________________
वक्षस्कारः - १
पताकाः पताकातिपताकाः बहूनि घण्टायुगलानि बहूनि चामरयुगलानि बहव उत्पलहस्तकाःउत्पलाख्यजलजकुसुमसमूहविशेषाः, एवं पद्महस्तकाः बहवे नलिनहस्तकाः बहवः सुभगहस्तकाः बहवः सौगन्धिकहस्तकाः बहवः पुण्डरीकहस्तकाः बहवः शतपत्रहस्तकाः बहवः सहस्रपत्रहस्तकाः, उत्पलादीनां व्याख्यानं प्राग्वत्, एते च छत्रातिच्छत्रादयः सर्वेऽपि सर्वरत्नमयाः, 'जाव पडिरूवा' इति यावत्करणात् 'अच्छा सण्हा लण्हा' इत्यादिविशेषणकदम्बकपरिग्रहः ।
अथ पर्वतकसूत्रं यथा-“तासि णं खुड्डियाणं वावीणं जाव बिलपंतियाणं तत्थ तत्थ देसे तहिं तहिं बहवे उप्पायपव्वया नियइपव्वया जगईपव्वया दारुपव्वयगा दगमंडवगा दगमंचगा दगमालगा दगपासाया उसडा खुड्डा अंदोलगा पक्खंदोलगा सव्वरयणामया अच्छा जाव पडिरूवगा" अत्र व्याख्या - तासां क्षुल्लिकानां वापीनां यावद्धिलपङ्कीना अत्र यावत्करणात् पुष्करिण्यादिग्रहः, अपान्तरालेषु तत्र तत्र देशे 'तहिं तहिं' इति तस्यैव देशस्य तत्र तत्रैकदेशे बहव उत्पातपर्वताःयत्रागत्य बहवो व्यन्तरदेवा देव्यश्च विचित्रक्रीडानिमित्तं वैक्रियशरीरमारचयन्ति नियत्या - नैयत्येन पर्वताः क्वचिन्निययपव्वया इति पाठः, तत्र नियताः - सदा भोग्यत्वेनावस्थिताः पर्वताः यत्र व्यन्तरा देवदेव्यो भवधारणीयेन वैक्रियशरीरेण प्रायः सदा रमन्ते इति भावः, ,जगतीपर्वताःपर्वतविशेषाः, दारुपर्वतका - दारुनिर्मापिता इव पर्वतकाः दकमण्डपकाः-स्फटिकमण्डपकाः एवं दकमञ्चकाः दकमालकाः दकप्रासादाः । एते च दकमण्डपकादयः केचित् उत्सृता-उच्चा इत्यर्थः केचित् क्षुल्ला - लघवः क्वचित् खुड्डखुड्डगा इति पाठः क्षुल्लक्षुल्लका - अतिलघवः आयताश्च, तथा अन्दोलकाः पक्ष्यन्दोलकाश्च तत्र यत्रागत्य २ मनुष्या आत्मानमन्दालेयंति इति, आन्दोलका इति लोके प्रसिद्धाः, यत्र तु पक्षिण आगत्यागत्यात्मानमन्दोलयंति ते पक्ष्यन्दोलकाः, ते चान्दोलकः पक्ष्यन्दोलकाश्च तस्मिन् वनखण्डे तत्र तत्र प्रदेशे वानमन्तरदेवदेवीक्रीडायोग्या बहवः सन्ति, ते चोत्पापर्वतादयः कथम्भूता इत्याह- सर्वरत्नमया अच्छा इत्यादिविशेषणजातं प्राग्वत् “तेसु णं उप्पायपव्वसुं जाव पक्खंदोलएसु बहूई हंसासणाई कोंचासणाई गरुलासणाई उण्णयासणाई पणयासणाई दीहासणाई भद्दासणाई मगरासणाई पउमासणाई सीहासणाई दिसासोवत्थियासणाई सव्वरयणामयाइं अच्छाई जाव पडिरूव "त्ति ।
४७
अत्र व्याख्या - तेषु उत्पातपर्वतेषु यावत्पक्ष्यन्दोलकेषु अत्र यावत्करणात् नियतपर्वतादिपरिग्रहः बहूनि हंसासनानि, तत्र येषामासनानामधोभागे हंसा व्यवस्थिता यथा सिंहासने सिंहास्तानि हंसासनानि, एवं क्रोञ्चासनानि गरुडासनानि भाव्यानि, उन्नतासनानि यान्युच्चासनानि प्रणतासनानि - निम्नासनानि दीर्घासनानि - शय्यारूपाणि भद्रासनानि - येषामधोभागे पीठिकाबन्धः पक्ष्यासनानि - येषामधोभागे नानारूपाः पक्षिणः, एवं मकरासनानि सिंहासनानि च भावनीयानि, पद्मासनानि - पद्माकाराणि आसनानि दिकसौवस्तिकासनानि येषामधोभागे दिकसौवस्तिकादिक्प्रधानाः स्वस्तिकाः आलिखिताः सन्ति, अत्र यथाक्रममासनानां संग्राहिका संग्रहणीगाथा"हंसे कोञ्चे गरुले उण्णय पणए य दीह भद्दे य ।
119 11
पक्खे मरे पउमे सीह दिसासोए बारसमे ॥"
एतानि सर्वाण्यपि कथम्भूतानित्याह- 'सव्वरयणामयाई' इत्यादि प्राग्वत् । अथ गृहकसूत्रं यथा - "तस्स णं वनसंडस्स तत्थ तत्थ देसे तहिं तहिं बहवे आलिघरगा मालिघरगा कयलीघरगा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org