SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ५/२४० कमावलिप्रविभक्तिना मं, तत्र चंद्राणामावलि - श्रेणिस्तस्याः प्रविभक्तिविच्छित्ती रचनाविशेषस्तदभिनयात्मकं, एवं सूर्यावलिप्रविभक्त्यभिनयात्मकं, तथा वलयादिरनांतेषु पदेषु आवलिशब्दो योज्यस्तेन वलयावलिप्रविभक्त्यादि, अयमर्थः - पङ्क्तिस्थितानां रजतस्थालहस्तानां भ्रमीपरायणानां नटानां नाटयं, एवं वलयहस्तानां वलयनाट्यं, एवं वर्त्तुलकहस्तगतानां तारावलिनाटयं, अनयैव युक्त्या तत्सध्शवस्तुदर्शनेन अचिंत्यत्वाद्वा वैक्रियशक्तेस्तद्वस्तुदर्शनेन तत्तदभिनयकरणं तत्तन्नामकं नाट्यं ज्ञेयं, एतच्चावलिकावद्धमित्यावलिकाप्रविभक्ति - रचना तदभिनयगर्भं यथा उदये सूर्यचंद्रयोर्मण्डलमरुणं प्राच्यां चारुणः प्रकाशस्तथा यत्राभिनीयते तदुदगमनप्रविभक्तिः ६, अथ सप्तमं - चंद्रसूर्यागमनप्रविभक्ति चंद्रस्य सविमानस्यागमनं - आकाशादवतरमं तस्य प्रविभक्तिर्यत्र नाव्येऽभिनयेन दर्शनं, एवं सूर्यागमनप्रविभक्ति ७ । अथाष्टमं - चंद्रसूर्यावरणप्रविभक्तियुक्तभावरणप्रविभक्ति, यथा हि चंद्रो घनपटलादिना आव्रियते तथाऽभिनयदर्शनं चंद्रावरप्रविभक्ति, एवं सूर्यावरणप्रविभक्त्यपि ८, अथ नवमंचंद्रसूर्यास्तमयनप्रविभक्तियुक्तमस्तमयनप्रविभक्ति यत्र सर्वतः संध्यारागप्रसरणतमः प्रसरण - कुमुदसङ्कोचादिनां चंद्रास्तमयनमभिनीयते तच्चंद्रास्तमयनप्रविभक्ति, एवं सूर्यास्तमयनप्रविभक्त्यपि, नवरं कमलसङ्कोचोऽत्र वक्तव्यः ९, अथ दशमं - चंद्रसूर्यनागयक्षभूतराक्षसगंधर्वमहोरगमण्डलप्रविभक्तियुक्तं मण्डलप्रविभक्ति, तथा बहूनां चंद्राणां मण्डलाकारेणचक्रवालरूपेण निदर्शनं चंद्रमण्डलयोश्चंद्रावलिसूर्यावलिनाटयतो भेदो दर्शितस्तयोरावलिकाप्रविष्टत्वात् १० । अथैकादशं - ऋषभसिंहललितहयगजविलसितमत्तहयगजिलसिताभिनयरूपं द्रुतविलम्बितं नाम नाट्यं, तत्र ऋषभसिंहौ प्रतीतौ तयोर्ललितं-सलीलगति तथा हयगजयोविलसितं - मंथरगति, एतेन विलम्बितगतिरुक्ता उत्तरत्र मत्तपदविशेषणेन द्रुतगतेर्वक्ष्यमाणत्वात्, तथा मत्तहयगज- योर्विलसितं - द्रुतगति तदभिनयरूपं गतिप्रधानं द्रुतविलम्बितं नाम नाट्यं ११, अथ द्वादशं - शकटोद्धिसागरनागरप्रविभक्ति, शकटोद्धि-प्रतीता तस्याः प्रविभक्तितदाकारतया हस्त- योर्विधानं, एतत्तु नाटये प्रलम्बितभुजयोर्योजने प्रणामाद्यभिनये भवतीति, तथा सागरस्य-समुद्रस्य सर्वतः कल्लोकप्रसरणवडवानलज्वालादर्शनतिमिङ्गिलादिमत्स्यविवर्त्तनगम्भीरगर्जिताद्यभिनयनं सागरप्रविभक्ति, तथा नागराणां - नगरवासिलोकानां सविवेकनेपथ्यकरणं क्रीडासञ्चरणं वचनचातुरीदर्शनमित्याद्यभिनयो नागरप्रविभक्ति तन्नामकं नाट्यं १२ । ४१४ अथ त्रयोदशं - नंदाचम्पाप्रविभक्तिनाम नाटयं, नंदा-नंदाभिधानाः शाश्वत्यः पुष्करिण्यस्तासु देवानां जलक्रीडाजलजकुसुमावचयनमंतरणमाप्लवनमित्याद्यभिनयनं नंदाप्रविभक्ति तथा चम्पानाम महाराजधानी उपलक्षणं चैतत् तेन कोशलाविशालादिराजधानीपरिग्रहः तासांच परिखासौधप्रासादचतुष्पदाद्यभिनयनं चम्पाप्रविभक्ति १३, अथ चतुर्दशंमत्स्याण्डकमकराण्डकजारमारप्रविभ्कितनाम नाटयं, एतत्तु पूर्वं व्याख्यातमेव, अत्रैषां चतुर्णामभिनयनं पृथगुक्तं तत्र तु व्यामिश्रितमिति भेदः १४ । अथ पञ्चदशं - कखगघङइति कवर्गप्रविभक्तिकं तत्र ककाराकारेणाभिनयदर्शनं ककार For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003317
Book TitleAgam Suttani Satikam Part 13 Jambudwip pragnapati
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages564
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, & agam_jambudwipapragnapti
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy