________________
वक्षस्कारः-५
३९५
रूवगसहस्सकलिअंभिसमाणंचक्खुल्लोअणलेसंसुहफासंसस्सिरीअलवंघंटावलिअमहुरमणहरसरं सुहं कंतं दरिसणिज्जं निउणोविअमिसिमिसिसिंतमणियणघंटिआजालपरिक्खित्तं जोयणसहस्सवच्छिण्णं पञ्चजोअणसयमुविद्धं सिग्धं तुरिअंजइणनिव्वाहि दिव्वं जाणविमाणं विउब्वाहि २ त्ता एअमाणत्ति पञ्चप्पिणाहि ।
वृ. तेणं कालेण'मित्यादि, तस्मिन् काले तस्मिन् समये इत्यत्र समयो दिक्कुमारीकृत्यानन्तरीयत्वेन विशेषणीयः शक्रो नाम सौधर्माधिपतिरित्यादिव्याख्यानंकल्पसूत्रटीकादौ प्रसिद्धात्वात्रात्र लिख्यते, अथ वन्दननमस्करणानन्तरं शक्रस्य सिंहासनोपवेशने यदभूत्तदाह
___ 'ततः' सिंहासनोपवेशनानन्तरंतस्य शक्रस्य देवेन्द्रस्य देवराज्ञःअयमेताशो यावत्सङ्कल्पः समुदपद्यत, कोऽसावित्याह-उत्पन्नः खलु भो! जंबूद्वीपे द्वीपे भगवांस्तीर्थकरः तस्माजीतमेतदतीतप्रत्युत्पन्नानागतानांशक्राणांदेवेन्द्राणां देवराज्ञांतीर्थक-राणांजन्ममहिमां कतुतद्गच्छामि णमिति प्राग्वत् अहमपि भगवतस्तीर्थकरस्य जन्ममहिमांकरोमीतिकृत्वा-इतिहेतुमदभाव्यैवंवक्ष्यमाणं सम्प्रेक्षतेसम्प्रेक्षयच हरेः-इन्द्रस्य निगम-आदेश-मिच्छतीति हरिनिगमेषीतं अथवा इन्द्रस्य नैगमेषी नामा देवस्तं पदात्यनीकाधिपतिं देवं शब्दयति शब्दयित्वा चैवमवादीत्, किमवादीदित्याह-क्षिप्रमेव भोदेवानुप्रिया! सभायां सुधर्मायां मेघानामोघः-संघातो मेघौघस्तस्य रसितं-गर्जितं तद्वद् गम्भीरो मधुरतरश्च शब्दो यस्याः सा तथा तां योजनप्रमाणं परिमण्डलंभावप्रधानत्वान्निर्देशस्य पारिमाण्डल्यं-वृत्तत्वं यस्याः सा तथा तां शब्दो यस्याः सा तथा तां सुघोषांनाम सुस्वरांघंटांत्रिकृत्वः-त्रीन्वारान् उल्लालयन् २-ताडयन् २ महता २ शब्देनोदघोषयन् २ एवं वद-आज्ञापयति भो देवाः! शक्रो देवेन्द्रो देवराजा, किमित्याह
गच्छति भोः! शक्रो देवेन्द्रो देवराजाजंबूद्वीपेद्वीपे भगवतस्तीर्थकरस्य जन्ममहिमां कर्तु, सामान्यतोजिनवर्णके प्रक्रान्तेऽपि यजम्बूद्वीपनामग्रहणंतजम्बूद्वीपप्रज्ञप्तयधिकारात्, तद्यूयमपि देवानुप्रियाः! सर्वद्धर्यासर्वद्युत्यासम्वबलेन सर्वसमुदायेन सर्वादरेण सर्वविभूषया सर्वदिव्यत्रुटितशब्दसन्निनादेन महत्या ऋद्धया यावद्रवेण अत्राव्याख्यातपदानि यावत्पदसंग्राह्यं च प्राग्वत् निजकपरिवासरम्परिवृताः स्वकानि स्वकानि यानविमानानि प्राग्वत् वाहनानि-शिबिकादीन्यारूढाः सन्तोऽकालपरिहीणं-निर्विलम्बयथा स्यात्तथा चैवोऽवधारणेशक्रस्ययावत्करणात् देवेन्द्रस्य देवराज्ञःइतिपदद्वयंग्रह्यंअन्तिकं समीपंप्रादुर्भवत,अथस्वाभ्यादेशानन्तरंहरिणेगमेषीयदकरोत्तदाह___'तए णं से हरिणेगमेसी'इत्यादि, ततः स हरिणेगमेषी देवः पदात्यनीकाधिपति शक्रेण देवेन्द्रेण देवराज्ञाएवमुक्तः सन् हृष्टइत्यादियावदेवं देवइति आज्ञया विनयेन वचनंप्रतिशृणोति प्रतिश्रुत्य च शक्रान्तिकात्प्रतिनिष्कामति प्रतिनिष्फम्यच यत्रैवसभायांसुधर्मायां मेघौघरसितगम्भीरमधुरतरशब्दा योजनपरिमण्डला सुघोषा घंटा तत्रैवोपाच्छति उपागत्य च तां मेघौघरसितगम्भीरमधुरतरशब्दांयोजनपरिमण्डलासुघोषांघंटांत्रिकृत्वउल्लालयतीति, उल्लालनान्तरंयदजायततदाह
'तएणंतीसे मेघोघरसिअगम्भीरमुहरयर' इत्यादि, ततः-उल्लालनानन्तरंतस्यां मेघौघरसितगम्भीरमधुरतरशब्दायां योजनपरिमण्डलायां सुघोषायां घंटायां त्रिकृत्व उल्लालितायां सत्यां सौधर्मे अल्पेअन्येषुएकोनेषुद्वात्रिंशतविमानरूपा येआवासा-देववासस्थानानि तेषां शतसहस्रेषु, अत्र सप्तम्यर्थे तृतीया, अन्यान्येकोनानि द्वात्रिंशद् घंटाशतसहस्राणि यमकसमकं-युगपत् कणकणारावं कर्तुं प्रवृत्तान्यप्यभवन्, अत्रापिशब्दो भित्रक्रमत्वात् घंटाशतसहस्राण्यपि इत्येवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org