________________
वक्षस्कारः -१
रागतानादिपुष्टिरक्षरव्यक्तिश्च न बवति, 'उप्पिच्छं' श्वाससंयुक्तमिति, पाठान्तरेण 'रहस्सं'ति हस्वस्वरं लघुशब्दमित्यर्थः, उत्तालं' उत्-प्राबल्येन अतितालं अस्थानतालंवा, तालस्तु कंसिकादिस्वरविशेषः, काकस्वरं-श्लक्ष्णाश्रव्यस्वरं अनुनासं-नासिकाविनिर्गतस्वरानुगतमिति, तथा अष्टभिर्गुणैरुपेतं अष्टगुणोपेतं, ते चाष्टामी गुणाः
“पुण्णं रत्तं अलंकियं च वत्तं तहेव अविधुटुं।
महुरं समं सुललिअं, अट्ट गुणा हुंति गेयस्स ।।" तत्र यत् स्वरकलाभि पूर्णं गीयते तत् पूर्ण १ गेयरागानुरक्तेन यत् गीयते तद्रक्तं २ अन्योऽन्यस्फुटशुभस्वरविशेषाणांकरणादलङ्कृतं ३अक्षरस्वरस्फुटकरणा व्यक्तं४ विक्रोशनमिवयद्विस्वरंन भवति तदविघुष्टं ५ मधुरं-मधुरस्वरंकोकिलारुतवत् ६तालवंशस्वरादिसमनुगतं समं ७ स्वरघोलनाप्रकारेण सुष्टु-अतिशयेन ललतीव यत् सुललितं, यदिवा यत् श्रोत्रेन्द्रियस्य शब्दस्पर्शनमतीव सूक्ष्ममुत्पादयति सुकुमारमिव (च) प्रतिभासते तत् सुललितं ८, एते अष्टौ गुणा गेयस्य भवन्ति, एतद्विरहितंतु विडम्बनामानंतदिति, इदानीमेतेषामेवाष्टानां गुणानां मध्ये कियतो गुणान् अन्यच्च प्रतिपिपादयिषुराह
_ 'रत्त'मित्यादि रक्तं-पूर्वोक्तस्वरूपं तथा 'त्रिस्थानकरणशुद्धं' त्रीणि स्थानानिउरःप्रभृतीनि तेषु करणेन-क्रियया शुद्धं त्रिस्थानकरणशुद्धं, तद्यथा-उरःशुद्धं कण्ठशुद्धं शिरोविशुद्धं च, तत्र यधुरसि स्वरो विशालस्त रोविशुद्धं, स एव यदि कण्ठे वर्तितोऽस्फुटितश्च ततः कण्ठविशुद्धं, यदि पुनः शिरसि प्राप्तः सन्नानुनासिको भवति ततः शिरोविशुद्धं अथवा उरः कण्ठशिरस्सु श्लेष्मणा अव्याकुलेषु विशुद्धेषु प्रशस्तेषु यद् गीयते तदुरःकण्ठशिरोविशुद्धत्वात् त्रिस्थानकरणविशुद्धं, तथा सकुहरः-सच्छिद्रो गुञ्जन्-शब्दायमानो यो वंशो ये च तन्त्रीतलताललयग्रहास्तैः सह सुष्टु-अतिशयेन सम्प्रत्युक्तं-अविरुद्धतया प्रवर्तितं, किमुक्तं भवति
सकुहरेवंशे गुञ्जति तन्त्रयाच वाद्यमानायां यद्वंशतन्त्रीस्वरेणाविरुद्धंतत्सकुहरगुञ्जद्वंशतन्त्रीसुसम्प्रयुक्तं, तथा परस्पराहतहस्ततालस्वरानुवर्ति यद् गीतं तत्तालसुसम्प्रयुक्तं, यत् मुरजकंशिकादीनामातोद्यानामाहतानांयोध्वनिर्यश्च नृत्यन्त्या नर्तक्याः पादोत्क्षेपस्तेन समंतत् तालसुसम्प्रयुक्तं, तथा श्रृङ्गदारुदन्तादिमयो योऽङ्गुलिकोशकस्तेनाहतायास्तन्त्र्याः स्वरप्रकारो लयस्तमनुसरद् गेयं लयसुसंप्रयुक्तं, तथा प्रथमतोवंशतन्त्रयादिभिर्य स्वरोगृहीतस्तत्समेन स्वरेण गीयमानं ग्रहसुसंप्रयुक्तं, तथा मधुरमित्यादिविशेषणत्रयंप्राग्वत्, अत एव मनोहरं, मृदुकं-मृदुना स्वरेणयुक्तंन निष्ठुरेण, तथा यत्रस्वरोऽक्षरेषुघोलनास्वरविशेषेषुच सञ्चरन रागेऽतीवप्रतिभासते सपदसञ्चारोरिभितमुच्यतेमृदुरिभितपदेषु-गेयनिबद्धेषुसंचारोयत्र गेयेतत् मृदुरिभितपदसंचारं, तथा सुष्टु-शोभनारतिश्रोतृणांयस्मिन्तत्सुनति, सुष्टु-शोभनानति-अवनामोऽवसाने यस्मिन् तत्सुनति, पर्यन्ते मन्द्रस्वरस्य विधानात्, तथा वरं-प्रधानं विशिष्टचङ्गिमोपेतं रूपं-स्वरूपं यस्य तत्तथा, दिव्यं-देवसम्बन्धि, यतः नाट्ये-नृत्यविधौ सज्जं नाट्यसज्जं गीतवाद्ये तथाविधे हि नाट्यविधिरपि सुमनोहरः स्यादिति, उक्तस्वरूपं गेयं प्रगीतानां-गातुमारब्धवतां यादृशः शब्दोऽतिमनोहरोभवति, स्यात्-कथञ्चिद्भ-वेदेतद्रूपस्तेषांमणीनांतृणानांच शब्दः?, दृष्टान्तस्य सर्वसाम्याभावात् स्यादिति पदोपादानं, एवमुक्ते भग०-गौ० ! स्यादेवंभूतः शब्द इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org