________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६ स यथानामकः किन्नराणां वा किंपुरुषाणां वा महोरगाणां वा गन्धर्वाणां वा, वाशब्दाः सर्वेऽपिविकल्पार्थाः, एते किन्नरादयोरत्नप्रभायाः उपरितनयोजनसहस्रवर्त्तिव्यन्तरनिकायाष्टकमध्यगतपञ्चमषष्ठसप्तमाष्टमनिकायरूपा व्यन्तरविशेषाः, तेषां कथम्भूतानामित्याहभद्रशालवनगतानां वा इत्यादि, तत्र मेरोः समन्ततो भूमौ भद्रशालवनं, तत्र प्रथममेखलायां नन्दनवनं, द्वितीयमेखलायां सोमनसवनं, शिरसि चूलिकायाः पार्वेषु सर्वतः पण्डकवनं तत्र गतानां, महाहिमवान्-हेमवतक्षेत्रस्योत्तरतः सीमाकारी वर्षधरपर्वतस्तस्य, उपलक्षणं चैतत् शेषवर्षधरपर्वतानांमलयपर्वतस्य मन्दरगिरेश्च-मेरुगिरेगुहांसमन्वागतानां गुहाप्राप्तानां, वाशब्दा विकल्पार्था, एतेषुस्थानेषुप्रायः किन्नरादयः प्रमुदिता भवन्तिततएतेषामुपादानं, एकतः-एकस्मिन् स्थाने सहितानां-समुदितानांतथापरस्परं सम्मुखागतानां-सम्मुखं स्थितानांनैकोऽपिकस्यापि पृष्ठं दत्वा स्थित इत्यर्थः, पृष्ठदाने हर्षविघातोत्पत्तेः, तथा सम्यक्-परस्परानाबाधया उपविष्टाःसमुपविष्टास्तेषां। तथासन्निविष्टानां सम्यक् स्वशरीरानाबाधयानतुविषमसंस्थानेननिविष्टास्तेषां, तथा 'प्रमुदितप्रक्रीडितानां' प्रमुदिताः-हर्ष गताः प्रक्रीडिताः-क्रीडितुमारब्धवन्तस्ततो विशेषणसमासः तेषां, तथागीतेरतिर्येषातेगीतरतयो गन्धर्वैकृतंगान्धर्वनाट्यादितत्रहर्षितमनसः गान्धर्वहर्षित- मनसः, ततः पूर्वपदेन विशेषणसमासस्तेषां, 'रागगीत्यादिकं गीतं पदस्वरतालावधानात्मकं गान्धर्व'मिति भरतादिशास्त्रवचनात गद्यादिभेदादष्टधा गेयं, तत्र गद्यं यत्र स्वरसञ्चारेण गद्यं गीयते यत्र तु पद्यं-वृत्तादि यद् गीयते तत्पद्यं यत्र कथिकादि गीयते तत् कथ्यं पदबद्धं यदेकाक्षरादि यथाते तेइत्यादि पादबद्धं यदृत्तादिचतुर्भागमात्रे पादे बद्धं उत्क्षिप्तकं प्रथमतः समारभ्यमाणं, अत्र ककारात्पूर्वं दीर्घत्वं प्राकृतत्वात्, एवमुत्तरत्रापि द्रष्टव्यं, प्रवृत्तकं ।
प्रथमसमारम्भादूर्ध्वमाक्षेपपूर्वकं प्रवर्त्तमानं, तथा मन्दाकं-मध्यभागे सकलमूर्च्छनादिगुणोपेतं मन्दं मन्दं सञ्चरन् अथवा मन्दमयते-गच्छति अतिपरिघोलनात्मकत्वात् मन्दायं रोचितावसानं-रोचितं अवसानं यस्य तत् शनैः २ प्रक्षिप्यमाणस्वरं यस्य गेयस्यावसानं तद्रोचितावसानमित्यर्थः, इह हि पद्यंपादबद्धं चैक एव भेदः, उभयत्रापि वृत्तरूप-तानतिक्रमात्, तेन गेयस्याष्टप्रकारताकथनं न विरुद्धमिति, तथा सप्त स्वराः षडादयः, उक्तंच॥१॥
“सज्जे रिसह गंधारे, मज्झिमे पंचमे सरे।
धेवए चेव नेसाए, सरा सत्त विआहिआ॥" ते च सप्त स्वराः पुरुषस्य स्त्रीया वा नाभीतः समुद्भवन्ति, 'सत्त सरा नाभीओ' इति पूर्वमहर्षिवचनात्, तथा अष्टमी रसैः-श्रृङ्गारादिभि सम्यक्-प्रकर्षणयुक्तं, तथा एकादशालङ्काराः पूर्वान्तर्गते स्वरप्राभृते सम्यगभिहितास्तानि च पूर्वाणि सम्प्रति व्यवच्छिन्नानि तेन तेभ्यो लेशो विनिर्गतानि यानि भरतविशाखिलप्रभृतीनि तेभ्यो वेदितव्याः, तथा 'षडदोषविप्रमुक्तं' षड्भिर्दोषैर्विप्रमुक्तं, ते चामी षड्दोषाः॥१॥ “भीअं १ दुअ २ मुप्पिच्छं ३ उत्तालं च कमसो मुणेयव्वं ।
___ काकस्सरमणुण्णासं ६छद्दोसा हुँति गेयस्स ॥" अत्र व्याख्या भीतं-उत्त्रस्तं, किमुक्तं भवति?-यत् उत्रस्तेन मनसा गीयते तद्भीतपुरुषनिबन्धनत्वात् तद्धर्मानुवृत्तत्वाभीतमुच्यते, द्रुतं यत् त्वरितं गीयते, त्वरितगाने हि Jain Education International
For Private & Personal Use Only
www.jainelibrary.org