SearchBrowseAboutContactDonate
Page Preview
Page 497
Loading...
Download File
Download File
Page Text
________________ ४९४ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ७/३०३ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामप्युत्तरस्यामपि प्रमर्द्दमपिनक्षत्रविमानानि विभिद्य मध्ये गमनरूपं योगं योजयन्ति, केषा नक्षत्रविमानानां मध्येन चन्द्रो गच्छतीत्यर्थः ३ तथा कतराणि नक्षत्राणि यानि चन्द्रस्य दक्षिणस्यामपि प्रमर्द्दमपि योगं योजयन्ति ४ तथा कतरन्नक्षत्रं यत् सदा चन्द्रस्य प्रमंर्द्द योगं योजयति ? ५, भगवानाह - गौतम ! एतेषामष्टाविंशतेर्नक्षत्राणां दिग्विचारं ब्रूम इति शेषः, तत्र यानि तानीति भाषामात्रे नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणस्यां योगं योजयन्ति तानि षट्, तद्यथा मू. (३०४) संठाण १ अद्द २ पुस्सो ३ ऽसिलेस ४ हत्यो ५ तहेव मूलो अ ६ । बाहिरओ बाहिरमंडलस्स छप्पेत नक्खत्ता ।। वृ. संस्थानं - मृगशिरः १ आर्द्रा २ पुष्यः ३ अश्लेषा ४ हस्तः ५ तथैव मूलश्च ६ बहिस्तात् बाह्यमण्डलस्य-चंद्रसत्कपञ्चदशमण्डलस्य भवन्ति । मू. (३०५) तत्थ णं जे ते नक्खत्ता जे णं सया चंदस्स उत्तरेणं जोमं जोएंति ते णं बारस, तं० - अभिई सवणो धनिट्ठा सयभिसया पुव्वभध्वया उत्तरभध्वया रेवइ अस्सिणी भरणी पुव्वाफग्गुणी उत्तराफग्गुणी साई, तत्थ णं जेते नक्खत्ता जेणं सया चंदस्स दाहिणओवि उत्तर ओवि पमद्दपि जोगं जोएंति ते णं सत्त, तंजहा कत्तिआ रोहिणी पुणव्वसू मघा चित्ता विसाहा अणुराहा, तत्थ णं जे ते नक्खत्ता जेणं सया चन्दस्स दाहिणओवि पमहंपि जोगं जोएंति, ताओ मं दुवे आसाढाओ सव्वबाहिरए मंडले जोगं जोअंसु वा ३, तत्थ णं जे से णक्खत्ते जे णं सया चन्दस्स पमद्दं जोएइ सा णं एगा जेट्ठा इति । बृ. कोऽर्थः ? - समग्रचारक्षेत्रप्रान्तवर्तित्वादिमानि दक्षिणदिग्व्यवसथायीनि चंद्रश्य द्वीपतो मण्डलेषु चरन् २ तेषामुत्तरस्थायीति दक्षिणदिग्योगः, ननु 'बहि मूलोऽब्यंतरे अभिई' इति वचनात् मूलस्यैव बहिश्चरत्वं तथाऽभिजित एवाभ्यन्तरचरत्वं तर्हि कथमत्र षडित्युक्तानि, वक्ष्यमाणेऽनन्तरसूत्रे च द्वादशाभ्यन्तरत इति वक्ष्यते ?, उच्यते, मृगशिरआदीनां षण्णां समानेऽपि बहिश्चारित्वे मूलस्यैव सर्वतो बहिश्चरत्वं, तेन बहिमूलो इत्युक्तं, तथा अनन्तरोत्तरसूत्रे वक्ष्यमाणानां द्वादशानामप्यभ्यन्तरमण्डलचारित्वे समानेऽपि अभिजित एव सर्वतोऽभ्यन्तरवर्तित्वात् 'अब्यंतरे अभिई' इति, तत्र यानि तानीति प्राग्वत् नक्षत्राणि यानि सदा चन्द्रस्योत्तरस्यां योगं योजयन्ति तानि द्वादश, तद्यथा - अभिजित श्रवणो धनिष्ठा शतभिषक् पूर्वभद्रपदा उत्तरभद्रपदा रेवती अश्विनी भरणी पूर्वाफाल्गुनी उत्तराफाल्गुनी स्वाति, यदा चैतैः सह चंद्रस्य योगस्तदा स्वभावाच्चन्द्रः शेषेष्वेव मण्डलेषु स्यात्, यथा च भिन्नमण्डलस्थायिना चन्द्रेण सह भिन्नमण्डलस्थायिनक्षत्राणां योगस्तथा मण्डलविभागकरणाधिकारे प्रतिपादितं, यतः सदैवैतान्युत्तरदिगवस्थितान्येव चन्द्रेण सह योगमायान्तीति, यत्तु समवायाङ्गे 'अभिजिआइआ णं नव नक्खत्ता चंदस्स उत्तरेणं जोगं जोति, अभिई सवणो जाव भरणी' इत्युक्तं तन्नवमसमवायानुरोधेनाभिजिन्नक्षत्रमादौ कृत्वा निरन्तर - योगित्वेन नवानामेव विवक्षितत्वात् । उत्तरयोगिनामपि पूर्वफाल्गुन्युत्तरफाल्गुनीस्वातीनां कृत्तिकारोहिणीमृगशिरः प्रमुखनक्षत्रयोगानन्तरमेव योगसम्भवात्, तत्र यानि तानि नक्षत्राणि यानि सदा चन्द्रस्य दक्षिणेनापि उत्तरेणापि प्रमर्द्दमपि योगं योजयन्ति अपि सर्वत्र परस्परसमुच्चयार्थः तानि सप्त, तद्यथा- कृत्तिका रोहिणी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy