७॥ यत्सौभाग्यमनुत्तरं गुणगणो येषां वचोगोचरातीतः कोऽप्यभवत् पुरापि विनयाधारः (सदा) पूजितः। हित्वा येन पतिंवरावदपरान् यानेव सतचातुरो युक्ताचार्यपदव्युदाररचिता सौवश्रियेऽशिश्रियत्॥ ॥२८॥ यद्रूपं मदनं सदा विमदनं निर्माति रम्यश्रिया, यत्कीतिश्चपदातिकं वितनुने कान्त्या निशानायकम् चित्रं सञ्चिनुते चचेतसि सतां यद्देशनावाक् सुधा देश्या शासनदीप्तिकृच्च सतपो यद् ध्यानमत्यभ्दुतम् ॥ ॥२९॥ते श्रीअकब्बरमहीधरदत्तमान-विख्यातिमद्विजयसेनगणाधिपानाम् । नन्दिन्ति पट्टयुवराजपदं दधानाः, श्री सूरयो विजयदेवयतिप्रधानाः॥ ॥३०॥ श्रीविजयसेनसूरीश्वरगणनायकनिदेशकरणचणाः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy