________________
३६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् १/६ विशिष्टश्यामतोपचितः प्रदेशः जम्बूफलं-प्रतीतं आरिष्ठः-कोमलकाकः परपुष्टः-कोकिलः गजो गजकलभश्च प्रसिद्ध कृष्णसर्प-कृष्णवर्ण सर्पजातिविशेषः कृष्णकेसरः-कृष्णबकुलः 'आकाशथिग्गलं' शरदि मेघमुक्तमाकाशखण्डं, तद्धि कृष्णमतीव प्रतिभातीति तदुपादानं, कृष्णाशोककृष्णकणवीरकृष्णबन्धुजीवाः अशोककणवीरबन्धुजीववृक्षभेदाः, अशोकादयो हि पञ्चवर्णा भवन्ति ततः शेषव्युदासार्थं कृष्णग्रहणं, एतावत्युक्ते भगवन्तं गौतमः पृच्छति-'भवे एयारूवे' इति भवेत् मणीनां तृणानां च कृष्णो वर्ण एतद्रूपो-जीमूतादिरूपः, काकुपाठाचास्य प्रश्नसूत्रता वेदितव्या, भगवानाह-गौतम! नायमर्थ समर्थः-नायमर्थ उपपन्नो, यदुत-एवंभूतः कृष्णो वर्णो मणीनां तृणानां च, किन्तु ते किन्तु ते कृष्णा मणयस्तृणानि च इतो-जीमूतादेः सकाशादिष्टतरका एव-कृष्णेन वर्णेन ईप्सिततरका एव, तत्र किञ्चिदकान्तमपिकेषाञ्चिदिष्टतरं भवतिततोऽकान्तताव्य-वच्छित्यर्थमाह-कान्ततरका एव-अतिस्निग्धमनोहारिकालिमोपचितया जीमूतादेः कमनीयतरका एव, अत एव मनोज्ञतरका-मनसा ज्ञायन्ते अनुकूलतया स्वप्रवृत्तिविषयीक्रियन्ते इति मनोज्ञा- मनोऽनुकूलाः ततः प्रकर्षविवक्षायां तपप्रत्ययः, तत्र मनोज्ञमपि किञ्चिन्मध्यमं भवति ततः सर्वोत्कर्षप्रतिपादनार्थमाह-मनआपतरका एव-द्रष्टुणां मनांसि आप्नुवन्ति-आत्मवशतां नयन्तीति मनआपाः ततः प्रकर्षविवक्षायां तरपप्रत्ययः, प्राकृतत्वात् पकारस्य मकारे मणामतरा इति भवति, अथवा कोऽपि शब्दः कस्यापि प्रसिद्धो भवतीति नानादेशजविनेयानुग्रहार्थं एकार्थिका एवैते शब्दा इति।
'तत्थ णं जे ते नीलगा मणी तणा य तेसिणं अयमेयारूवे वण्णावासे पन्नत्ते तंजहा से जहा नामए भिंगेइ वा भिंपत्तेइ वा चासेइ वाचासपिच्छेइ वा सुएइ वा सुअपिच्छेइ वा नीलीइवा नीलीभेएइवानीलीगुलियाइवा सामाएइ वा उच्चंतएइवा वनराईइवाहलधरवसणेइवामोरगीवाइ वा पारेवयगी वाइ वा अयसिकुसुमेइ वा बाणकुसुमेइ वा अंजणकेसियाकुसुमेइ वा नीलुप्पलेइ वा नीलासोएइ वा नीलकणवीरेइ वा नीलबंधुजीवेइ वा, भवे एयासवे !, गोअमा ! नो इणढे समढे तेणं नीला मणी तणा य इत्तो इट्टतरया चेव कंततरया चेव मणुण्णतरया चेव मणामतरया चेव वण्णेणं पन्नत्ते'ति, पदयोजना प्राग्वत्, भृङ्गः-कीटविशेषः पक्ष्मलः भृङ्गपत्रं- तस्यैव कीटविशेषस्य पक्ष्मशुकः-कीरः शुकपिच्छं-शुकस्य पत्रं प्रसिद्धं चापः-पक्षिविशेषः चाषपिच्छं-तस्यैव पिच्छं नीली-प्रसिद्धा नीलीभेदो-नीलीच्छेदः नीलीगुलिका-नीलीगुटिका श्यामाको-धान्यविशेषः, प्रज्ञापनायांतु 'सामा’इति पाठः, तत्रश्यामा-प्रियङ्गु, उच्चंतगो-दन्तरागः वनराजीप्रतीता, हलधरो-बलभद्रः तस्य वसनं, तच्च किल नीलं भवति, सर्वदैव बलो गौरशरीरत्वाच्छोभाकारीति नीलमेव वस्त्र परिधत्ते, मयूरग्रीवापारापतग्रीवाअलसीकुसुमबाणकुसुमानि प्रतीतानि, अञ्जनकेशिका-वनस्पतिविशेषः तस्याः कुसुमं नीलोत्पलं-कुवलयं नीलाशोकनीलकणवीरनीलबन्धुजीवाअशोकादिवक्षविशेषाः, 'भवे एयारूवे' इत्यादि प्राग्वत् व्याख्येयं ।
___'तत्थ णं जे ते लोहिअगा मणी तणा य तेसिणं अयमेयारूवे वण्णावासे पन्नत्ते तं०-से जहानामए ससगरिहुरेइ वा उरमरुहिरेइ वा वराहरुहिरेइ वा मणुस्सरुहिरेइ वा महिसरुहिरेइ वा बालिंदगोवेइ वा बालदिवायरेइ वा संझब्भरागेइ वा गुंजद्धरागेइ वा जायहिंगुलएइ वा सिलप्पवालेइवा पवालंकुरेइ वा लोहिअक्खमणीइ वा लक्खारसेइ वा किमिरागकंबलेइ वा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org