SearchBrowseAboutContactDonate
Page Preview
Page 445
Loading...
Download File
Download File
Page Text
________________ ४४२ जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ७/२५८ सर्वाभ्यन्तरान्मण्डलात् तृतीयं यन्मण्डलं तत आरम्य यस्मिन् मण्डले दृष्टिपथप्राप्तताज्ञातुमिष्यते तत्तन्मण्डलसङ्ख्यया षट्त्रिंशत् गुण्यते, तद्यथा सर्वाभ्यन्तरान्मण्डलात्तृतीयेमण्डले एकेनचतुर्थेद्वाभ्यांपञ्चमे त्रिभिर्यावत्सर्वबाह्यमण्डले द्व्यशीत्याधिकशतेन गुणयित्वा ध्रुवराशिमध्ये प्रक्षिप्यते, प्रक्षिप्ते सति यद्भवति तेन हीना पूर्वमण्डलसत्कष्टिपथप्राप्तता तस्मिन् विवक्षिते मण्डले दृष्टिपथप्राप्तता ज्ञातव्या, अथ त्र्यशीतियोजनादिकस्यध्रुवराशेः कथमुपपत्ति?,उच्यते, सर्वाभ्यन्तरमण्डले सृष्टिपथप्राप्ततापरिमाणे सप्तचत्वारिंशत्सहस्रणि द्वे शते त्रिषष्ट्यधिके योजनानामेकविंशतिश्च षष्टिभागा योजनस्य एतच्च नवमुहूर्तगम्यंतत एकस्मिन् मुहूर्तेकषष्टिभागेकिमागच्छतीति चिन्तायांनवमुहूर्ताएकषष्ट्यां गुण्यन्तेजातानि पञ्चशतान्येकोनपञ्चाशदधिकानितैर्भागहृते लब्धानि षडशीतिर्योजनानिपञ्च षष्टिभागा योजनस्य एकस्य चषष्टिभागस्यैकषष्टिधाच्छिन्नस्य चतुर्विंशतिर्भागाः इदंचसर्वाभ्यन्तरे मण्डले एकस्य मुहूर्तेकषष्टिभागस्य गम्यं, द्वितीयमण्डलपरिरयवृद्धयङ्कभजनाद्यल्लभ्यते मुहूर्तेकषष्टिभागेनतच्छोधनार्थमुपक्रम्यते, पूर्वपूर्वमण्डलादनन्तरानन्तरेमण्डले परिरयपरिमाणचिन्त्यामष्टादशाष्टादशयोजनानि व्यवहारतः परिपूर्णानि वर्धन्ते, ततः पूर्वपूर्वमण्डलगतमुहर्त्तगतिपरिमाणादनन्तरानन्तरेमण्डले मुहूर्तगतिपरिमाणचिन्तायां प्रतिमुहूर्तमष्टादश २ षष्टिभागा योजनस्य वर्द्धन्ते, प्रतिमुहूर्तेकषष्टिभागंचाष्टादशैकस्य षष्टिभागस्य सत्का एकषष्टिभागाः। सर्वाभ्यन्तरानन्तरेचद्वितीयमण्डले नवमुहूतैरेकेन मुहूर्तेकषष्टिभागेनोनैर्यात् क्षेत्र व्याप्यते तावति स्थितः सूर्यो दृष्टिपथप्राप्तो भवतिततोनवमुहूर्ताएकषष्ट्या गुण्यन्तेजातान्यष्टानवतिशतानि चतुःषष्ट्यधिकानि, तेषां षष्टिभागानयनार्थमेकषष्ट्या भागो हियते लब्धमेकषष्ट्यधिकं शतं षष्टिभागानांत्रिचत्वारिंशत्षष्टिभागस्यसत्का एकषष्टिभागाः, तत्र विंशत्यधिकेनषष्टिभागशतेन लब्धे द्वे योजने अवशेषा एकचत्वारिंशत् षष्टिभागाः एकस्य च षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागाः, एतच्च द्वे योजने एकचत्वारिंशत्षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्कास्त्रिचत्वारिंशदेकषष्टिभागा इत्येवंरूपंप्रागुक्तात्षडशीतिर्योजनानिपञ्चषष्टिभागायोजनस्य एकस्यषष्टिभागस्यसत्काश्चतुर्विंशतिरेकषष्टिभागाइत्येतस्माच्छोध्यन्ते, शोधितेचतस्मिस्थितानि त्र्यशीतिर्योजनानि त्रयोविंशति षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्का द्विचत्वारिंशदेकषष्टिभागाः एतावच्च सर्वाभ्यन्तरमण्डलगतष्टिपथप्राप्ततापरिमाणाद् द्वितीय-मण्डलगत:पथप्राप्ततापरिमाणे हीनं स्यात्, एतच्चोत्तरोत्तरमण्डलष्टिपथप्राप्तता चिन्तायां हानौ ध्रुवं अत एव ध्रुवराशिरित्युच्यते। ततो द्वितीयस्मान्मण्डलादनन्तरे तृतीयेमण्डलेएषएवध्रुवराशिरेकस्य षष्टिभागस्यसत्कैः षट्त्रिंशता भागभागैः सहितोयावान्राशिस्यात्, तथाहि-त्र्यशीतिर्योजनानिचतुर्विंशतिषष्टिभागा योजनस्य सप्तदशचषष्टिभागस् सत्काएकषष्टिभागाइति तावान् द्वितीयमण्डलगताद्दष्टिपथप्राप्ततापरिमाणाच्छोध्यते, ततो भवति यथोक्तमत्र मण्डले दृष्टिपथप्राप्ततापरिमाणं। चतुर्थमण्डलंसएव ध्रुवराशिसप्तत्यासहितः क्रियते, चतुर्थंहिमण्डलं तृतीयमण्डलापेक्षया द्वितीयं, ततः षट्त्रिंशदद्वाभ्यां गुणिता द्विसप्ततिः स्यात् तया सहितस्त्रयशीत्यादिको राशिः ८३ "/.५३/., इत्येवंस्वरूपो जातः, अयं च तृतीयमण्डलगतात् दृष्टिपथप्राप्ततापरिमामाच्छोध्यते Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy