SearchBrowseAboutContactDonate
Page Preview
Page 444
Loading...
Download File
Download File
Page Text
________________ वक्षस्कारः-७ ४४१ - लाघवार्थिका, अन्यथाऽस्य राशेरेकषष्ट्या भागे इते षष्टिभागा लभ्यन्ते तेषांचषष्ट्या भागे इते आगतं सप्तचत्वारिंशत्सहस्राणि शतमेकमेकोनाशीत्यधिकं योजनानां ४७१७९, शेषं ३४९६, छेदराशेः षष्ट्याऽपवर्त्तना क्रियतेजाता एकषष्टिः तया शेषराशे गोहियते लब्धाः सप्तपञ्चाशत् षष्टिभागाः, एकोनविंशतिश्चैकस्यषष्टिभागस्य सत्काः एकषष्टिभागाः। अथाभ्यन्तरतृतीयमण्डलस्य चारं पिपृच्छिषुराद्यसूत्रं सूत्रयति_ 'सेनिक्खममाणे सूरिए दोच्चंसि' इत्यादि, अथ निष्क्रामन् सूर्यो द्वितीयेऽहोरात्रे प्रस्तुतायनापेक्षया द्वितीयमण्डल इत्यर्थः अभ्यन्तरं तृतीयमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत् क्षेत्रं गच्छति?, भगवानाह-गौतम ! पञ्च पञ्च योजनसहस्राणि द्वेच द्विपञ्चाशघोजनशते पञ्चदशषष्टिभागान्योजनस्यैकैकेन मुहूर्तेन गच्छिति, इदंचप्रस्तुतमण्डलपरिरयस्य षष्ट्या भजने संवादमादत्ते, तदाच इह गतस्य मनुष्यस्य सप्तचत्वारिंशता योजनसहस्रैः षन्नवत्या चयोजनैस्त्रयास्त्रिंशताचषष्टिभागैर्योजनस्यषष्टिभागंचैकंएकषष्टिधा छित्वा द्वाभ्यां चूर्णिकाभागाभ्यां सूर्यश्चक्षुस्पर्श हव्वं-शीघ्रमागच्छति, तथाहि अत्र मण्डले दिनप्रमाणमष्टादश मुहूर्ताश्चतुभिरेकषष्टिभागै_नास्तेषामद्धे च नव द्वाभ्यामेकषष्टिभागाभ्यांहीनास्ततः सामस्त्येनैकषष्टिभागकरणार्थनवापिमुहूर्ताएकषष्ट्यागुण्यन्ते तेभ्यश्चद्वावेकषष्टिभागावपनीयेते शेषाः पञ्चशतानि सप्तचत्वारिंशदधिकानि ५४७, प्रस्तुतमण्डले मुहूर्तगतिः ५२५२५. इत्येवंरूपांयोजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते जातं ३१५१२५, अयमेव राशिरन्यैः परिधिराशित्वेन निरूपितः, अस्य च सप्तचत्वारिंशदधिकपञ्चशतैर्गुणने जाताः सप्तदशकोट्यस्त्रयोविंशतिःशतसहस्राणि त्रिसप्तति सहस्राणित्रीणिशतानि पञ्चसप्तत्यधिकानि १७२३७३३७५, एतेषां षष्टिगुणितया एकषष्ट्या ३६६० बागेहते आगतानि सप्तचत्वारिंशत् सहस्राणि षन्नवत्यधिकानि ४७०९६, सेषं विंशतिशतानि पञ्चदशोत्तराणि २०१५,छेदराशेः षष्ट्याऽपवर्त्तनायां जाता एकषष्टिः तया शेषराशेजने लब्धास्त्रयस्त्रिंशत् षष्टिभागाः शेषौ च द्वावेकस्य षष्टिभागस्य सत्कावेकषष्टिभागौ इति । सम्प्रति चतुर्थमण्डलादिष्वतिदेशमाह एवं खलु एतेणं उवाएण' मित्यादि, एवं मण्डलत्रयदर्शितरीत्या खलु-निश्चितमेतेनान्तरोदितेनोपायेन शनैः शनैस्तत्तद्वहिर्मण्डलाभिमुखगमनरूपेण निष्क्रामन् सूर्यस्तदनन्तरान्मण्डलात्तदनन्तरं मण्डलं प्रागुक्तप्रकारेण संक्रामन् २ एकैकस्मिन् मण्डले मुहूर्तगतिमित्यत्र प्राकृतत्वात् सप्तम्यर्थे द्वितीया तेन मुहूर्तगतौ अष्टादश २ षष्टिभागान् योजनस्य व्यवहारतः परिपूर्णानिश्चियतः किञ्चिदूनान्अभिवर्द्धयमानः चतुरशीति २ योजनानिशीतानि-किञ्चिन्यूनानि पुरिसच्छायमिति-पुरुषस्य छायायतो भवतिसा पुरुषच्छाया साचेहप्रस्तावात्प्रथमतः सूर्यस्योदयमानस्य दृष्टिपथप्राप्तता, अत्रापि सप्तम्यर्थे द्वितीया, ततोऽयमर्थः-तस्या निवर्द्धयन् २-हापयन् २, कोऽर्थः?-पूर्वं २ मण्डलसत्कपुरुषच्छायातो बाह्यबाह्यमण्डलपुरुषच्छाया किञ्चिन्यूनैश्चतुरशीत्या योजनैींना इत्यर्थः, सर्वबाह्यमण्डलमुपसंक्रय चारंचरति, यच्चात्रोक्तं ८४ योजनानि किञ्चिन्यूनानि उत्तरोत्तरमण्डलसत्कपुरुषच्छायायां हीयन्ते इति तत्स्थूलत उक्तं, परमार्थतः पुनरिदं द्रष्टव्यं-त्र्यशीतिर्योजनानि त्रयोविंशतिश्च षष्टिभागा योजनस्य एकस्य षष्टिभागस्य एकषष्टिधाच्छिन्नस्य सत्का द्विचत्वारिंशद् भागाश्चेति दृष्टिपथप्राप्तताविषये हानौ ध्रुवं, ततः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy