SearchBrowseAboutContactDonate
Page Preview
Page 532
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः -७ ५२९ मण्डलापेक्षया सर्वबाह्यमम्डलस्य गतिप्रकर्षस्य सुप्रसिद्धत्वात्, प्रज्ञप्त इति गम्यं, भगवानाह - गौतम चन्द्रेभ्यः सूर्या सर्वशीघ्रगतयः, सूर्येभ्यः ग्रहाः शीघ्रगतयः, ग्रहेभ्यो नक्षत्राणि शीघ्रगतीनि, नक्षत्रेभ्यस्तारारूपणि शीघ्रगतीनि, मुहूर्तगतौ विचार्यमाणायां परेषां परेषां गतिप्रकर्षस्यागमसिद्धत्वात्, अत एव सर्वेभ्योऽल्पा - मन्दा गतिर्येषां ते तथा एवंविधाश्चन्द्रास्तथा सर्वेभ्यः शीघ्रगतीनि तारारूपाणीति । मू. (३४९) एतेसि णं भंते ! चंदिमसूरि अगहनक्खत्रारारूवाणं कयरे सव्वमहिद्धिआ कयरे सव्वम्पडिआ ?, गो० ! तारारूवेहिंतो नक्खत्ता महिद्धिआ नक्खत्तेहिंती गहा महिद्धिआ गहेहिंतो सूरिआ महिद्धिआ सूरेहिंतो चंदा महिद्धिआ सव्वपिद्धिआ तारारूवा सव्वमहिद्धिआ चंदा । वृ. अथैकादशद्वारं प्रश्नयति- 'एतेसि ण' मित्यादि, एतेषां भदन्त ! चन्द्रसूर्यग्रहनक्षत्रतारारूपाणां मध्ये कतरे सर्वमहर्द्धिकाः कतरे च चकारोऽत्र गम्यः सर्वात्पर्द्धिकाः ?, भगवानाह - गौ० ! तारारूपेभ्यो नक्षत्राणि महर्द्धिकानि नक्षत्रेभ्यो ग्रहा महर्द्धिकाः ग्रहेभ्यः सूर्या महर्द्धिकाः सूर्येभ्यश्चन्द्रा महर्द्धिकाः, अत एव सर्वाल्पर्द्धिकास्तारारूपाः सर्वमहर्द्धिकाश्चन्द्राः मू. (३५०) जंबुद्दीवे णं भंते ! दीवे ताराए अ ताराए अ केवइए अबाहाए अंतरे पन्नत्ते गोअमा ! दुविहे - वाघाइए अ निव्वाघाइए अ, निव्वाघाइए जहन्नेणं पंचधनुसयाइं उक्कोसेणं दो गाऊआई, वाघाइए जहन्नेणं दोन्नि छावट्टे जोअणसए उक्कोसेणं बारस जोअणसहस्साइं दोन्नि अ बायाले जोअणसए तारारूवस्स २ अबाहाए अंतरे पन्नत्ते । वृ. इयमत्र भावना - गतिविचारणायांये येभ्यः शीघ्रा उक्तास्तेतेभ्यः ऋद्धिविचार-णायामुत्क मतो महर्द्धिका ज्ञेया इति । अथ द्वादशद्वारप्रश्नमाह - 'जंबुद्दीवे णं०' जम्बूद्वीपे भदन्त ! द्वीपे तारायास्तारायाश्च कियदबाधया अन्तरं प्रज्ञप्तम् ?, भगवानाह - गौ० ! द्विविधं - व्याघातिकं निव्यार्घातिकंच, व्याघातः - पर्वतादिस्खलनंतत्र भवं व्याघातिकं, निव्यार्घातिकं व्याघातिकान्निर्गतं स्वाभाविकमित्यर्थः, तत्रयन्निव्यार्घातिकं तज्जघन्यतः पञ्चधनुःशतानि उत्कृष्टतो द्वे गव्यते, एतच्च जगस्त्वाभाव्यादेवावगन्तव्यं, यच्च व्याघातिकं तज्जघन्यतो द्वे योजनशते षट्षष्ट्यधिके, एतच्च निषधकूटादिकमपेक्ष्य वेदितव्यं । तथाहि - निषधपर्वतः स्वभावतोऽप्युच्चैश्चत्वारि योजनशतानि तस्य चोपरि पञ्चयोजनशतोच्चानि कूटानि तानि च मूले पञ्चयोजनशतान्यायामविष्कम्भाभ्यां मध्ये त्रीणि योजनशतानि पञ्चसप्तत्यधिकानि उपरि अर्द्धतृतीये द्वे योजनशते तेषां चोपरितनभागसम श्रेणिप्रदेशे तथाजगतस्वाभाव्यादष्टावष्टौ योजनान्यबाधया कृत्वा ताराविमानानि परिभ्रमन्ति ततो जघन्यतो व्याघातिकमन्तरंद्वे योजनशते षटषष्टयधिकेभळतः, उत्कर्षतो द्वादश योजनसहस्राणि द्वे योजनशते द्विचत्वारिंशदधिके, एतच्च मेरुमपेक्ष्य द्रष्टव्यं । तथाहि - मेरी दशयोजनसहस्राणि मेरोश्चोभयतोऽबाधया एकादशयोजनशतान्येकविंशत्यधिकानि, ततः सर्वसङ्ख्यामीलने भवन्ति द्वादशयोजनसहस्राणि द्वे च योजनशते द्विचत्वारिंशदधिके, एवं तारारूपस्य तारारूपस्य अन्तरं प्रज्ञप्तमिति । अथ त्रयोदशं द्वारं प्रश्नयन्नाहमू. (३५१) चंदस्स णं भंते! जोइसिंदस्स जोइसरन्नो कइ अग्गमहिसीओ प० गो० ! 13 34 Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy