________________
वक्षस्कारः-१
नानाविधा-जातिभेदान्नानाप्रकारा ये पञ्चवर्णा मणयस्तृणानि च तैरुपशोभितः, कथंभूतैमणिभिरित्याह-आवर्तादीनि-मणीनांलक्षणानि, तत्र आवतः प्रतीतः एकस्यावर्त्तस्यप्रत्यभिमुखः आवतः प्रत्यावर्तः श्रेणि तथाविधबिन्दुजातदेः पङ्क्ति तस्याश्च श्रेणेर्या विनिर्गताऽन्या स्त्रीणि सा प्रश्रेणि स्वस्तिकः-प्रतीतः, सौवस्तिकपुष्पमाणवौ च लक्षणविशेषौ लोकात् प्रत्येतव्यौ, वर्द्धमानकं- शरावसंपुटं मत्स्याण्डकमकराण्डके जलचरविशेषाण्डके प्रसिद्धे, 'जारमारे'ति लक्षणविशेषौ सम्यग्मणिलक्षणवेदिनो लोकाद्वेदितव्यौ, पुष्पावलिपद्मपत्रसागरतरङ्गवासन्तीलतापद्मलताः प्रतीताः, तासां भक्त्या-विच्छित्या चित्रं-आलेखो येषु ते तथा, किमुक्तं भवति?आवर्तादिलक्षणोपेतैः तथा सती-शोभना छाया-शोभा येषां ते तथा तैः । _ सप्पभेहिं' इत्यादि विशेषणत्रयं प्राग्वत्, एवंभूतैः नानाविधैः पञ्चवर्णै मणिभिस्तृणैचोपशोभितः, तद्यथेत्युपदर्शने, कृष्णैः-कृष्णवर्णोपेतैः एवं ‘वण्णओ'त्ति एवं' अमुना प्रकारेण शेषोऽपि नीलादिको वर्णो मणितृणविशेषणतया योजनीयो यथा नीलवर्णैर्लोहितवणे हारिद्रवणे शुक्लवर्णैश्चेति, तथा तेषां मणितृणानां गन्धः स्पर्श शब्दश्च नेतव्यः, तथा तस्य वनखण्डस्य भूमिभागे पुष्करिण्यः पर्वतका गृहकाणि मण्डपकाः पृथिवीशिलापट्टकाश्च नेतव्याः-बुद्धिपथं प्रापणीयाः, भवन्ति हि सूत्रकाराणां गतेर्वैचित्र्यादीद्दशानि लाघवार्थकानि एवं जाव तहेव इन्चाइ वण्णओ सेसं जहा' इत्याद्यनेकप्रकारकपदाभिव्यङ्गयानि अतिदेशरूपाणि सूत्राणि, यदाह॥१॥ “कत्थइ देसग्गहणं कत्थइ भण्णंति निरवसेसाई।
उक्कमकमजुत्ताइं कारणवसओ निरुत्ताई।" इति। __ अत्रैतत्सूत्राभिप्रायाभिव्यक्तये जीवाभिगमादिग्रन्थोक्तः कियान् पाठो लिख्यते, 'तत्थ णं जे ते किण्हा मणी तणा य तेसि णं अयमेयारूवे वण्णावासे पन्नत्ते, तं०-से जहानामए जीमूतेइवाअंजणेइवाखंजणेइवा कज्जलेइवामसीइवा मसीगुलियाइवागवलेइवागवलगुलियाइ वा भमरेइ वा भमरावलीइवा भमरपत्तसारेइ वा जंबूफलेइ वा अद्दारिद्वेइ वा परपुढेइ वा गएइवा गयकलभेइ वा किण्हसप्पेइ वा किण्हकेसरेइ वा आगासथिग्गलेइ वा किण्हासोएइ वा किण्हकणवीरेइ वा किण्हबंधुजीवेइ वा, भवे एयारूवे?, गो० नो इणढे समढे, तेणं कण्हामणी तणा य इत्तो इठ्ठतरिया चेव कंततराए चेव मणुण्णतराए चेव मणामतराए चेव वण्णेणं प०
“तत्थ ण'मित्यादि, तत्र-तेषां पञ्चवर्णानां मणीनां तृणानांच मध्ये णमिति प्राग्वत्, येते कृष्णा मणयस्तृणानि च, ये इत्येव सिद्धे येते इतिवचनं भाषाक्रमार्थं, 'तेसिणमित्यादि से जहाणामए' इत्यन्तं च सूत्रं पूर्ववत्, जीमूतो-मेगः, स चेह प्रावृटप्रारम्भसमये जलपूर्णो वेदितव्यः, तस्यैव प्रायोऽतिकालिमसम्भवात्, इतिशब्द उपमाभूतवस्तुनामपरिसमाप्तिद्योकः वाशब्द • उपमानान्तरापेक्षया समुच्चये, एवं सर्वत्र इतिवाशब्दौ द्रष्टव्यौ, अञ्जनं-सौवीराअनंरत्नविशेषो वाखञ्जनं-दीकमल्लिकामलः स्नेहाभ्यक्तशकटाक्षघर्षणोद्भवमित्यपरे कज्जलं-दीपशिखापतितं मषी-तदेव कज्जलं ताम्रभाजनादिषु सामग्रीविशेषेण घोलितं मषीगुलिका-घोलितकज्जलगुटिका गवलं-माहिषुश्रृङ्गं तदपिचापसारितोपरितनत्वग्भागंग्राह्यं, तत्रैव विशिष्टस्य कालिम्रः सम्भवात्
तथातस्यैव माहिषश्रृङ्गस्य निबिडतरसारनिवतिता गुटिका गवलगुटिका भ्रमरः-प्रतीतः भ्रमरावली-भ्रमरपङ्क्ति तथा भ्रमपत्रसारः-भ्रमरस्य पत्रं-पक्षस्तस्य सारः-तदन्तर्गतो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org