SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६ विव अन्चीसहस्समालणीया रूवगसहस्सकलिया भिसमाणा भिब्मिसमाणा चक्खुल्लोअणलेसा सुहफासा सस्सिरीयरूवा पासाईया ४" इति, अत्र व्याख्या-'तेसि ण मित्यादि, तेषां त्रिसोपानप्रतिरूपकाणां पुरतः प्रत्येकं २ तोरणानि प्रज्ञप्तानि, तेषां तोरणानामयमेतद्रूपो वर्णावासो-वर्णकनिवेशः प्रज्ञप्तः, तद्यथा--'तेणंतोरणा' इत्यादि, तानितोरणानिनानामणिमयानि मणयः-चन्द्रकान्तादयः विविध-मणिमयानिनानामणिमयेषु स्तम्भेषु उपनिविष्टानि-सामीप्येन स्थितानि, तानिच कदाचिच्चलानिअथवाऽपदपतितानिशङ्कयेरन्, तत आह-सम्यग्-निश्चलतयाऽपदपरिहारेण च निविष्टानि, ततो विशेषणसमासः, विविधा-नानाविधविच्छित्तिकलिता मुक्ता-मुक्ताफलानिअन्तराशब्दोऽ-गृहीतवीप्सोऽपिवीप्सांगमयति, अन्तराअन्तरा ओविया' इतिआरोपिता यत्र तानि तथा, विविधैस्तारारूपैः-तारिकारूपैरुपचितानि, तोरणेषुहि शोभार्थ तारकानि वध्यन्ते इति प्रतीतं लोकेऽपि, ईहामृगा-वृकाः ऋषभा-वृषभाः व्याला-भुजंगाः रुरवो-मृगविशेषाः शरभा-अष्टापदाः चमरा-आटव्यो गावः, वनलता-असोकलताद्याः पद्मलताः-पद्मिन्यः, शेषाः प्रतीताः, एतासांभक्त्या-विच्छित्या चित्रं-आलेखो येषुतानितथा, स्तम्भोद्गतया स्तम्भोपरिवर्त्तिन्या वज्ररत्नमय्या वेदिकयापरिगतानि-परिकरितानि सन्तियानि अतिरमणीयानि तानि तथा, विद्याधरयोः-विशिष्टशक्तिमत्पुरुषविशेषयोर्यमलं-समश्रेणीकं युगलं-द्वन्द्वं तेनैव यन्त्रेणसंचरिष्णुपुरषप्रति-माद्वयरूपेण युक्तानि, आर्थत्वाच्चैवंविधः समासः, तथा अर्चिषां-मणिरलप्रमाणां सहनाल- नीयानि-परिवारणीयानि रूपकसहस्रकलितानि स्पष्टं 'भिसमाणा' इति दीप्यमानानि भिब्मिसमाणा' इति अत्यर्थं दीप्यमानानि । तथा चक्षुः कर्तृलोचनेअवलोकनेलिसतीव-दर्शनीयतातिशयतःश्लिष्यतीवयत्रतानि तथा, 'सुहफासा' इति शुभस्पर्शानिसश्रीकानि-सशोभाकानिरूपकाणियत्र तानिसश्रीकरूपाणि, 'पासाईया' इत्यादि विशेषणचतुष्टयं प्राग्वत्, "तेसिणं तोरणाणं उप्पिं अट्ठमंगलगा पन्नत्ता, सोत्थिय १सिरिवच्छ २ नंदियावत्त ३ वद्धमाणग ४ भद्दासण ५ कलस ६ मच्छ ७ दप्पणा ८ सव्वरयणामयाअच्छाजावपडिरूवा" अत्र व्याख्या-तेषांतोरणानामुपरि इत्यादि सुगम, नवरं 'जाव पडिरूवा' इति यावत्करणात् घट्ठा मट्ठा नीरया इत्यादिग्रहः, 'तेसि णं तोरणाणं उवरिं किण्हचामरज्झया नीलचामरज्झया लोहियचामरल्झया हालिद्दचामरज्झया सुकिल्लचामरज्झया अच्छा सहारुप्पपट्टा वइरदंडा जलयामलगंधियासुरम्मापासाईया४" इति, तेषांतोरणानामुपरि बहवः कृष्णचामरयुक्ताःध्वजाः कृष्णचामरध्वजाः एवं बहवोनीललोहितहारिद्रशुक्लचामरयुक्ताः ध्वजा वाच्याः, कथम्भूता एते सर्वेऽपीत्याह-'अच्छा सण्हा' इति स्पष्ट रूप्यमयो वज्रमयस्य दण्डस्योपरि पट्टो येषां ते तथा, वज्रो-वज्रमयो दण्डो रूप्यपट्टमध्यवर्ती येषां ते तथा, जलजानामिव-पदमानामिवामलोनतुकुद्रव्यगन्धसम्मिश्रोयोगन्धः सविद्यतेयेषांतेजलजामलगन्धिकाः, 'अतोऽनेकस्वस'दितीकप्रत्ययः अत एळ सुरम्याः 'पासादीया' इत्यादि प्राग्वत्। "तेसि णं तोरणाणं उप्पिं बहवे छत्ताइछत्ता पडागाइपडागा घंटाजुअला चामरजुअला उप्पलहत्थगा पउमहत्थगा जाव सहस्सपत्तहत्थगा सव्वरयणामया अच्छाजावपडिरूवा" तेषां तोरणानामुपरिबहूनि छत्रातिच्छत्राणि-छत्राल्लोकप्रसिद्धादेकसंख्याकाअतिशायीनिद्विसंख्यानि त्रिसंख्यानि वा छत्राणि छत्रातिच्छत्राणि बह्वयः पताकाभ्योऽतिशायिन्यो दीर्घत्वेन विस्तरेण च Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy