________________
३९२
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ५/२२६ तैलमभ्यंजयंतीत्यर्थः, अभ्यङ्गयित्वा च सुरभिणा गंधवर्तकेन गंधद्रव्याणां-उत्पलकुष्ठादीनामुद्वर्तकेन-चूर्णपिण्डेन गंधयुक्तगोधूमचूर्णपिण्डेन वा उद्वर्तयन्तिप्रक्षिततैलापनयनं कुर्वन्ति उद्वर्त्यच भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरंच बाह्वोर्गृह्णन्ति गृहीत्वा च यत्रैव पौरस्त्यं कदलीगृहं यत्रैव चतुःशालं यत्रैव च सिंहासनं तत्रैवोपागच्छंति उपागत्य च भगवन्तं तीर्थकरं तीर्थकरमातरंच सिंहासने निषादयन्तिनिषाद्य च त्रिभिरुदकैर्मजयंति-स्नपयंति, तान्येव त्राणि दर्शयति- 'तद्यथे' त्यादिना, गंधोदकेन-कुंकुमादिमिश्रितेन पुष्पोदकेन-जात्यादिमिश्रितेन शुद्धोदकेन-केवलोदकेन, मज्जयित्वा सर्वालङ्कारविभूषितौ कुर्वन्ति, मातृपुत्राविति शेषः, कृत्वा चभगवन्तं तीर्थकरंकरतलपुटेन तीर्थकरमातरंच बाहाभिर्गृह्णन्ति गृहीत्वाच यत्रैवोत्तराहंकदलीगृहं यत्रैवचचतुःशालकंयत्रैवचसिंहासनंतत्रैवउपागछंति उपागत्यचभगवन्ततीर्थकरंतीर्थकरमातरं च सिंहासने निषादयन्ति निषाद्य च आभियोगान् देवान् शब्दयन्ति शब्दयित्वा च एवमावादिषुः-क्षिप्रमेव भोदेवानुप्रियाः! क्षुद्रहिमवतोवर्षधरपर्वताद्गोशीर्षचन्दनकाष्ठानि संहरतसमानयत, ततस्तेआभियोगादेवास्ताभी रुचकमध्यवास्तव्याभिश्चतसृभिर्दिकुमारीमहत्तरिकाभिरेवं-अनन्तरोक्तमुक्ताः-आज्ञप्ताः सन्तः हृष्टतुष्ट इत्यादि यावद् विनयेन वचनं प्रतीच्छंतिअङ्गीकुर्वन्ति प्रतीष्यच क्षिप्रमेव क्षुद्रहिमवतोवर्षधरपर्वतात्सरसानिगोशीर्षचन्दनकाष्ठानि संहरन्ति।
ततस्तेमध्यरुचकवास्तव्याश्चतम्रो दिक्कुमारीमहत्तरिकाःशरकं-शरप्रतिकृति-तीक्ष्णमुखमग्न्युत्पादकं काष्ठविशेषं कुर्वन्ति, कृत्वा च तेनैव शरकेन सह अरणिं-लोकप्रसिद्धं काष्ठविशेषं घटयन्ति-संयोजयन्ति, घटयित्वाच शरकेनाग्निमध्नन्ति,मथित्वाचअग्निपातयन्ति, पातयित्वा चअग्निसन्धुक्षन्ति-सन्दीपयन्ति, सन्धुक्ष्यच गोशीर्षचन्दनकाष्ठानिप्रस्तावात्खण्डशः कृतानीति बोध्यं याशैश्चन्दनकाष्ठेरग्निरुद्दीपितः स्यात् ताशानीतिभावः, प्रक्षिपन्ति, प्रक्षिप्य पूर्वोहि काष्ठप्रक्षेपोऽग्न्युद्दीपनाय अयंच रक्षाकरणायेति विशेषः, प्रक्षिप्य च अग्निहोमं कुर्वन्ति,
कृत्वाचभूतेः-भस्मनः कर्म-क्रिया तां कुर्वन्ति, येन प्रयोगेणेन्धनानि भस्मरूपाणिभवन्ति तथा कुर्वन्तीत्यर्थः, कृत्वा च जिनजनन्योः शाकिन्यादिदुष्टदेवताभ्यो द्दगदोषादिभ्यश्च रक्षाकरी पोट्टलिकांबजन्ति, बध्ध्वाच नानामणिरत्नानां भक्ती-रचनातया विचित्रौ द्वौपाषाणवृत्तगोलको पाषाणगोलकावित्यर्त गृह्णन्ति गृहीत्वा च भगवतस्तीर्थकरस्य कर्णमूले टिट्टिआवेतीत्यनुकरणशम्दोऽयं तेन टिट्टिआति-परस्परं ताडनेन टिट्टीतिशब्दोत्पादनपूर्वकं वादयन्तीत्यर्थः।
अनेन हि बाललीलावशादन्यत्र व्यासक्तंभगवन्तंवक्ष्यमाणाशीर्वचनश्रवणेपटुंकुर्वन्तीति भावः, तथाकृत्वाच भवतु भगवान्पर्वतायुः २ इत्याशीर्वचनंददतीति, ततः-उक्तसकलकार्यकरणानन्तरं ता रुचकमध्यवास्तव्याश्रतम्रो दिक्कुमारीमहत्तरिका भगवन्तं तीर्थकरं करतलपुटेन तीर्थकरमातरंचबाहाभिर्गृह्णन्ति गृहीत्वाच यत्रैव भगवतस्तीर्थकरस्य जन्मभवनंतत्रैवोपागच्छंति उपागत्यचतीर्थकरमातरंशय्यायांनिषादयन्तिनिषाद्यच भगवन्तं तीर्थकरंमातुः पार्वेस्थापयन्ति, स्थापयित्वा च नातिदूरासन्नगा आगायन्त्यः परिगायन्त्यस्तिष्ठन्ति, एतासांच मध्येऽष्टावधोलोकवासिन्यो गजदन्तगिरिणामधोभवनवासिन्यः, यत्वेतदधिकारसूत्रे 'सएहिं २ कूडेहि' इति पदं तदपरसकलदिक्कुमार्यधिकारसूत्रपाठसंरक्षणार्थ, साधारणसूत्रपाठे हि यथासम्भवं विधिनिषेधौ समाश्रयणीयाविति, ऊर्ध्वलोकवासिन्योऽष्टौ नन्दनवने योजनपञ्चशतिककूटवासिन्यः अन्याश्च
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org