SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-१ ४१ इणटेसमटे" अत्र व्याख्या-सयथानामकः प्रातः सन्ध्यायां देवतायाः पुरतोयावादनायोपस्थाप्यते सा किल मङ्गलपाठिका, तालाभावे च वाद्यते इति विताले-तालाभावे भवतीति वैतालिकी तस्या वैतालिक्या वीणाया 'उत्तरमंदामुच्छियाए' इति मूर्छनं मूर्छा सा साता अस्या इति मूर्छिताउत्तरमन्दया-उत्तरमन्दाभिधया गन्धारस्वरान्तरगतया सप्तम्या मूर्छनयामूर्छता तस्याः, अयमाशयःगन्धारस्वरस्य सप्त मूर्च्छना भवन्ति, तथाहि॥१॥ “नंदी य खुड्डिमा पूरिमा य चोत्थी य सुद्धगंधारा । ___उत्तरगंधारावि अहवई सा पंचमी मुच्छा॥ ॥२॥ सुटुत्तरमायामा छट्ठी सा नियमसो उ बोद्धव्वा । उत्तरमंदा य तहा हवई सा सत्तमी मुच्छा। अथ किंस्वरूपा मूर्च्छना ?, उच्यते, गन्धारादिस्वरस्वरूपामोचनेन गायतोऽतिमधुरा अन्यान्यस्वरविशेषा यान् कुर्वन् आस्तां श्रोतृन् मूर्छितान् करोति किन्तु स्वयमपि मूर्छित इव तान् करोति, यदिवा स्वयमपि साक्षान्मूर्छा करोति, यदुक्तम्॥१॥ “अननसरविसेसे उप्पावंतस्स मुच्छणा भणिया। कत्ताविमुच्छिओ इव कुणए मुच्छंव सो वत्ति॥" गन्धारस्वरान्तर्गतानांच मूर्च्छनानांमध्ये सप्तमी उत्तरमन्दा मूर्च्छना किलातिप्रकर्षप्राप्ता ततस्तदुपादानं, तयाच मुख्यवृत्यावादयिता मूर्छितो भवतिपरमभेदोपचाद्वीणापिमूर्छितेत्युक्ता, साऽपि यद्यङ्के सुप्रतिष्ठिता न भवति ततो न मूर्च्छना प्रकर्ष विदधाति तत आह-अङ्के-उत्सङ्गे स्त्रीयाः पुरुषस्य वा सुप्रतिष्ठितायाः तथा कुशलेन-वादननिपुणेन नरेण नार्यावा सुष्टु-अतिशयेन सम्यक्प्रगृहीतायाः तथा चन्दनस्य सारो-गर्भस्तेन निर्मापितो यः कोणो-वादनदण्डः तेन परिघट्टितायाः-संघट्टितायाः प्रत्यूषकालसमये-प्रभातकालसमये, कालश्च वर्णोऽपि स्यादत आह-‘समयेति' समयश्च सङ्केतोऽपि स्याद्त आह-'काले'तिमंद मंद-शनैः शनैः एजितायाःचन्दनसारकोणेन मनाक् कम्पितायाः तथा व्येजितायाः-विशेषतः कम्पितायाः, एतदेवपर्यायेण व्याचष्टे-चालितायाः तथा घट्टितायाः-ऊर्ध्वाधोगच्छता चन्दनसारकोणेन गाढतरं वीणादण्डेन सह तन्त्रयाः स्पृष्टाया इत्यर्थः, तथा स्पन्दितायाः नखाग्रेण स्वरविशेषोत्पादनार्थमीषच्चालितायाः क्षोभितायाःमूर्छाप्रापितायायेउदारामनोहरामनोज्ञाःकर्णमनोनिवृतिकराःसर्वतः समन्ताच्छब्दा अभिनिस्सरन्ति, स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीनांतृणानांच शब्दः?, भगवानाह-गौतम नायमर्थः समर्थः । पुनरपि गौतम-प्राह-‘से जहानामए किंनराण वा किंपुरिसाण वा महोरगाण वागंधव्वाण वा भद्दसालवणगयाणवा नंदनवनगयाण वा सोमनसवनगयाण वा पंडगवनगयाण वा महाहिमवंतमलयमंदरगिरिगुहासमन्त्रागयाण वा एगओ सहियाणं संमुहागयाणं समुपविट्ठाणं सन्निविट्ठाणं पमुइयपक्कीलियाणं गीयरइ गंधव्वहरिसिअमणाणं गेज्जं पजं कत्थं पयबद्धं पायबद्धं उक्खित्तायं पवत्तायं मंदायं रोइयावसाणं सत्तसरसमण्णागयं अट्ठरससंपउत्तं इक्कारसालंकारं उद्दोसविप्पमुक्कंअट्ठगुणोववेयं रत्तंतिट्ठाणकरणसुद्धंसकुहरगुंजंतवंसतंतीतलताललयग्गहसुसंपउत्तं महुरं समं सुललिअंमनोहरमउयरिभियपयसंचारं सुरई सुणइ वरचारुरूवं दिव्वं नट्टसज्जं गेयं पगीयाणं, भवे एयारवे सिया?, गो० ! एवंभूए सिआ,' अत्र व्याख्या Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy