________________
३९६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२२७ . योजनीयः,अथघंटानादतो यत्प्रवृत्तं तदाह-'ततो' घंटानांकणकणारावप्रवृत्तेरनन्तरंसौधर्मः कल्पः प्रासादानां विमानानां वा ये निष्कुटा-गम्भीरप्रदेशास्तेषु ये आपतिताः-सम्प्राप्ताः शब्दाः-शब्दवर्गणापुदग-लास्तेभ्यः समुत्थितानि यानि घंटाप्रतिश्रुतां-घंटासम्बन्धिप्रतिशब्दानां शतसहस्राणि तैः संकुलो जातश्चाप्यभूत,-घंटायां महता प्रयलेन ताडितायां ये विनिर्गताः शब्दपुद्गला-स्तप्रतिघातवशतःसर्वासुदिक्षु विदिक्षुच दिव्यानुभावतः समुच्छलितैः प्रतिशब्दैः सकलोऽपि सौधर्माः कल्पोबधिर उपजायतइति, एतेन द्वादशयोजनेभ्यःसमागतःशब्दः श्रोत्रग्राह्यो भवति न परतः ततः कथमेकत्र ताडितायां घंटायां सर्वत्र तच्छब्दश्रुतिरुपजायत इति यदुच्यते तदपा-कृतमवसेयं, सर्वत्र दिव्यानुभावतस्तथारूपप्रतिरूपशब्दोच्छलने यथोक्तदोषासम्भवात्, एवं शब्दमये सौधर्मे कल्पे साते पदातिपतिर्यदकरोत् तदाह-'तए णमित्यादि, ततः-शब्दव्याप्तयनन्तरं तेषां सौधर्मकल्पासिनांबहूनां वैमानिकानां देवानां देवीनांचएकान्तेन रतौ-रमणे प्रसक्ता-आसक्ता अत एव नित्यप्रमत्ता विषयसुखेषु मूर्छिता-अध्युपपन्नास्ततः पदत्रयस्य पदद्वय २ मीलनेन कर्मधारयस्तेषांसुस्वरायापंक्तिरथन्या-येन सुघोषा घंटा तस्याः रसितंतस्माद् विपुलः-सकलसौधर्मदेवलोककुक्षिम्भरिॉबोलः-कोलाह-लस्तेन, अत्रतृतीयालोपः प्राकृतत्वात, त्वरितं-शीघ्रं चपले-असम्भ्रमेप्रतिबोधने कृते सतिआमिकालसम्भाव्यमाने घोषणे कुतूहलेन-किमिदानीमुदघोषणं भविष्यतीत्यात्मकेन दत्तौ की यैस्ते तथा, एकाग्रं-घोषणश्रवणैकविषयं चित्तं येषां ते तथा, एकाग्रचित्तत्वेऽपि कदाचिन्नोपयोगः स्याच्छाग्रस्थ्यवशादत आह-उपयुक्तमानसाः-शुश्रूषितवस्तुग्रहणपटुमनसस्ततो विशेषणसमास- स्तेषां स पदात्यनीकाधिपतिर्देवस्तस्मिनघंटारवे नितरांशान्तः-अत्यन्तमन्दभूतः ततःप्रकर्षण-सर्वात्मना शान्तः प्रशान्तः ततश्छिन्नप्ररूढ इत्यादाविव विशेषणसमासस्तस्मिन् सति, तत्र तत्र- महति देशे तस्मिन् २-देशैकदेशे महता २ शब्देन-तारतारस्वरेण उदघोषयन् २ एवमवादीत
हंतसुण मित्यादि, हन्त! इतिहर्षे सच स्वस्वस्वामिनाऽऽदिष्टत्वात् जगदुरुजन्ममहकरणार्थकप्रस्थानसमारम्भाच, श्रृण्वन्तुभवन्तो बहवः सौधमकल्पवासिनोवैमानिकादेवादेव्यश्च सौधर्मकल्पपतेरिदं वचनंहितं-जन्मान्तरकल्याणावहं सुखं तद्भवसम्बन्धितदर्थमाज्ञापयति, भोदेवाः! शक्रःतदेव ज्ञेयं, याक्सूत्रेशक्रेणहरिनैगमेषिपुर उदघोषयितव्यमादिष्टंयावप्रादुर्भवत
__ अथशक्रादेशानन्तरंयद्देवविधेयंतदाह-ततस्ते देवा देव्यश्च एनअनन्तरोदितमर्थं श्रुत्वा हृष्टतुष्टयावद् हर्षवसविसर्पदहदयाः अपि सम्भावनायामेककाः-केचन वन्दनं-अभिवादनं प्रशस्तकायवाङ्मनःप्रवृत्तिरूपं तत्प्रत्ययं तदस्माभिस्त्रभुवनभट्टारकस्य कर्तव्यमित्येवंनिमित्तं एवं पूजनप्रत्ययं पूजन-गन्धाल्यादिभिःसमभ्यर्चनंएवं 'सत्कारप्रत्ययं सत्कारः-स्तुत्यादिभिर्गुणोत्रतिकरणंसन्मानो-मानसप्रीतिविशेषस्तत्प्रत्ययं दर्शनं-अष्टपूर्वस्य जिनस्य विलोकनंतप्रत्ययं कुतूहलं-तत्र गतेनास्मतप्रभुणा किंकर्तव्यमित्यात्मकंतप्रत्ययं, अप्येककाः शक्रस्य वचनमनुवर्तमानाः नहिप्रभुवचनमुपेक्षणीयमितिभृत्यधर्ममनुश्रयन्तःअप्येककाः अन्यमन्यमित्रमनुवर्तमाना मित्रगमनानुप्रवृत्ता इत्यर्थः अप्येकका जीतमेतद् यत्सम्यग्दृष्टिदेवैर्जिनजन्ममहे यतनीयं, 'एवमादी'त्यादिकमागमननिमित्तमितिकृत्वा-चित्तेऽवधार्ययावच्छब्दात् 'अकालपरिहीणंचेवसक्कस्स देविंदस्स देवरन्नो' 'इति ग्राह्यं, अन्तिकं प्रादुर्भवन्ति, अथ शक्रस्येतिकर्तव्यमाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org