SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ ४९६ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/३०६ इमाश्चदेवतास्ताः-ब्रह्मा १ विष्णुः२ वसुः ३ वरुणः ४ अजः ५अभिवृद्धि ६अन्यत्राहिर्बुन इति, पूषा-पूषनामको देवो न तु सूर्यपर्यायस्तेन रेवत्येव पौष्णमिति प्रसिद्धं, अश्वनामको देवविशेषः ८ यमः ९ अग्नि १० प्रजापतिरिति ब्रह्मनामको देवः, अयं च ब्रह्मणः पर्यायान् सहते, तेन ब्राह्मयमित्यादि प्रसिद्धम् ११ सोमः-चन्द्रस्तेन सौम्यं चान्द्रममित्यादि प्रसिद्धम् १२ रुद्रः-शिवस्तेन रौद्री कालिनीति प्रसिद्धं १३ अदिति देवविशेषः १४ बृहस्पति प्रसिद्धः १५ सर्पः १६पितृनामा १७भगनामादेवविशेषः १८अर्यमा-अर्यमनामकोदेवविशेषः१९सवितासूर्य २० त्वष्टात्वष्टनामको देवस्तेन त्वाष्ट्री चित्रा इति प्रसिद्ध २१ वायुः २२ इन्द्राग्नी २३ तेन विशाखा द्विदैवतमिति प्रसिद्धं, मित्रो-मित्रनामको देवः २४ इन्द्रः २५ नैऋतः-राक्षसस्तेन मूलः आम्रप इति प्रसिद्धं २६ आपो-जलनामा देवस्तेन पूर्वाषाढा तोयमिति प्रसिद्ध २७विश्वे देवास्त्रयोदश२८।सूत्रालापकान्तस्थितश्चकारः समुच्चये, एवमभिजितसूत्रदर्शितप्रश्नोत्तरीत्या नक्षत्राणांदेवा इत्यधिकारतोगम्यम्। एतया-ब्रह्मविष्णुवरुणादिरूपयापरिपाट्यानतुपरतीर्थिकप्रयुक्तअश्वयमदहनकमलजादिरूपया नेतव्या-परिसमाप्तिं प्रापणीयायावदुत्तराषाढा किंदेवता प्रज्ञप्ता?, गौतम ! विश्वदेवता प्रज्ञप्तेति। ... मू. (३०७) एतेसिणं भंते ! अट्ठावीसाए नक्खत्ताणं अभिईणक्खत्ते कतितारे प०?, गोअमा! तितारे पं०, एवं नेअव्वा जस्स जइआओ ताराओ, इमंचतं तारग्गं वृ.अथ तारासङ्ख्याद्वारमाह-'एतेसिण'मित्यादि, एतेषां भदन्त! अष्टाविंशतेर्नक्षत्राणां मध्येऽभिजिनक्षत्रं कति तारा अस्येति कतितारं प्रज्ञप्तम् ?, भगवानाह-गौतम ! तिम्रस्तारा अस्येति त्रितारं प्रज्ञप्तम्, ताराश्चात्र ज्योतिष्कविमानानि, अधिकारान्नक्षत्रजातीयज्योतिष्कानां विमानानीत्यर्थः, नतुपञ्चमजातीयज्योतिष्कास्तारकाः, नहि तासां द्वित्रादिविमानैरेकंनक्षत्रमिति व्यवहारः सम्यक्, अन्यजातीयेन समुदायेनान्यजातीयः समुदायीति विरोधात्। विरोधश्चात्र नक्षत्राणां विमानानिमहान्ति तारकाणांचविमानानिलघूनि, तथाजंबूद्वीपे एकशशिनस्तारकाणां कोटाकोटीनांषट्षष्टि सहस्राणि नव शतानिपञ्चसप्ततिश्चेतिया सङख्या साऽप्यतिशयीत नक्षत्रसङ्ख्या चाष्टाविंशतिरूपामूलत एवसमुच्छिद्येत, ननुतर्हिएतेषांविमानानां केऽधिपाः?, उच्यते, अभिजिदादिनक्षत्र एव, यथा कश्चित् महर्द्धिको गृहद्वयादिपतिर्भवति, एवमभिजिन्नक्षत्रन्यायेन नेतव्या यस्य नक्षत्रस्य यावत्यस्तारा, इदं च तत्ताराग्रंमू. (३०८) तिगतिगपंचगसयदुग दुगबत्तीसगतिगंतह तिगंच। छप्पंचगतिगएकगपंचगतिग छक्कगं वेव॥ मू. (३०९) सत्तगदुगदुग पंचग एक्कक्कग पंच चउतिगंचेव। एक्कारसग चउक्कं चउक्कगं चेव तारग्गं ॥ इति । वृ. तारासङ्ख्यापरिमाणं, यथा त्रिकमभिजितः १ त्रिकं श्रवणस्य २ पञ्चकं धनिष्ठायाः ३शतं शतभिषजः ४ द्विकं पूर्वभद्रपदायाः ५द्विकमत्तरभद्रपदायाः ६द्वात्रिंशद्रेवत्यः ७त्रिकमश्विन्याः ८ तथा त्रिकं भरण्याः ९, चः समुच्चये, षट कृत्तिकायाः १० पञ्चकं रोहिण्याः ११ त्रिकं मृगशिरसः १२ एककं आर्द्रायाः १३ पञ्चकं पुनर्वस्वोः, यदन्यत्र चतुष्कमाहुस्तन्मतान्तरं १४ त्रिकंपुष्यस्य १५ षट्कमश्लेषायाः १६चैवेति समुच्चये सप्तकंमघायाः १७द्विकं पूर्वफाल्गुन्याः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy