________________
४०६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२३६ बोध्यः-'चमरचञ्चारायहाणीवत्थव्वेहिं बहूहि असुरकुमारेहिंदेवेहिअ देवीहिअत्ति, यथा शक्रस्तथाऽयमप्यवगम्यः, नवरमिदंनानात्वं-भेदः, द्रुम-पदात्यनीकाधिपतिओघस्वराघंटा यानविमानं पञ्चाशयोजनसहस्राणि विस्तारायामं महेंद्रध्वजः पञ्चयोजनशतायुच्चःविमानकृदाभियोगिको देवोन पुनर्वैमानिकेंद्राणां पालकादिरिव नियतनामकः अवशिष्टं तदेव-शक्राधिकारोक्तं वाच्यं नवरं दक्षिणपश्चिमो रतिकरपर्वतः, कियह्रमित्याह-यावंमंदरे समवसरति पर्युपास्त इति । ___अथबलींद्रः-“तेणंकालेण मित्यादि, तस्मिन् काले तस्मिन् समयेबलिरसुरेंद्रोऽसुरराजा एवमेवेति-चमर इव नवरं षष्टि सामानिकसहस्रणि चतुर्गुणा आत्मरक्षाः, सामानिकसंख्यातश्चतुर्गुणसंख्याङ्काःआत्मरकक्षका इत्यर्थः, महाद्रुमः पदात्यनीकाधिपतिमहीधस्वराघंटा 'व्यारव्यातोऽधिकं प्रतिपद्यत' इति चमरचञ्चास्थाने बलिचञ्चा दाक्षिणात्यो निर्माणमार्ग उत्तरपश्चिमो रतिक-रपर्वत इति,शेषं-यानविमानविस्तारादिकंतदेव-चमरचञ्चाधिकारोक्तमेव, पर्षदो यथा जीवाभिगमे, इदं च सूत्रं देहलीप्रदीपंयायेन सम्बंधनीयं, यथा देहलीस्थो दीपोऽतःस्थदेहलीस्थबाह्यस्थवस्तुप्रकाशनोपयोगीतथेदमप्युक्तेचमराधिकारे उच्यमानेबलीद्राधिकारे वक्ष्यमाणेष्वष्टसु भवनपतिषूपयोगी भवति, त्रिष्वप्यधिकारेषु पर्षदो वाच्या इत्यर्थः, तथाहि
चमरस्याभ्यंतरिकायांपर्षदि २४ सहस्राणिदेवानांमध्यमायां२८ सहस्राणि बाह्यायांच ३२ सहस्राणि, तथा बलींद्रस्याभ्यंतरिकायांपर्षदि २४ सहस्राणिदेवानांमध्यमायां२८ सहस्राणि बाह्यायां च ३२ सहस्राणि, तथा बलींद्रस्याभ्यंतरिकायां पर्षदि २० सहस्राणि मध्यमायां २४ सहस्राणि बाह्यायां२८ सहस्राणि, तथा धरमेंद्रस्याभ्यंतरिकायांपर्षदि६० सहस्राणि मध्यमायां ७० सहस्राणि, अवशिष्टानांभवनवासिषोडशेंद्राणांमध्ये ये वेणुदेवादयो दक्षिणश्रेणिपतयस्तेषां पर्षत्रयं धरणेंद्रस्येव उत्तरश्रेण्यधिपानां वेणुदालिप्रमुखाणां भूतानंदस्येव ज्ञेयम् । ___अथधरणः 'तेणं कालेण' मित्यादि, तस्मिन् काले तस्मिन् समयेधरणस्तथैव-चमरवत् नवरमिदं नानात्वं-भेदः षट् सामानिकसहस्राणां षडग्रमहिष्यः चतुर्गुणा आत्मरक्षकः मेघस्वरा घंटा भद्रसेनः पदात्यनीकाधिपति विमानं पञ्चविंशतियोजनसहस्रणि महेंद्रध्वजोऽर्द्धतृतीयानि योजनशतानि, अथावशिष्टभवनवासींद्रवक्तव्यतामस्यातिदेशेनाह-“एवमसुरिंद'इत्यादि, एवं-धरणेद्रयायेनासुरेंद्रौ-चमरबलींद्रौ ताभ्यांवर्जितानां भवनवासींद्राणां भूतानंदादीनांवक्तव्यं बोध्यं, नवरं असुराणां-असुरकुमाराणां ओघस्वराघंटा नागानां नागकुमाराणां मेघस्वराघंटा सुपर्णानां-गरुडकुरामाणां हंसस्वरा विद्युत्कुमाराणां क्रौञ्चस्वरा अग्निकुमाराणां मंजुस्वरा दिक्कुमाराणांमंजुघोषा उदधिकुमाराणांसुस्वरा द्वीपकुमाराणांमधुरस्वरा वायुकुमाराणां नदिस्वरा स्तनितकुमाराणां नंदिघोषा। मू. (२३७) चउसट्ठी सट्ठी खलु छच्च सहस्सा उ असुरवजाणं।
सामानिआ उ एए चउग्गुणा आयरक्खा उ॥ वृ. एषामेवोक्तानुक्ससामानिकसंग्रहार्थं गाथामाह-चतुष्पष्टिश्चमरेंद्रस्य षष्टिर्बलींद्रस्य खलुर्निश्चये षट् च सहस्राणि असुरवर्जानां धरणेंद्रादीनामष्टादशभवनवासींद्राणां सामानिकाः चः समुच्चये तथा पुनरर्थे भित्रक्रमे तेनैते सामानिकाः चतुर्गुणाः पुनरात्मरक्षका भवति।
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org