________________
५१८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३३३ तत एकं पदं सप्तांगुलानित्रयो यवाएकस्य च यवस्य एकोनविंशति-रेकत्रिंशदभागाइति पदचतुष्टयात् पात्यते, शेषं तिष्ठति द्वे पदे चत्वार्यगुलानि चत्वारो यवाः एकस्य च यवसय द्वादश एकत्रिंशद्भागाः, एतावती युगेआदित आरभ्य सप्तनवतितमेपर्वणिपञ्चभ्यां तिथौ पौरुषीति, एवं सर्वत्रं भावनीयं।
सम्प्रति पौरुषीपरिमाणतोऽयनगतपिरमाणज्ञापनार्थमियं करणगाथा-'वुड्डी वे'त्यादि, पौरुष्यांयावतीवृद्धिहानिर्वादृष्टा ततः सकाशाद्दिवसगतेन प्रवर्त्तमानेन च त्रैराशिककरणानुसारेण यल्लब्धं तत् अयनगतं-अयनस्य तावत्प्रमाणं गतं वेदितव्यं, एष करणगाथाक्षरार्थः, भावना त्वियम् तत्रदक्षिणायनेपदद्वयस्योपरिचत्वारि अङ्गुलानिवृद्धौदृष्टानि, ततः कोऽपिपृच्छति-किं गतं दक्षिणायनस्य?,अत्रत्रैराशिककर्मावतारो-यदिचतुर्भिरङ्गुलस्य एकत्रिंशद्भागैरेका तिथिलभ्यते ततश्चतुर्भिरंगुलैः कति तिथीर्लभामहे ?, अत्रान्त्यो राशिरंगुलरूप एकत्रिंशद्भागकरणार्थमेकत्रिंशता गुण्यतेजातंचतुर्विंशत्यधिकंशतंतेनमध्योराशिगुण्यतेजातंतदेव चतुर्विंशत्यधिकं शतं तस्य चतुष्करूपेणादिराशिना भागो हियते लब्धा एकत्रिंशत्तिथयः, आगतं दक्षिणायने एकत्रिंशत्तमायां तिथौ चतुरंगुला पौरुष्यां वृद्धिरिति ।
तथाउत्तरायणेपदचतुष्टयाङ्गुलाष्टकहीनं पौरुष्यामुपलभ्य कोऽपिपृच्छति-किंगतमुत्तरायणस्य?,अत्रापि त्रैराशिकं-यदि चतुर्भिरंगुलस्य एकत्रिंशद्भागैरेका तिथिर्लभ्यतेततोऽष्टभिरंगुलैहीनः कति तिथयो लभ्यन्ते?, अत्रान्त्यो राशिरेकत्रिंशद्भाग- करणार्थमेकत्रिंशता गुण्यतेजाते द्वेशते अष्टचत्वारिंशदधिके ताभ्यां मध्यो राशिरेककरूपो गुण्यतेजाते एव द्वेशते अष्टचत्वारिंशदधिके तयोराधेन राशिनाचतुष्करूपेण भागहरणंलब्धा द्वाषष्टिः, आगतमुत्तरायणे द्वाषष्टितमायां तिथौ अष्टावंगुलानि पौरुष्या हीनानीति । अथोपसंहारवाक्यमाह- एतेषामनन्तरोक्तानां पूर्ववर्णितानां पदानामियं-वक्ष्यमाणा संग्रहणीगाथा।
तद्यथा-'जोगोदेवयतारग्ग' इत्यादि, प्राग्व्याख्यातस्वरूपा, अस्या निगमनाथपुनरुपन्यासस्तेन न पुनरुक्तिविनीयेति, चत्तु पूर्वमुद्देशसमये सन्निपातद्वारं सूत्रे साक्षादुपात्तं सम्प्रति च छायाद्वारंतद्विचित्रत्वात्सूत्रकाराणांप्रवृत्तेः, पूर्णिमामावास्याद्वारेसन्निपातद्वारमन्त वितंछायाद्वारं च नेतृद्वारानुयोग्यपि भिन्नस्वरूपतया पृथक्त्वेन विवक्षितमिति ध्येयम् ।
अथास्मिन्नेवाधिकारे षोडशभिद्वारैरर्थान्तरप्रतिपादनाय गाथाद्वयमाहमू. (३३४) हिडिं ससिपरिवारो मंदरऽबाधा तहेव लोगते ।
धरणितलाओ अबाधा बाहिं च उद्धमुहे ॥ वृ. अधः चन्द्रसूर्ययोस्तारामण्डलं उपलक्षणात् समपंक्तौ उपरि च अणुं समं वेत्यादि वक्तव्यं १,शशिपरिवारो वक्तव्यः २ ज्योतिश्चक्रस्य मन्दरतोऽबाधा वक्तव्या ३ तथैव लोकान्तज्योतिश्चक्रयोरबाधा४ धरणितलात्ज्योतिश्चक्रस्याबाधा ५ किञ्च-नक्षत्रमन्तः-चारक्षेत्रस्याभ्यन्तरे किं बहि किं चोर्ध्वं किञ्चाधश्चरतीति वक्तव्यं ६। मू. (३३५) संठाणं च पमाणं वहति सीहगई इद्धिमंता य।
तारंतरऽग्गमहिसी तुडिअ पहु ठिई अअप्पबहू । वृ.ज्योतिष्कविमानानां संस्थानंवक्तव्यं७ एषामेवप्रमाणवक्तव्यं ८चन्द्रादीनांविमानानि
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org