SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ ४० जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६ गौतम ! स यथानामकः शिबिकाया वा स्यन्दमानिकाया वा रथस्य वा, तत्र शिबिकाःजम्पान विशेषरूपा उपरिच्छादिताकोष्ठाकारा, तथा दीर्घा जम्पानविशेषपुरुषस्य स्वप्रमाणावकारादायी स्यन्दमानिका, अनयोश्च शब्दः पुरुषोत्पाटितयोः क्षुद्रहेमघण्टिकादिचलनवशतो वेदितव्यः, रथश्चेहरणरथःप्रत्येतव्यःन क्रीडारथः, तस्याग्रेतनविशेषणानामसम्भवात्, तस्यचफलकवेदिका यस्मिन्कालेयेपुरुषास्तदपेक्षया कटिप्रमाणावसेया, तस्य च रथस्य विशेषणान्यभिधत्ते-सच्छत्रस्य सध्वजस्यसघण्टाकस्य-उभयपाश्र्वावलम्बिमहाप्रमाणघण्टोपेतस्य सपताकस्य-सलघुध्वजस्य, सतोरणवरस्य-प्रधानतोरणोपेतस्य सनन्दिघोषस्य-द्वादशविधतूर्यनिनादोपेतस्य, द्वादश तूर्याणिच। ॥१॥ "भंभा १ मकुन्द २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७ । काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ अबारसमो॥" तथा 'सकिङ्किणीकहेमजालपर्यन्तपरिक्षिप्तस्य' सह किङ्किणीभि-क्षुद्रघण्टाभिवर्तन्त इति सकिङ्किणीकानि यानि हेमजालानि-हेममयदामसमूहास्तैः पर्यन्तेषु-बहिप्रदेशेषुपरिक्षिप्तो व्याप्तः तस्य, तथा हैमवतं-हिमवत्पर्वतभावि चित्रं-विचित्रं मनोहारि तैनिशं-तिनिशद्रुमसम्बन्धि कनकनियुक्तं-कनकविच्छुरितंकनकपट्टिकासंवलितमित्यर्थ (तत्) तथाविधंदारु-काष्ठं यस्य स तथा तस्य, प्रथमो बहुव्रीहौ कः द्वितीयः स्वार्थिकः, पूर्वस्य च दीर्घत्वं प्राकृतत्वात्, तथा सुष्ठ-अतिशयेन सम्यपिनद्धमरकमण्डलंधूश्च यस्यससुसंपिनद्धारकमण्डलधूष्कस्तस्यै,तथा कालायसेन-लोहेन सुष्टु-अतिशयेन कृतंनेमेः-बायपरिधेर्यन्त्रस्य चारकोपरिफलकचक्रवालस्य कर्म यस्मिन् स कालायससुकृतनेमियन्त्रकर्मा तस्य, आकीर्णा-गुणैव्यार्पता ये वराःप्रधानास्तुरगास्ते सुष्टु-अतिशयेन सम्यक् प्रयुक्ता-योत्रिता यस्मिन्स तथा तस्य, बहुव्रीवावपि निष्ठान्तस्य परनिपातःप्राकृतत्वात्, तथा सारथिर्मणिये कुशलनरास्तेषांमध्ये अतिशयेनछेको दक्षः सारथिस्तेन सुष्ठु-सम्यक्परिगृहीतस्य, तथा शराणां शतं प्रत्येकं येषु तानि शरशतानि तानि च द्वात्रिंशत्तूणानि च-बाणाश्रयाः शरशतद्वात्रिंशत्तूणानि तैर्मण्डितः। किमुक्तंभवति?-एवं नाम तानि द्वात्रिंशत् शरशतानि तूणानि रथस्य सर्वतः पर्यन्तेष्ववलम्बितानि तस्य रणायोपकल्पितस्यातीव मण्डनाय भवन्तीति, तथा कंट:-कवचं अवतंसः-शिरस्त्राणं ताभ्यां सह वर्तते यः स तथा तस्य, सह चापेन ये शरा यानि च कुन्तादीनि प्रहरणानि यानि च खेटकादीन्यावरणानि तैभृतः-पूर्णस्तथा योधानां युद्धं तन्निमित्तं सज्जःप्रगुणीभूतो यःसयोधयुद्धसज्जस्ततः पूर्वपदेन कर्मधारयः, तस्य इत्थंभूतस्य राजाङ्गणेवा अन्तःपुरे वारम्येवामणिकुट्टिमतले–मणिबद्धभूमितलेअभीक्ष्णं-मुहुर्मुहूर्मणिकोट्टिमतलप्रदेशैः राजाङ्गणादिप्रदेशैर्वा 'अभिघट्टिज्जमाणस्से'तिअभिघट्टयमानस्य-वेगेन गच्छतो ये उदारा-मनोज्ञाः कर्णमनोनिवृतिकराः सर्वतः समन्तात् शब्दाः अभिनिस्सरन्ति-श्रोतृणामभिमुखं निस्सरन्ति । __-'भवे एयारूवे सिआ?' इति स्यात्-कथञ्चिद्भवेदेतद्रूपस्तेषां मणीना तृणानांच शब्दः भगवानाह-गौतम! नायमर्थः समर्थः, पुनरपि गौतमः प्राह-‘से जहानामए वेआलियाए वीणाए उत्तरमंदामुच्छिआए अंकेसुपइट्ठियाए कुसलणरणारिसुसंपग्गहियाए चंदनसारकोणपरिघट्टियाए पच्चूसकालसमयंसि मंद मंदं एइयाए वेइयाए चालियाए घट्टियाए फंदियाए खोभियाए उराला मणुण्णा कण्णमणणिब्बुइकरा सव्वओ समंता सद्दा अभिनिस्सवंति, भवे एयारूवे सिया?, नो Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy