SearchBrowseAboutContactDonate
Page Preview
Page 443
Loading...
Download File
Download File
Page Text
________________ ४४० जम्बूद्वीपप्रज्ञप्ति-उपासूत्रम् ७/२५८ चाहोरात्रगणनादहोरात्रोऽपित्र्यशीत्यधिकशततमस्तेनायमुत्तरायणस्य चरमोदिवसोऽयमेवच सूर्यसंवत्सरस्य पर्यन्तदिवस उत्तरायमपर्यवसानकत्वात् संवत्सरस्येति । ___ अथ नवसंवत्सरप्रारम्भप्रकारप्रज्ञापनाय सूत्रं प्रारभ्यते-‘से निक्खममाणे' इत्यादि अथाभ्यन्तरान्मण्डलान्निष्कामन् जंबूद्वीपान्तःप्रवेशेऽशीत्यधिकयोजनशतप्रमामेक्षेत्रेचरमाकाशप्रदेशस्पर्शनानन्तरं द्वितीयसमये द्वितीयमण्डलाभिमुखं प्रसर्पन्नित्यर्थः, सूर्यो नवं-आगामिकालभाविनं संवत्सरमयमानः२-आददानःप्रथमेऽहोरात्रे सर्वाभ्यन्तरानन्तरं मण्डलमुपसंक्रय चारंचरति, एषचाहोरात्रोदक्षिणायनस्याधःसंवत्सरस्यापिच दक्षिणायनादिकत्वात् संवत्सरस्य, अत्रचाधिकारे समवायाङ्गसूर्यप्रज्ञप्तिचन्द्रप्रज्ञप्तिसूत्रादर्शप्रस्तुतसूत्रादर्शेषुचअयमाणे २ इत्यस्य स्थाने अयमीणे इति पाठो ६श्यते तेन यदि स समूलस्तदा आर्षत्वादिहेतुना साधुरेव, अयमाणे इति तु लक्षणसिद्धः, अर्थस्तूभयत्रापि स एवेति, अथात्र गतिप्रश्नाय सूत्रम् 'जया ण' मित्यादि, यदा भगवन् ! सर्वाभ्यन्तरानन्तरं द्वितीयं दक्षिणायनापेक्षया आद्यं मण्डलमुपसंक्रम्य चारं चरति तदा एकैकेन मुहूर्तेन कियत्क्षेत्रं गच्छति ?, गौतम ! पञ्च पञ्च योजनसहस्राणि द्वेचैकपञ्चाशेयोजनशते सप्तचत्वारिंशतंचषष्टिभागान्योजनस्यैकैकेन मुहूर्तेन गच्छति, कथमिति चेत्, उच्यते अस्मिंश्च मण्डले परिरयपरिमाणं त्रीणि योजनलक्षाणि पञ्चदश सहस्राणि शतमेक सप्तोत्तरं व्यवहारतः परिपूर्ण निश्चयमतेन तु किञ्चिदूनं ३१५१०७, ततोस्य प्रागुक्तयुक्तिवशात् षष्ट्या मागे लब्धंयथोक्तमत्रमण्डले मुहूर्तगतिप्रमाणं५२५१,७/, अथवा पूर्वमण्डलपरिरयपरिमाणादस्य परिरयपरिमाणे व्यवहारतः पूर्णान्यष्टादशयोजनानि वर्द्धन्ते निश्चयमतेन तु किञ्चिदूनानि, अष्टादशानां योजनानां षष्ट्या भागे लब्धा अष्टादश षष्टिभागा योजनस्य ते प्राक्तनमण्डलगतमुहूर्तगतिंपरिमाणेऽधिकत्वेन प्रक्षिप्यन्ते, ततो भवति यथोक्तं तत्र मण्डले मुहूर्तगतिप्रमाणमिति, अत्रापि दृष्टिपथप्राप्तताविषयं परिमाणमाह यदाअभ्यन्तरद्वितीयेमण्डले सूर्यश्चरति तदा इहगतस्यमनुष्यस्य-जातावेकवचनमित्यत्र गतानां मनुष्याणां सप्तचत्वारिंशता योजनसहस्त्रैकोनाशीत्यधिकेन योजनशतेन, सूत्रे तृतीयार्थे सप्तमीप्राकृतत्वात्, सप्पञ्चाशताच षष्टिभागैर्योजनस्यषष्टिभागंचएकषष्टिधाछित्वा-एकषष्टिखण्डान् कृत्वा एकषष्टिधा गुणयित्वेत्यर्थः, तस्य सत्कैरेकोनविंशत्या चूर्णिकाभागैः- भागभागैः सूर्यश्चक्षुस्पर्शमागच्छति, तथाहि-सर्वाभ्यन्तरानन्तरे द्वितीये मण्डले दिवसप्रमाणं द्वाभ्यामेकषष्टिभागाभ्यां हीना अष्टादश मुहूर्तास्तेषामद्धे नव मुहूर्ता एकेनैकषष्टिभागेन हीनास्ततः सामस्त्येनैकषष्टिभागकरणार्थं नवापि मुहूर्ता एकषष्ट्या गुण्यन्ते, तेभ्य एकषष्टिभागोऽपनीयते, ततः शेष जाता एकषष्टिभागाः पञ्चशतान्यष्टचत्वारिंशदधिकानि, प्रस्तुतमण्डले मुहूर्तगति ५२५१ योजन ७.. अयं च राशिः षष्टिच्छेद इति योजनराशिं षष्ट्या गुणयित्वा सवर्ण्यते जातं ३१५१०७, अयमेव राशि करणविभावनायां मलयगिरीयक्षेत्रसमासवृत्तौ च परिधिराशिरिति कृत्वा दर्शितो लाघवात् भाज्यराशिलब्धस्य भाजकराशिना गुणने मूलराशेरेव लाभात्, एष राशि पञ्चभि शतैरष्टाचत्वारिंशदधिकैर्गुण्यते जाताः सप्तदश कोट्यः षड्विंशतिर्लक्षाः अष्टसप्तति सहस्राणि षट् शतानि षट्त्रिंशदधिकानि १७२६७८६३६, अयं च राशि गभागात्मकत्वान्न योजनानि प्रयच्छतीति एकषष्टेः षष्ट्या गुणितायायावान्ाशिर्भवतितेन भागो ह्रियते, इयंचगणितप्रक्रिया www.jainelibrary.org Jain Education International For Private & Personal Use Only
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy