________________
४९५
वक्षस्कारः -७
पुनर्वसु मघा चित्रा विशाखा अनुराधा, एतेषां च त्रिधापि योग इत्यर्थः, यत्तु स्थानाङ्गेऽष्टमाध्ययने समवायाङ्गेऽष्टमसमवाये च- 'अट्ठ नक्खत्ता चंदेण सद्धिं पमद्दं जोगं जोएंति कत्तिआ रोहिणी पुनवसु महा चित्ता विसाहा अनुराहा जेट्ठा' इति, तत्राष्टसङ्ख्यानुरोधेनैकस्यैव प्रमर्दयोगस्य विवक्षितत्वेन ज्येष्ठापि सङ्ग्रहीता ।
यत्तु लोकश्रीटीकाकृता उभययोगीतिपदं व्याख्यानयता एतानि नक्षत्राण्युभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च युज्यन्ते कदाचिद्भेदमपि उपयान्तीति, तच्च वक्ष्यमाणज्येष्ठासूत्रेण सह विरोधीति न प्रमाणं, तथा तत्र ये ते नक्षत्रे सदा चन्द्रस्य दक्षिणतोऽपि प्रमर्दमपि च योगं योजयतस्ते द्वे आषाढे - पूर्वाषाढोत्तराषाढारूपे, ते हि प्रत्येकं चतुस्तारे, तत्र द्वे द्वे तारे सर्वबाह्यस्य पञ्चदशस्य मण्डलस्याभ्यन्तरतो द्वे द्वे बहिः, तयो ये द्वे द्वे तारे अभ्यन्तरतस्तयोर्मध्येन चन्द्रो गच्छति इति तदपेक्षया प्रमर्दं योगं युक्त इत्युच्यते, ये तु द्वे द्वे तारे बहिस्ते चन्द्रस्य पञ्चदशेऽपि मण्डले चारं चरतः सदा दक्षिणदिग्व्यवस्थिते ततस्तदपेक्षया दक्षिणेन योगं युक्त इत्युक्तं, अनेन चाषाढाद्वयमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्तमिति वदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य सम्भधादिति, सम्प्रत्येतयोरेव प्रमर्दयोगभावनार्थं किञ्चिदाह - ते च नक्षत्रे सदा सर्वबाह्ये मण्डले व्यवस्थिते चन्द्रेण सह सह योगमयुक्तां युक्तो योक्ष्यते इति, तथा यतन्नक्षत्रं यत् सदा चन्द्रस्य प्रमर्दं - प्रमर्दरूपं योगं युनक्ति एका सा ज्येष्ठा । अथ देवता द्वारमाह
मू. (३०६) एतेसि णं भंते! अट्ठावीसाए नक्खत्ताणं अभिई नक्खत्ते किंदेवयाए पन्नत्ते गो० ! बम्हदेवया पन्नत्ते, सवणे नक्खत्ते विण्हुदेवयाए पन्नत्ते, घणिट्ठा वसुदेवया प० ।
एए णं कमेणं नेअव्वा अणुपरिवाडी इमाओ देवयाओ - बम्हा विण्हु वसू वरुणे अय अभिवद्धी पूसे आसे जमे अग्गी पयावई सोमे रुद्दे अदिती वहस्सई सप्पे पिउ भगे अज्जम सविआ तट्ठा वा इंदग्गी मित्तो इंदे निरई आउ विस्सा य, एवं नक्खत्ताणं एआ परिवाडी नेअव्वा जाव उत्तरासाढा किंदेवया पन्नत्ता ?, गोअमा ! विस्सदेवया पन्नत्ता ।
वृ. 'एतेसि ण' मित्यादि, एतेषामष्टाविंशतेर्नक्षत्राणां मध्ये भदन्त ! अभिजिनक्षत्रं को देवताऽस्येति किंदेवताकं प्रज्ञप्तम् ?, अत्र बहुव्रीहौ कः प्रत्ययः, देवता चात्र स्वामी अधिप इतियावत् यत् तुष्टया नक्षत्रं तुष्टं भवति अतुष्टया चातुष्टं, एवमग्रेऽपि ज्ञेयं, ननु नक्षत्राण्येव देवरूपाणि तर्हि किं तेषु देवानामाधिपत्यं ?, उच्यते, पूर्वभवार्जिततपस्तारतम्येन तत्फलस्यापि तारतम्यदर्शनात्,मनुष्येष्विव देवष्वपि सेव्यसेवकभावस्य स्पष्टमुपलभ्यमानत्वात्, यदाह - "सक्कस्स देविंदस्स देवरन्नो सोमस्स महारन्नो इमे देवा आणाउववायववणनिद्देसे चिट्ठति, तंजहा
सोमकाइआ सोमदेवकाइआ विज्जुकुमारा विज्जुकुमारीओ अग्गिकुमारा अग्गिकुमारीओ वाउकुमारा वाउकुमारीओ चंदा सूरा गहा नक्खत्ता तारारूवा जे आवण्णे तहप्पगारा सव्वे ते अब्मत्तिआ तब्मारिआ सक्करस देविंदस्स देवरन्नो सोमस्स महारन्नो आणावयणणिद्देसे चिट्टंती" ति, भगवानाह - गौतम ! ब्रह्मदेवताकं प्रज्ञप्तम्, अत्राशयज्ञो गुरु सूत्रेऽदृश्यमनत्वात् गूढान्यपि शिष्यप्रश्नानि निर्वाचनसूत्रेणैव समाधत्ते, श्रवण नक्षत्रं विष्णुदेवताकं प्रज्ञप्तं, धनिष्ठा वसुदेवता प्रज्ञप्ता, एतेनोक्तवक्ष्यमाणेन क्रमेण नेतव्या - पाठं प्रापणीया भणितव्या इत्यर्थः अनुपरिपाटि - अभिजिदादिनश्तरपरिपाट्यनुसारेण देवतानाम्नामावलिका ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org