SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ५३४ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३५९ संखेज्जगुणा गहा संखेज्जगुणा तारारूवा संखेजगुणा इति । वृ. "एतेसि ण मित्यादि, एतेषां-अनन्तरोक्तानां प्रत्यक्षप्रमाणगोचराणां वा भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां कतरे कतरेभ्योऽल्पाः-स्तोकाःवा विकल्पसमुच्चयार्थे कतरेकतरेभ्यो बहुका वा कतरे कतरेभ्यस्तुल्या वा, अत्र विभक्तिपरिणामेन तृतीया व्याख्येया, कतरे कतरेभ्यो विशेषा वेति, गौतम ! चन्द्रसूर्या एते द्वयेऽपि परस्परं तुल्याः, प्रतिद्वीपं प्रतिसमुद्रं चन्द्रसूर्याणां समसङ्ख्याकत्वात्, शेषेभ्यो ग्रहादिभ्यः सर्वेऽपि स्तोकाः, तेभ्यो नक्षत्राणि सङ्ख्येयगुणानि अष्टाविंशतिगुणत्वात्, तेभ्योऽपि ग्रहाः सङ्ख्येयगुणा- सातिरेकत्रिगुणत्वात्, तेभ्योऽपि तारारूपाणि सङ्ख्येयगुणानि प्रभूतकोटाकोटीगुणत्वादिति, व्याख्यातं षोडशमल्पबहुत्वद्वारं । मू. (३६०) जंबुद्दीवे णं भंते ! दीवे जहन्नपए वा उक्कोसपए वा केवइआ तित्थयरा सव्वग्गेणं पं०?, गो० ! जहन्नपए चत्तारि उक्कोसपए चोत्तीसं तित्थयरा सव्वग्गेणं पन्नत्ता। जंबुद्दीवेणं भंते ! दीवे केवइआ जहन्नपए वा उक्लोसपए वा चक्कवट्टी सव्वग्गेणं पं०?, गो० जहन्नपदे चत्तारि उक्कोसपदे तीसंचक्कवट्टीसव्वग्गेणं पन्नत्ता इति, बलदेवा तत्तिआचेव जत्तिआ चक्कवट्टी, वासुदेवावि तत्तिया चेवत्ति। जंबुद्दीवे दीवे केवइआनिहिरयणा सव्वग्गेणं पं०?, गो०! तिन्निछलुत्तरा निहिरयणसया सव्वग्गेणं पं०, जम्बुद्दीवे २ केवइआ निहिरयणसया परिभोगत्ताए हव्वमागच्छंति?, गो०! जहन्नपए छत्तीसं उक्कोसपए दोन्नि सत्तरा णिहिरयणसया परिभोगत्ताए हव्वमागच्छति । वृ. अथ जम्बूद्वीपे जघन्योत्कृष्टपदाभ्यां तीर्थकरान् पिपृच्छिषुराह-'जंबुद्दीवे णं भंते ! दीवे जहन्नपए' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे जघन्यपदे सर्वस्तोके स्थाने वा उत्कृष्टपदे सर्वोत्कृष्टस्थाने वा विचार्यमाणे इति शेषः कियन्तस्तीर्थकराः सर्वाग्रेण-सर्वसंख्यया केवलिहष्टमात्रया इत्यर्थः प्रज्ञप्ताः?, गौतम! जघन्यपदे चत्वारः प्राप्यन्ते, तथाहि-जम्बूद्वीपस्य पूर्वविदेहे शीतामहानद्या द्विभागीकृतेदक्षिणोत्तरदिग्भागयोरेकैकस्य सद्भावात्द्वौ अपरविदेहेऽपि शीतोदया महानद्या द्विभागीकृते तथैव द्वौजिनेन्द्रौ मिलिताश्चत्वारः, भरतैरावतयोस्तुएकान्तसुषमादावभाव एव, उत्कृष्टपदेचतु० स्त्रशत्तीर्थकराः सर्वाग्रणप्रज्ञप्ताः,तथाहि-महाविदेहे प्रतिविजयं भरतैरावतयोश्चैकैकस्य सम्भव इति सर्वमीलने चतु० स्त्रशत्, एषां हि भगवतां स्वस्वक्षेत्रवर्त्तिभिश्चक्रिभिरर्द्धचक्रिभिश्च महानवस्थानलक्षणविरोधासम्भवात्, एतच्च विहरमानजिनापेक्षया बोद्धयं, नतु जन्मापेक्षया, तच्चिन्तायां तूत्कृष्टपदे चतुस्त्र०शतस्तीर्थकराणामसम्भवादिति । अथात्रैव जघन्योत्कृष्टपदाभ्यां चक्रिणः पृच्छति-'जंबुद्दीवे' इत्यादि, जम्बूद्वीपे भदन्त ! द्वीपे कियन्तो जघन्यपदे वा उत्कृष्टपदे वा चक्रवर्तिनःप्रज्ञप्ताः?, भगवानाह-गौतम! जघन्यपदे चत्वारः उपपत्तिस्तु तीर्थङ्कराणामिव, उत्कृष्टपदे त्रिंशच्चकवर्तिनः सर्वाग्रेण प्रज्ञप्ताः, कथमिति चेत्, उच्यते, द्वात्रिंशद्विजयेषु वासुदेवस्वामिकान्यतरविजयचतुष्कवर्जितविजयसत्काऽष्टाविंशति भरतैरावतयोस्तुद्वावितिपूर्वापरमीलितास्त्रिंशत्, यदा महाविदेहे उत्कृष्टपदेऽष्टाविशतिश्चक्रिणः प्राप्यन्ते तदा नियमाच्चतुर्णामर्द्धचक्रिणां सम्भवेन तन्निरुद्धक्षेत्रेषु चक्रिणामसम्भवात्, चक्रिणामर्द्धचक्रिणांच सहानवस्थानलक्षणविरोधादिति। अथात्र तथैव बलदेवानर्द्धचक्रिणश्चाहबलदेवा अपितावन्त एवोत्कृष्टपदे जघन्यपदेच यावन्तश्चक्रवर्तिनः, वासुदेवा अपितावन्त एव Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy