________________
वक्षस्कारः-७
५१९
कियन्तो वहन्तीति वक्तव्यं ९ एषां मध्ये के शीघ्रगतयः के मन्दगतय इति वक्तव्यं १०, एषां मध्ये केऽल्पर्द्धयो महर्द्धयश्चेति वक्तव्यं ११ ताराणां परस्परमन्तरं वक्तव्यं १२ अग्रमहिष्यो वक्तव्याः १३, तुटिकेन-अभ्यन्तरपर्षत्सत्कस्त्रीजनेन सह प्रभुः-भोगं कर्तुं समर्थश्चन्द्रादिर्नवा इति वक्तव्यं १४ स्थितिरायुषो वक्तव्या १५ ज्योतिष्काणामल्पबहुत्वं वक्तव्यं १६ इति ।
मू. (३३६) अस्थि णं भंते ! चंदिमसूरिआणं हिडिंपि तारारुवा अणुंपितुल्लावि समेवि तारारुवा अणुंपितुल्लावि उप्पिंपि तारारुवा अणुंपितुल्लावि?, हंता! गो०! तं चेव उच्चारेअव्वं
वृ.अथ प्रथमं द्वारं पिपृच्छिषुराह-'अस्थिण मित्यादि, अस्त्येतद्भगवन्! चन्द्रसूर्याणां देवानां 'हिटिंपि'त्ति क्षेत्रापेक्षया अधस्तना अपि तारारूपः तारा विमानाधिष्ठातारो देवा द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपि-हीना अपि भवन्ति केचितुल्या अपि-सध्शा अपि भवन्ति, अधिकत्वं तु स्वस्वेन्द्रेभ्यः परिवारदेवानां न सम्भवतीति न पृष्टं, तथा समेऽपीति चन्द्रादिविमानैः क्षेत्रापेक्षया समाः-समश्रेणिस्थिता अपि तारारूपाः-ताराविमानाधिष्ठातारो देवास्तेऽपि चन्द्रसूर्याणां देवानांद्युतिविभवादिकमपेक्ष्य केचिदणवोऽपिकेचितुल्याअपि भवन्ति
तथाचन्द्रादिविमानानां क्षेत्रापेक्षयाउपरि-उपरिस्थितास्तारारूपाः-ताराविमानाधिष्ठातारो देवास्तेऽपिचन्द्रसूर्याणांदेवानां द्युतिविभवादिकमपेक्ष्य केचिदणवोऽपिकेचितुल्या अपि भवन्ति, अत्र काकुपाठात् प्रश्नावगमः, एवं गौतमेन पृष्टे भगवानाह-गौतम ! हन्तेति यदेव पृष्टं तत्सर्वं तथैवास्ति अतस्तदेवोच्चारणीयं ।
मू (३३७) सेकेणट्टेणंभंते! एवंवुच्चइ-अस्थिणं० जहाणंतेसिंदेवाणंतवनियमबंभचेराणि ऊसिआइभवसि तदा तहाणं तेसिणं देवाणं एवं पण्णायए तंजहा-अणुत्ते वातुल्लत्ते, वा, जहा जहाणं तेसिं देवाणं तवनियमबंभचेराणि नो ऊसिआइं भवंति तहा तहा णं तेसिं देवाणं एवं (नो) पण्णायए, तं० अणुत्ते वा तुलत्ते वा।
वृ.अत्रार्थे हेतुप्रश्नायाह-अथकेनार्थेन भगवन्नेवमुच्यते-'अस्थिण'मित्यादिना, तदेव सूत्रमनुस्मरणीयं, अत्रोतरमाह-यथा यथा तेषां तारारूपविमानाधिष्ठातृणां देवानां प्राग्भवे तपोनियमब्रह्मचर्याण्युच्छ्रितानि-उत्कटानि भवन्ति, तत्र तपः अनशनादि द्वादशविधंनियमःशौचादि ब्रह्मचर्य-मैथुनविरति, अत्र च शेषव्रतानामनुपदर्शनमुत्कटव्रतधारिणा ज्योतिष्केषु उत्पादासम्भवात्, उच्छ्रितानीत्युपलक्षणं तेनयथायथाअनुच्छ्रितानीत्यपि बोध्यं, अन्यथोत्तरसूत्रे वक्ष्यमाणमणुत्वं नोपपद्येत, यच्छब्दगमितवाक्यस्य तच्छब्दगर्भितवाक्यसापेक्षत्वुदुत्तरवाक्यमाह- तथा तथा तेषां देवानामेवं प्रज्ञायते-ज्ञायते इति, तद्यथा-अणुत्वं वा तुल्यत्वं वा, नचैतदनुचि, श्यतेहि मनुष्यलोकेऽपि केचिजन्मान्तरोपचिततथाविधपुण्यप्राग्भारा राजत्वमप्राप्ता अपिराज्ञा सह तुल्यविभवाइति, अत्र व्यतिरेकमाह-यथायथा तेषांदेवानां-ताराविमानाधिष्ठातृणां प्राग्भवार्जितान्युच्छ्रितानि तपोनियमब्रह्मचर्याणि न भवेयुस्तथा तथा तेषां देवानां नो एवं प्रज्ञायते-अणुत्वं वातुल्यत्वंवा, अभियोगिककर्मोदयेनातिनिकृष्टत्वात्, अयमर्थः-अकामनिजरादियोगाद्देवत्वप्राप्तावपि देवर्द्धरलाभेन चन्द्रसूर्येभ्योद्युतिविभवाद्यपेक्षयाऽणुएकैकस्य भदन्त चन्द्रस्य कियन्तो तेषां तैस्सह तुल्यत्वमिति ।
मू. (३३८) एगमेगस्स णं भंते ! चंदस्स केवइआ मंहग्गहा परिवारो केवइआ नक्खत्ता
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org