________________
वक्षस्कारः-५
४१५
प्रविभक्ति, कोऽर्थः?-तथा नाम तेनटा नृत्यतियथा ककाराकारोऽभिव्यज्यते एवंखकारगकारघकारङकारप्रविभक्त्यो वाच्याः, एतच्च कवर्गप्रविभक्तिकं नाटयं, यद्यपि लिपीनां वैचित्र्येण ककराद्याकारवैचित्र्यात्प्रस्तुतनाटयस्याप्यनैयत्यप्रसङ्गस्तथापि कवर्गीयजातीयत्वेन विशेषणान्नात्र दोषः, एवं चकारप्रविभक्तिजातीयमितियादिबोध्यं, अथवा ककारशब्दोदघट्टनेन चचपुटचाचपुटादौ कंकांकिकीं इथ्यादिवाचिकाभिनयस्य प्रवृत्या नाटयंककारप्रविभक्ति, एवं कादिङांतानां शब्दानामादातृत्वेन ककारखकारगकारघकारङकारप्रविभक्तिकं नाट्यं, एवं चवर्गप्रविभक्तयादिष्वपि वाच्यं १५, अथ षोडशंचछजझञप्रविभक्तिकं १६,अथसप्तदशं-टठडढणप्रविभक्ति १७, अथाष्टादशं-तथदधनप्रविभक्तिकं १८, अथैकोनविंशतितमं-पफवभमप्रविभक्तिकं १९
अथ विंशतितमं-अशोकाम्रकम्बूकोसम्बपल्लवप्रविभक्तिकं अशोकादयो-वृक्षविशेषास्तेषांपल्लवा-नवकिसलयानिततस्ते यथा मंदमारुतेरितानृत्यतितदभिनयात्मकंपल्लवप्रविभक्तिकं नामनाट्यं २०, अथैकविंशतितमं-पद्मनागाशोकचम्पकचूतवनवासन्तीकुंदातिमुक्तकश्यामलताप्रविभक्तिकं लताप्रविभक्तिकं नाम नाट्यं, इह येषां वनस्पति- कायिकानां स्कंधप्रदेशविवक्षितोर्ध्वगतैकशाखाव्यतिरेकेणांयत् शाखांतरंपरिस्थूरंननिर्गच्छतितेलता विज्ञेयास्ते च पद्मादय इति पद्मलतादिपदानामर्थ प्राग्वत्, एता यथा मारुतेरिता नृत्यन्ति तदभिनयात्मकं लताप्रविभक्तिकनाम नाटयं २१, अथ द्वाविंशतितमं-द्रुतनामं नाट्यं २२, __अथ त्रयोविंशतितम-विलम्बितनाम नाट्यं, यत्र विलम्बिते-गीतश्दे, स्वरघोलनाप्रकारेण यतिभेदेन विश्रांते तथैव वाद्यशब्देऽपि यतितारूपेण वाद्यमाने तदनुयायिना पादसञ्चारेण नर्तनं तद्विलम्बितंनाम नाटयं २३, अथ चतुर्विंशतितमंद्रुतविलम्बितंनाम नाटयं यथोक्तप्रकारद्वयेन नर्तनं २४। अथपञ्चविंशतितमं-अञ्चितंनाट्यं, अञ्चितः-पुष्पाद्यलङ्कारैः पूजितस्तदीयंतदभिनयपूर्वकं नाटयमप्यञ्चितमुच्यते, अनेन कौशिकीवृत्तिप्रधानाहाय्याभिनयपूर्वकं नाट्यं सूचितं २५, अथ सप्तविंशतितमं अञ्चितरिभितं नाम नाट्यं यत्रानंतरोक्तमभिनयद्वयमवतरति तत् २७, अथाष्टाविंशतितममारभटनामनाट्यं, आरभटाः-सोत्साहाः सुभटास्तेषामिदमारभटं,अयमर्थःमहाभटानांस्कंधास्फालनहदयोल्वणनादिका या उद्धतवृत्तिस्तदभिनयमिति, अनेनारभटीवृत्तिप्रधानमाङ्गिकाभिनयपूर्वकं नाट्यमुक्तं ३८ ।
अथैकोनत्रिंशं भसोलं नाम नाट्यं, 'भस भर्त्सनदीप्तयो'रित्यस्य ह्वादिगणस्थस्य धातोर्बभस्ति-दीप्यते इति अचि प्रत्यये भसः शृङ्गारः पङ्किरथंयायेन शृङ्गाररस इत्यर्थः तं अवतीति भसोस्तंरतिभावाभिनयनेन लाति-गृह्णातीति भसोलो-नटस्ततो धर्मधर्मिणोरभेदोपचारात्भसोलं नाम नाट्यं, एतेन शृङ्गाररससात्विकभावः सूचितः, इदं च सर्वं व्याख्यानमुपलक्षणपरं ज्ञेयं, तेनात्र सर्वे सात्विका भावा अभिनयविषयीकार्या, एतेन सात्वतीवृत्तिप्रधानं सात्विकाभिनयगर्भितंभसोलं नाम नाट्यं २९, अथ त्रिंशत्तममारभटभसोलं नाम नाट्यं, इदं चानंतरोक्ताभिनयद्वयप्रधानं ज्ञेयं ३०, अथैकत्रिंशत्तमं उत्पातनिपातप्रवृत्तं संकुचितप्रसारितं रेचकरेचितं भ्रांतसंभ्रांतं नाम नाट्यं, उत्पातो-हस्पादादीनामभिनयगत्योर्ध्वक्षेपणंतेषामेवाधःक्षेपणं निपातस्ताभ्यां यत्प्रवृत्तं प्रवृत्तिमज्जातमित्यर्थः एवंहस्तपादयोरङ्गाहारार्थं संकोचनेन संकुचितंप्रसारणेन च प्रसारितं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org