________________
वक्षस्कारः -७
,
ततो यथावस्थितं तुर्यमण्डले हक्पथप्राप्तिमानं तच्चेदम् - सप्तचत्वारिंशद्योनसहस्राणि त्रयोदशोत्तराणि अष्टौ च षष्टिभागा योजनस्य एकस्य च षष्टिभागस्य सत्का दशैकषष्टिभागाः, सर्वान्तिमे तु मण्डले तृतीयमण्डलापेक्षया द्व्यशीत्यधिकशततमे यदा ष्टिपथप्राप्तिजिज्ञासा तदा षट्त्रिंशत् द्वयशीत्यधिकशकेन गुण्यते जातानि पञ्चषष्टिशतानि द्विपञ्चाशदधिकानि ततः षष्टिभागानयनार्थमेकषष्ट्य भागे लब्धं सप्तोत्तरं शतं षष्टिभागानां पञ्चविंतिरवशिष्टाः एतद् ध्रुवराशी प्रक्षिप्यते जातं पञ्चाशीतिर्योजनानि एकदश षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षडेकषष्टिभागाः, इह षट्त्रिंशत एवमुत्पत्तिः - पूर्वस्मात् २ मण्डलादनन्तरेऽनन्तरे मण्डले दिवसो द्वाभ्यां २ मुहूर्तैकषष्टिभागाभ्यां हीनः स्यात्, प्रतिमुहूर्तैकषष्टिभागं चाष्टादश एकस्य षष्टिभागस्य सत्का एकषष्टिभागा हीयन्ते, ततः उभयमीलने षट्त्रिंशत् स्यु, ते चाष्टादश भागाः कलया न्यूना लभ्यन्ते न परिपूर्णा परं व्यवहारतः पूर्वं परिपूर्णा विवक्षिताः, तच्च कलया न्यूनत्वं प्रतिमण्डलं भवत् यदा द्वयशीत्यधिकशततमण्डले एकत्र पिण्डितं सत् चिन्त्यते तदा अष्टषष्टिरेकषष्टिभागास्त्रुटयन्ति ।
४४३
एतदपि व्यवहारतः परमार्थतः किञ्चिदधिकमपि त्रुट्यदवसेयम्, ततोऽमी अष्टषष्टिकषष्टिभागा अपसार्यन्ते, तदपसारणे पञ्चाशीतिर्योजनानि नव षष्टिभागा योजनस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः इति जातं सर्वबाह्यमण्डलानन्तरार्वाक्त- नद्वितीयमण्डलगतर्दृष्टिपथप्राप्ततापरिमाणादेकत्रिंशत्सहस्राणि नव शतानि षोडशोत्तराणि योजनानां एकोनचत्वारिंशत्षष्टिभागा योजनंस्य एकस्य षष्टिभागस्य सत्काः षष्टिरेकषष्टिभागाः, इत्येवंरूपाच्छोध्यते ततो यथोक्तं सर्वबाह्यमण्डले दृष्टिपथपराप्ततापरिमाणं भवति, तच्चाग्रे वक्ष्यति, तत एवं पुरुषच्छायायां दृष्टिपथप्राप्ततारूपायां द्वितीयादिषु केषुचिन्मण्डलेषु चतुरशीतिं किञ्चिन्न्यूनानि उपरितनेषु मण्डलेष्वधिकान्यधिकतराणि उक्तप्रकारेणाभिवर्द्धयन् २ तावदवसेयो यावत्सर्वबाह्यमण्डलमुपसंक्रम्य चारं चरति, तत्र पञ्चाशीतिग्रहणं तद् देहलीप्रदीपन्यायेनो भयपार्श्ववर्त्तिन्योस्त्रयशीतिपञ्चाशीत्योर्ग्रहणार्थमिति ।
अथोक्ते एव मण्डल क्षेत्रे पश्चानुपूर्व्या सूर्यस्य मुहूर्त्तगत्याद्याह - 'जया ण' मित्यादि, यदा भगवन् ! सूर्य सवबाह्यमण्डलमुपसंक्रम्य चारं चरति तदा एकैकेनमुहूर्तेन कियत् क्षेत्रं गच्छति गौतम! पञ्च पञ्च योजनसहस्राणि त्रीणि पञ्चोत्तराणि योजनशतानि पञ्चदशषष्टिभागान् योजनस्य एकैकेन गच्छति, कथमिति चेत्, उच्यते-अस्मिन् मण्डले परिरयपरिमाणं तिनो लक्षा अष्टादश सहस्राणि त्रीणि शतानि पञ्चदशोत्तराणि ततोऽस्य प्रागुक्तयुक्तिवशात् षष्ट्या भक्ते लब्धं यथोक्तमत्र मण्डले मुहूर्त्तगतिपरिमाणमिति, अत्र दृष्टिपथप्राप्ततापरिमाणमाह- सर्वबाह्यमण्डलचारचरणकाले इहगतस्य मनुष्यस्येति प्राग्वत् एकत्रिंशता योजनसहस्रैरष्टभिश्चैकत्रिंशदधिकैर्योजनशतैस्त्रिंशता च षष्टिभागैर्योजनस्य सूर्य शीघ्रं चक्षुस्पर्शमागच्छति ।
तथाहि-अस्मिन् मण्डले सूर्ये चारं चरति दिवसो द्वादशमुहूर्त्त प्रमाणो, दिवसस्यार्द्धेन यावन्मात्रं क्षेत्रं व्याप्यते तावति स्थित उदयमानः सूर्य उपलभ्यते, द्वादशानां च मुहूर्त्तानामर्द्धे षट् मुहूर्त्तास्ततो यदत्र मण्डले मुहूर्तगतिपरिमाणं पञ्च योजनसहस्राणि त्रीणि शतानि पञ्चोत्तराणि पञ्चदश च षष्टिभागा योजनस्य तत् षड्भिर्गुण्यते, दिवसार्द्धगुणिताया एव मुहूर्त्तगते ष्टिप
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org