________________
वक्षस्कार:- १
४९
इत्यर्थः सुघृष्टा - अतिशयेन मसृणा इति भावः, विशिष्टसंस्थानसंस्थिताश्च प्रज्ञप्ताः, हे श्रमण ! हे आयुष्मन् ! आईणगेत्यादि सुगममिति ।
अथ प्रस्तुतसूत्रमनुश्रियते, 'तत्यण' मिति अत्र व्याख्या - तत्रैतेषु उत्पातपर्वतादिगतहंसासनादिषु यावन्नानारूपसंसथानसंस्थितपृथिवीशिलापट्टकेषु णमिति पूर्ववत्, बहवो वनानामन्तरेषु भवाः पृषोदरादित्वान्मागमे वानमन्तरा देवा देव्यश्च यथासुखमासते आश्रयन्ति वाऽऽश्रयणीयं स्तम्भादि शेरते दीर्घकाय प्रसारणेन वर्त्तन्ते, नतु निद्रां कुर्वन्ति तेषां देवयोनिकतया निद्राया अभावात्, अत्रोपलक्षणात् 'चिट्टंती'त्यादिकः पाठो जीवाभिगमोक्तो लिखितोऽस्ति तिष्ठन्तिऊर्ध्वस्थानेन वर्त्तन्त निषीदन्ति - उपविशन्ति 'तुअट्टंति' त्ति त्वग्वर्त्तनं कुर्वन्ति वामपर्श्वतः परावृत्य दक्षिणपार्श्वेनावतिष्ठन्ते दक्षिणपार्श्वतो वा परावृत्य वामपार्श्वेनावतिष्ठन्त इति, रमन्तेरतिमाबघ्नन्ति, तथा ललन्ति-मनईप्सितं यथा भवति तथा वर्त्तन्ते इति भावः, तथा क्रीडन्तियथासुखमितस्ततो गमनविनोदेन गीनृत्यादिविनोदेन वाऽवतिष्ठन्ते, तथा मोहन्ति - मैथुनसेवां कुर्वन्ति, इत्येवं । 'पुरा पोराणाण' मित्यादि पुरा- पूर्वं प्राग्भवे इति भावः कृतानां कर्मणामिति योगः अत एव पौराणानां सुचीर्णानां - सुचरितानां, इह सुचरितजनितं कर्मापि कार्ये कारणोपचारात् सुचरितमिति विवक्षितं, ततोऽयं भावार्थ - विशिष्टतथाविधधर्मानुष्ठानविषयाप्रमादकरणक्षान्त्यादिसुचरितानामिति, तथा सुपराक्रान्तानां अत्रापि कार्ये कारणोपचारात् सुपराक्रान्तजनितानि कर्माणिसुपराक्रान्तानि इत्युक्तं भवति, सकलसत्वमैत्रीसत्यभाषणपरद्रव्यानपहारसुशीलादिरूपं सुपराक्रमजनितानामिति, अत एव शुभानां - शुभफलानां इह किश्चिदशुभफलमपि इन्द्रियमतिविपर्यासात् शुभफलमाभाति ततस्तात्विकशुभफलप्रतिपत्यर्थमस्यैव पर्यायमाह- कल्याणानांतत्ववृत्त्या तथाविधविशिष्टफलदायिनां अथवा कल्याणानां - अनर्थोपशमकारिणां कल्याणंकल्याणरूपं फलविपाकं ‘पञ्चणुभवमाणा' प्रत्येकमनुभवन्तो विहरन्ति - आसते ।
तदेवं पद्मवर वेदिकाया बहिस्थितवनखण्डवक्तव्यतोक्ता, सम्प्रति तस्या एवार्वाकस्थितवनखण्डवक्तव्यतामभिधित्सुराह - 'तीसे णं जगईए' इत्यादि, तस्या जगत्या उपरि पद्मवरवेदिकाया अन्तर्मध्ये यः प्रदेशः एतस्मिन् महानेको वनखण्डः प्रज्ञप्तः, देशोने द्वे योजने विष्कम्भेन वेदिका-पद्मवरवेदिका तस्याः समकः तुल्यः परिक्षेपेण, अयं भावः - पद्मवरवेदिकाया यावान् (तावान्) अस्यापि, पद्मवरवेदिकाबहिप्रदेशात अन्तः पंचधनुः शतागमने यत् परिक्षेपन्यूनत्वं तन्न विवक्षितमल्पत्वादिति, 'किण्हे' त्ति कृष्णो यावदितिपदेन च बहिर्वनखण्डवदविशेषेण वनखण्डवर्णको ग्राह्यः, नवरं तृणविहीनो ज्ञातव्यः, अत्र तृणजन्यः शब्दोऽपि तृणशब्देनाभिधीयते उपचारादतस्तृणशब्दविहीनो ज्ञातव्यः, उपलक्षणत्वादस्य मणिशब्दविहीनोऽपि पद्मवरवेदिकान्तरिततया तथाविधः वाताभावतो मणीनां तृणानां चाचलनेन परस्परं संघर्षाभावात् शब्दाभावः, उपपन्नश्चायमर्थ, जीवाभिगमसूत्रवृत्योस्तथैव दर्शनादिति ।
सम्प्रति जम्बूद्वीपस्य द्वार संख्याप्ररूपणार्थमाह
मू. (७) जंबुद्दीवरस णं भंते! दीवस्स कइ दारा पन्नत्ता, गो० ! चत्तारि दारा पं०, तं० - विजए १ वेजयंते २ जयंते ३ अपराजिए ४, एवं चत्तारिवि दारा सरायहाणिआ भाणि० ।
13 4
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org