________________
४१६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२४० तथा रेचकैः-भ्रमरिकाभिः रेचितं-निष्पन्नं, भ्रांतो-भ्रमप्राप्तः स इव यत्राद्भुतचरित्रदर्शनेन पर्षज्जनः सम्भ्रांतः-साश्चर्यो भवति तत् भ्रांतसम्भ्रांतं तदुपचारान्नाटयमपि भ्रांतसम्भ्रांतं ३१
. अथद्वात्रिंशत्तमंचरमचरमनामनिबद्धनामकं, तच्च सूर्याभदेवेनभगवतोवर्द्धमानस्वामिनः पुरतो भगवतश्चरमपूर्वमनुष्यभवचरमदेवलोकभवचरमच्यवनचर मगर्भसंहरणचरमभरतक्षेत्रावसर्पिणीतीर्थकरजंमाभिषेकचरमबालभाचरमयौवनचरमकामभोगचरमनिष्क्रमणचरमतपश्चरणचरमज्ञानोत्पादचरमतीर्थप्रवर्तनचरमपरिनिर्वाणाभिनयात्मकंभावितं, इहतुयस्यतीर्थकृतो जंममहंकुर्वतितच्चरिताभिनयात्मकमुपदर्शयति, यद्यप्यत्राञ्चितरिभितारभटभसोलेषुचतुर्दा मूलभेदेषु गृहीतेषु साभिनयनाटयमात्रसङ्कहः स्यात्तथापिकचिदेकैकेनाभिनयेन कचिद-भिनयसमुदायेन कचिच्चाभिनयविशेषेणांतरकरणात् सर्वप्रसिद्धद्वात्रिंशन्नाटकसङ्ख्याव्य- वहारसंरक्षणार्थं द्वात्रिंशभेदा दर्शिताः।
अथाभिनयशृंयमपि नाटकं भवतीति तत् दर्शयितुमाह-'अप्पेगइआ उप्पय'इत्यादि, अप्येकका उत्पातः-आकाशे उल्ललनंनिपातः-तस्मादवपतनं उत्पातपूर्वोनिपातोयस्मिन् तदुत्पातनिपातं, एवं निपातोत्पातं, संकुचितप्रसारितं प्राग्वत्, यावत्पदात् 'रिआरिअमिति ग्राह्य, तत्र रिअंगमनंरङ्गभूमेर्निष्कमणंआरिअं-पुनस्तत्रागमनं, भ्रांतसम्भ्रांतं तुअनंतरोक्तैकत्रिंशत्त-मनाटके व्याख्यातमिति ततो ग्राह्यं, इदंचपूर्वोकचतुर्विधद्वात्रिंशद्विधनाटयेभ्यो विलक्षणं सर्वाभि-नयशृंयं गात्रविक्षेपमात्र विवाहाभ्युदयादावुपयोगि सामांयतो नर्तनं भरतादिसङ्गीतेषु नृत्तमित्युक्तं
अथोक्तमेव नाटयंप्रकारद्वयेन सङ्गहीतुमाह-'अप्पेगइआतंडवेतिअप्पेगइआलासेंति'त्ति, अप्येककास्ताण्डवं नाम नाटकं कुर्वति, तच्चोद्धतैः करणैरङ्गहारैरभिनयैश्च निर्वत्य, अतएवारभटीवृत्तिप्रधानं नाट्यं, अथ यथा वालस्वामिपादानां देवाः कुतूहलमुपदर्शयतितथाह-'अप्पेगइआ पीणेति' इत्यादि, अप्येकका देवाः पीनयति-स्वस्थूलीकुर्वति, ‘एव'मित्यप्येकका वूत्कारयतिवूत्कारं कुर्वति आस्फोटयति-उपविशंतः पुताभ्यां भूम्यादिकमाघ्नति वल्गति-मल्लवद्वाहुभ्यां परस्परं संप्रलगति सिंहनादं नदति-कुर्वति अप्येककाः सर्वाणि-पीनत्वादीनि क्रमेण कुर्वति, अप्येकका हयहेषितं-हेषारवं कुर्वति।
‘एव'मित्यप्येककाः हस्तिगुलुगुलायितं-गजवद् गर्जिविदघातिरथघनघनायितं-रथवत् चीत्कुर्वति, गुलुगुलुघनघन इत्यनुकरणशब्दौ, अप्येककाः हयहेषितादीनि त्रीण्यपि कुर्वति, अप्येककाः उच्छोलंति-अग्रतोमुखा चपेटां ददति, अप्येककाः पच्छोलंति-ष्टष्ठतोमुखां चपेटां ददति, अप्येककाः त्रिपदी मल्ल इव रङ्गभूमौ त्रिपदी छिंदति, पाददर्दरकं-पादेन भूम्यास्फोटनरूपं कुर्वति, भूमिचपेटां ददति-करेण भूमिमाघ्नति, अप्येककाः महता २ शब्देन रावयति-शब् कुर्वति, एवमुक्तप्रकारेणसंयोगाअपि-द्वित्रिपदमेलकाअपिविभाषितव्याः-भणितव्याः, कोऽर्थः . केचित् उच्छोलनादिद्विकमपि कुर्वति, तथा केचित् त्रिकं चतुष्कंपञ्चकंषट्कंचकुर्वति, अप्येककाः इक्कारयति-हक्कां ददति एवं पूत्कुर्वति यक्कारयति-थक्कथक्कमित्येवं शब्दं कुर्वति अवपतति-नीचैः पतति उत्पतति-ऊर्वीभवति तथा परिपतति-तिर्यग्निपतति ज्वलतिज्वालारूपा भवति भास्वराग्नितां प्रतिपद्यंत इत्यर्थः, तपति-मंदाङ्गाररूपतां प्रतिपद्यते,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org