________________
वक्षस्कारः - ५
३८१
इत्यनेनाकर्मभूमिषु देवकुर्वादिषु जिनजन्मासम्भव इत्युक्तं भवति, एकैकस्मिन्नित्यत्र वीस्पाकरणेन च सर्वत्रापि कर्मभूमौ जिनजन्मसम्भवश्च यथाकालमभिहित इति, तत्र वादी षट्पञ्चाशतो दिक्कुमारीणामितिकर्त्तव्यता वक्तव्या, तत्राप्यधोलोकवासिनीनामष्टानामिति तासां स्वरूपमाह'तेणं कालेण'मित्यादि, तस्मिन् काले सम्भवज्जिनजन्मके भरतैरावतेषु तृतीयचतुर्थाकलक्षणे महाविदेहेषु चतुर्थारकप्रतिभागलक्षणे, तत्र सर्वदापि तदाद्यसमयसद्दशकालस्य विद्यमानत्वात् तस्मिन् समये - सर्वत्राप्यर्द्धरात्रलक्षणे, तीर्थकराणां हि मध्यरात्र एव जन्मसम्भवात्, अधोलोकवास्तव्याः- चतुर्णां गजदन्तानामधः समभूतलान्नवशतयोजनरूपां तिर्यग्लोकव्यवस्थां विमुच्य प्रतिगजदन्तं द्विद्विभावेन, तत्र भवनेषु वसनशीलाः, यत्तु गजदन्तानां षष्ठपञ्चमकूटेषु पूर्वं गजदन्तसूत्रे आसां वासः प्ररूपितस्तत्र क्रीडार्थमागमनं हेतुरिति, अन्यथा आसामपि चतुःशतयोजनादिपञ्चाशतयोजनपर्यन्तोच्चत्वगजदन्तगिरिगतपञ्चशतिककूटगतप्रासादावतंसकवासित्वेन नन्दन
वनकूटगतमेघङ्करादिदिक्कुमारीणावोर्ध्वलोकवासित्वापत्ति ।
अथ प्रकृतं प्रस्तुमः, अष्टौ दिक्कुमार्यो दिक्कुमारभवनपतिजातीया महत्तरिकाः - स्ववग्येषु प्रधानतरिकाः स्वकेषु स्वकेषु कूटेषु - गजदन्तादिगिरिवर्त्तिषु स्वकेषु २ भवनेषु - भवनपतिदेवावासेषु स्वकेषु २ प्रासादावतंसकेषु - स्वस्वकूटवर्त्तिक्रीडावासेषु, सूत्रे च सप्यम्यर्थे तृतीया प्राकृतत्वात्, प्रत्येकं २, चतुर्भिः सामानिकानां दिक्कुमारीसध्शद्युतिविभवादिकदेवानां सहस्रैः चतसृभिश्च महत्तरिकादिभिःदिक्कुरिकातुल्यविभवाभिस्ताभिरनतिक्रमणीयवचनाभिश्च स्वस्वपरिवारसहिताभिः सप्तभिरनीकैः - हस्त्यश्वरथपदातिमहषगंधर्वनाटयरूपैः सप्तभिरनीकाधिपतिभि षोडशभिरात्मरक्षकदेवसहस्रैरित्यादिकं सर्वं विजयदेवाधिकार इव व्याख्येयं, ननु कासाञ्चित् दिक्कुमारीणां व्यक्त्या स्थानाङ्गे पल्योपमस्थितेर्भणनात् समानजातीयत्वेनासामपि तथाभूतायुषः सम्भाव्यमानत्वाद् भवनपतिजातीयत्वं सिद्धं तेन भवनपतिजातीयानां वानमन्तरजातीयपरिकरः कथं सङ्गच्छते उच्यते । एतासां महर्द्धि कत्वेन ये आज्ञाकारिणो व्यन्तरास्ते ग्राह्या इति, अथवा वानमन्तरशब्देनात्र वनानामन्तरेषु चरन्तीति योगिकार्थसंश्रयणात् भवनपतयोऽपि वानमन्तरा इत्युच्यन्ते, उभयेषामपि प्रायो वनकूटादिषु विहरणशीलत्वादिति सम्भाव्यते, तत्वं तु बहुश्रुतगम्यमिति सर्वं सुस्थम्, । मू. (२१३) भोगंकरा १ भोगवई २, सुभोगा ३ भोगमालिनी ४ । तोयधारा ५ विचित्ता य ६, पुप्फमाला ७ अनिंदिआ ८ ॥
वृ. आसां नामान्याह-‘तंजहा' इत्यादि, तद्यथा - भोगंकरेत्यादिरूपकमेतत्, कण्ठ्यं । मू. (२१४) तए णं तासिं अहेलोगवत्थव्वाणं अदृण्हं दिसाकुमारीणं मयहरिआणं पत्तेयं पत्तेअं आसणाई चलंति, तए णं ताओ अहेलोगवत्थव्वाओ अट्ठ दिसाकुमारीओ महत्तरिआओ पत्तेयं २ आसणाई चलिआई पासंति २ त्ता ओहिं पउंजंति परंजित्ता भगवं तित्थयरं ओहिणा आभोएंति २ त्ता अन्नमन्नं सद्दाविंति २ त्ता एवं वयासी
उप्पन्ने खलु भो ! जंबुद्दीवे दीवे भयवं ! तित्थयरे तं जीयमेअं ती अपचुप्पन्नमनागयाणं अहेलोमवत्थव्वाणं अट्ठण्हं दिसाकुमारीमहत्तरिआणं भ० तित्थगरस्स जम्मणमहिमं करेत्तए, तं गच्छामो णं अम्हेवि भग० जम्मणमहिमं करेमोत्तिकट्टु एवं वयंति २ त्ता पत्तेअं २ आभिओगिए देवे सद्दावेति २ त्ता एवं वयासी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org