SearchBrowseAboutContactDonate
Page Preview
Page 51
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १ / ६ अच्छणघरगा पेच्छणघरगा मज्झणघरगा पसाहणघरगा गब्भघरगा मोहनघरगा मालघरगा जालघरगा कुसुमघरगा चित्तघरगा गंधव्वघरगा आयंसघरगा सव्वरयणामया अच्छा जाव पडिरूवा" इति, अत्र व्याख्या- तस्य वनखण्डस्य मध्ये तत्र तत्र प्रदेशे तस्यैव प्रदेशस्य तत्र तत्र एकदेशे बहूनि आलिगृहकाणि, आलि - वनस्पतिविशेषस्तन्मयानि गृहकाणि, मालिरपि वनस्पतिविशेषः तन्मयानि गृहकाणि मालिगृहकाणि, कदलीगृहकाणि लतागृहकाणि च प्रतीतानि, अवस्थानगृहका येषु यदा तदा वाऽगत्य बहवः सुखासिकया अवतीष्ठन्ते, प्रेक्षणकगृहकाणि प्रेक्षणकानि विदधति नरीक्ष्यन्ते च, मज्जन० यत्रागत्य स्वेच्छया मज्जनं कुर्वन्ति, प्रसाधनगृ० यत्रागत्य स्वं परं चमण्डयन्ति, गर्भगृहाकाराणि मोहन० मोहनं मैथुनसेवा तठप्रधानानि गृहकाणि वासभवनानीति भावः, शाला०-पट्टशालाप्रधानानि गृहकाणि जाल ० – जालयुक्तानि गृहकाणि कुसुम ० - कुसुमप्रकरोपचितानि गृहकाणि चित्र० - चित्रप्रधानानि गृहकाणि गन्धव० - गीतनृत्या-भ्यासयोग्यानि गृहकाण, आदर्श० - आदर्शमयानीव गृहकाणि, अत्र सूत्रे सर्वत्र ककारः स्वार्थिको ऽवसेयः, एतानि कथंभूतानीत्याह- 'सव्वरयणामयाई' इत्यादि प्राग्वत्, "तेसुणं आलिधरेसुंजाव आयंसधरेसु बहूई हंसासणाई जाव दिसासोवत्थियासणाई सव्वरयणामयाई जाव पडिरूवाई" इति गतार्थम्, अथ मण्डपकसूत्र यथा- "तस्स णं वनसंडस्स तत्थ तत्थ देसे तहिं तहिं बहवे जाइमंडवगा जूहियामंडवगा मल्लियामं० नोमालियामं० वासंतीमं० दधिवासुयामं० सूरिल्लिमं० तंबोलीम० णागलयाम० अतिमुत्तयम० अप्फोआमं० मालुआम० सव्वरयणामया जाव निच्चं कुसुमिया जाव पडिरूवा" अत्र व्याख्या- 'तस्ये' त्यादि पदयोजना सुगमा, जाति- मालती तन्मया मण्डपकाः जातिमण्डपकाः, एवं उत्तरत्रापि पदयोजना कार्या, यूथिका प्रतीता मल्लिका- विचकिलः, वनमालिका वासन्ती स्पष्टे, एते च पुष्पप्रधाना वनस्पतयः, दधिवासुका नाम वनस्पति- विशेषः, सूरिल्लिपरि स एव, ताम्बूली - नागवल्ली नागो - द्रुमविशेषः स एव लता नागलता, इह यस्य तिर्यक् तथाविधा शाखा प्रशाखा वा प्रसृता सा लतेत्यभिधीयते, अतिमुक्तकः - पुष्पप्रधान - वनस्पति 'अप्फोआ' वनस्पतिविशेषः, मालुका - एकास्थिकफला वृक्षविशेषास्तद्युक्ता मण्डपका मालुकामंडपका, एते च कथंभूता इत्याह- 'सव्वरयणामया' इत्यादि प्राग्वत् । 'तेसु णं जाइमंडवगेसु जाव मालुआमंडवगेसु बहेव पुढविसिलावट्टगा पन्नत्ता, अप्पेगइया हंसासणसंठिया अ० कोंचासणसंठिआ अ० गरुडासणसंठिआ अ० उण्णयासणसंठिया अ० पणयासणसंठिआअ० दीहासणसंठिया अ० भद्दासणसंठिया अ० पक्खासणसंठिया अ० मगरासणसंठिया अ० पउमासणसंठिआ अ० सीहासणसंठिया अ० दिसाओवेत्थियासमसंठिया अप्पेगे बहवे वरसयणासणविसिट्ठसंठाणसंठिया प० समणाउसो ! आईणगरूअबूरनवनीयतूलफासमउआ सव्वरयणामया अच्छा जाव पडिरूवा' अत्र व्याख्या - तेषु जातिमण्डपकेषु यावत् मालुकामण्डपकेषु बहवः शिलापट्टकाः प्रज्ञप्ताः, तद्यथा - अपिबढार्थे एकके शिलापट्टकाः हंसासनवत् संस्थितं भावे क्तप्रत्ययविधानात् संस्थानं येषां ते तथा, एवं क्रोञ्चासनसंस्थितादिष्वपि वाच्यं, अन्ये च बहवः शिलापट्टकाः यानि विशिष्टचिन्हानि विशिष्टनामानि च वराणि - प्रधानानि शयनानि आसनानि च तद्वत् संस्थिता वरशयनासनविशिष्टसंस्थानसंस्थिताः क्वचित् 'मांसलसुधट्टविसिट्ठसंठाणसंठिया' इति पाठः, तत्रान्ये च बहवः शिलापट्टकाः मांसला - अकठिना Jain Education International For Private & Personal Use Only www.jainelibrary.org ४८
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy