________________
वक्षस्कारः-७
५३७
तत्परिणामेद्वीपस्यापि चलत्वापत्तिरिति तयोः स्वतएवसन्देहाविषयत्वेनन प्रश्नसूत्रे उपन्यासः, भगवानाह-गौतम! पृथिवीपरिणामोऽपि पर्वतादिमत्वात् अप्परिणामोऽपि नदीहदादिमत्वात् जीवपरिणामोऽपि मुखवनादिषु वनस्पत्यादिमत्वात्, यद्यपि स्वसमये पृथिव्यपकायपरिणामत्वग्रहणेनैवजीवपरिणामत्वं सिद्धं तथापि लोके तयोर्जीवत्वस्याव्यवहारात् पृथग्ग्रहणं, वनस्पत्यादीनां तुजीवत्वव्यवहारःस्वपरसम्मत इति, पुद्गलपरिणामोऽपि मूर्तत्वस्य प्रत्यक्षसिद्धत्वात्, कोऽर्थः ?-जम्बूद्वीपो हि स्कन्धरूपः पदार्थः, स चावयवैः समुदितैरे भवति, समुदायरूपत्वात् समुदायिन इति।
__ अथ यदि चायंजीवपरिणामस्तर्हि सर्वेजीवाअत्रोत्पन्नपूर्वाउत नेत्याशङ्कयाह-'जंबुद्दीवे गंभंते!'इत्यादि, जम्बूद्वीपे भदन्त! द्वीपे सर्वेप्राणाः-द्वित्रिचतुरिन्द्रियाः सर्वेजीवाः-पञ्चेन्द्रियाः सर्वेभूताः-तरवः सर्वे सत्वाः-पृथिव्यपतेजोवायुकायिकाः,अनेन च सांव्यवहारिकराशिविषयक एवायंप्रश्नः, अनादिनिगोदनिर्गतानामेव प्राणजीवादिरूपविशेषपर्यायप्रतिपत्तेः, पृथिवीकायिकतया अपकायिकतया तेजस्कायिकतया वायुकायिकतया वनस्पतिकायिकतया उपपन्नपूर्वाउत्पन्नपूर्वा ?, भगवानाह–'हंता गोअमा!' एवं गौतम ! यथैव प्रश्नसूत्रं तथैव प्रत्युच्चारणीयं पृथिवीकायिकतया यावद्वनस्पतिकायिकतया उपपन्नपूर्वा कालक्रमेण संसारस्यानदित्वात्, न पुनः सर्वे प्राणादयोजीवविशेषायुगपदुत्पन्नाः सकलजीवनामेककालंजम्बूद्वीपे पृथिव्यादिभावेनोत्पादे सकलदेवनारकादिभेदाभावप्रसक्तेः, न चतदस्ति, तथा जगत्स्वभावादिति, कियन्तो वारानुत्पन्ना इत्याह-असकृद्-अनेकशः अथवा अनन्तकृत्वः-अनन्तवारान् संसारस्यानादित्वादिति । अथ जम्बूद्वीपेतिनाम्नो व्युत्पत्तिनिमित्तं जिज्ञासिषुः पृच्छति
मू. (३६४) से केणडेणं भंते ! एवं वुच्चइ जंबुद्दीवे २?, गो० ! जंबुद्दीवे णं दीवे तत्थ २ देसे तहिं २ बहवे जंबूरुक्खाजंबूवणाजंबूवणसंडा निचं कुसुमिआजाव पिंडिममंजरिवडेंसगधरा सिरीए अईव उवसोभेमाणा चिट्ठति, जंबूए सुदंसणाए अनाढिएंणामं देवे महिद्धीए जाव पलिओवमट्टिइए परिवसइ, से तेणटेणं गोअमा! एयं वुच्चइ जंबुद्दीवे दीवे इति।
वृ. 'सेकेणतुणं भंते! एवंवुच्चइ-जंबुद्दीवेदीवे'इत्यादि, अथ केनार्थेन भदन्त! एवमुच्यते जम्बूद्वीपो द्वीपः?, भगवानाह-गौतम! जम्बूद्वीपे २ तत्र तत्र देशे तस्य देशस्य र तत्र तत्र प्रदेशे बहवोजम्बूवृक्षाः एकैकरूपाः विरलस्थितत्वात्तथा बहूनिजम्बूवनानि-जम्बूवृक्षाएव समूहभावेन स्थिताः अविरलस्थितत्वात् एकजातीयतरुसमूहो वन मितिवचनात्, तथा बहवोजम्बूवनखण्डाःजम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, ‘अनेकजातीयतरुसमूहो वनखण्ड' इति वचनात्, तत्रापि जम्बूवनखण्डाः-जम्बूवृक्षसमूहा एव विजातीयतरुमिश्रिताः, ‘एनेकजातीयतरुसमूहो वनखण्ड' इति वचनात्, तत्रापि जम्बूवृक्षाणामेव प्राधान्यमिति प्रस्तुते वर्णकसाफल्यं, अन्यथा अपरवृक्षाणां वनखण्डेनिमित्तभूतैर्जम्बूद्वीपपदप्रवृत्तिनिमित्तत्वेऽसाङ्गत्यात्, तेच कथंभूता इत्याहनित्यं-सर्वकालं कुसुमिताः यावत्पदात् 'निच्चं माइया निचं लवइआ निच्चं थवइआ जाव निच्चं कुसुमिअमाइअलवइअथवइअगुलइअगोच्छइअजमलिअजुवलिअविणमिअसुविभत्त' इतिग्राह्यम्
एतदव्याख्यानं प्राग्वनखण्डवर्णके कृतमिति ततो ज्ञेयं, उक्तवर्णकोपेताश्च वृक्षाः श्रिया अतीव उपशोभमानास्तिष्ठन्ति, इदं च नित्यकुसुमित्वादिकं जम्बूवृक्षाणामुत्तरकुरुक्षेत्रापेक्षया
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org