SearchBrowseAboutContactDonate
Page Preview
Page 541
Loading...
Download File
Download File
Page Text
________________ ५३८ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३६४ बोध्यं, अन्यथैषां प्रावृट्कालभाविपुष्पफलोदयवत्वेन प्रत्यत्रबाधात्, एतेन च जम्बूवृक्षबहुलो द्वीपोजम्बूद्वीपइत्यावेदितं भवति, अथवाजम्ब्वां सुदर्शनाभिधानायामनातनामा-पूर्वजम्बूवृक्षाधिकारे व्याख्यातनामादेवोमहर्द्धिकोयावत्करणात् 'महज्जुईए'इत्यादि ग्राह्यं, पल्योपमस्थितिकः परिवसति, अथतेनार्थेन भदन्त! एवमुच्यते-स्वाधिपत्यनाध्तनामदेवाश्रयभूतया जम्ब्बोपलक्षितो द्वीपो जम्बूद्वीप इति, सूत्रैकदेशो ह्यपरं सूत्रैकदेशं स्मारयतीति ‘अदुत्तरंचणंजंबुद्दीवस्स सासए नामधेज्जे पन्नत्ते जंन कयाइ न आसी न कयाइ नत्थि न कयाइ न भविस्सइ जाव निच्छे' इति ज्ञेयम्, जीवाभिगमादर्श तथादर्शनात्, एतेन किमाकारभावप्रत्यवतारो जंबूद्वीप इति चतुर्थ प्रश्नो नियूंढ इति। मू. (३६५) तएणंसमणे भगवंमहावीरे मिहिलाएनयरीएमाणिभद्दे चेइएबहूणंसमणाणं बहूणंसमणीणंबहूणं सावयाणंबहूणंसावियाणंबहूणंदेवाणंबहूणंदेवीणं मझगए एवमाइक्खइ एवं भासइ एवं पन्नवेइ एवं पखवेइ जंबूदीवपन्नत्ती नामत्ति अजो ! अज्झयणे अहं च हेउंच पसिणं च कारणं च वागरणं च भुजो २ उवदंसेइत्तिबेमि ॥ वृ.अथप्रस्तुततीर्थद्वादशाङ्गीसूत्रसंसूत्रणाविश्वकर्माश्रीसुधर्मस्वामी स्वस्मिन्गुरुत्वाभिमानं परिजिहीर्षु प्रस्तुतग्रन्थनामोपदर्शनपूर्वकं निगमनवाक्यमाह-'तए णमित्यादि, शाश्वतत्वाच्छाश्वतनामकत्वाच्च सद्रूपोऽयं जम्बूद्वीपरूपो भावः, सन्तं हि भावं नापलपन्ति वीतरागास्ततः श्रमणो भगवान् महावीरो मिथिलायां नगर्यां माणिभद्रे चैत्ये बहूनां श्रमणानां बहूनां श्रमणीनां बहूनांश्रावकाणांबहूनां श्राविकाणांबहूनांदेवानांबहूनां देवीनांमध्यगतोन पुनरेकान्तेएकतरस्य कस्य चित् पुरतः एवं-यथोक्तमुक्तानुसारेणेत्यर्थ आख्याति-प्रथमतो वाच्यमात्रकथनेन एवं भाषते-विशेषवचनकथनतः एवं प्रज्ञापयति-व्यक्तपर्यायवचनतः एवं प्ररूपयत्युपपत्तितः, आख्येयस्याभिधानमाह-जम्बूद्वीपप्रज्ञप्तिरिति नामषष्ठोपाङ्गमितिशेषः, एतच्च ग्रन्थाग्रेण साधिकैकचत्वारिंशच्छतश्लोकमानं, यत्तु श्रीमलयगिरिपादैः सूर्यप्रज्ञप्तिटीकायां द्वितीयप्राभृतप्राभृते 'एवामेव सपुव्वावरेणं जंबुद्दीवे दीवे चउद्दस सलिलासयसहस्साइं छप्पन्नं च सलिलासहस्साई भवंतीतिम- क्खाय'मित्यंतं श्लोकसहस्रचतुष्टयमानमुक्तं,ज्योतिष्काधिकारसूत्रमीलनेन च सप्तचत्वारिंशच्छ- ताधिकमपि, तत्तु यावत्पदसंग्रहेण जन्माधिकारबृहद्वाचनाप्रक्षेपेण च तावत्परिमाणं सम्भाव्यत इति बोध्यं । ____ अत्र गुणान् विभावयन्नाह-'अज्जो अज्झयणे अटुं च हेउं च पसिणं च'इत्यादि, आरात्-सर्वपापा दूरं यातः आर्य-श्रीवर्द्धमानस्वामी अत एव सर्वसावद्यवर्जकत्वेन 'सावयं निरर्थकं तुच्छार्थकं च ब्रूयादिति वक्तृप्रामाण्येन वचनप्रामाण्यमावेदितं भवति, अथवा श्रीसुधर्मस्वामिसम्बोधनं श्रीजम्बूस्वामिनं प्रति हे आर्य ! इति, अध्ययने प्रस्तुतजम्बूद्वीपप्रज्ञप्तिनामके स्वतन्त्राद्ययने न तु शस्त्रपरिज्ञादिवत् श्रुतस्कन्धाधन्तर्गते अर्थं च चाः परस्परं समुच्चयार्था हेतुच प्रश्नंच कारणंच व्याकरणंच भूयो भूयो-विस्मरणशीलश्रोत्रनुग्रहार्थं वारंवारं प्रकाशनेन अथवा प्रतिवस्तुनामार्थादिप्रकाशनेनोपदर्शयतीतिसम्बन्धः, अनेन गुरुपारतन्त्रयमभिहितं, तत्रार्थो जम्बूद्वीपादिपदानामन्वर्थः, स यथा 'सेकेणद्वेणं भंते! एवं वुच्चइ-जंबुद्दीवे दीवे गो० ! जम्बु० तत्थ २ देसे तहिं २ बहवे जम्बूरुक्खा जम्बूवणा जम्बूवणसंडा जाव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy