________________
३८०
तेणट्टेण' मित्यादि निगमनवाक्यं पूर्ववदिति ।
अथ सप्तमवर्षावसरः - 'कहि ण 'मित्यादि, क्व भदन्त ! जम्बूद्वीपे द्वीपे ऐरावतं नाम वर्षं प्रज्ञप्तम् ?, गौतम ! शिखरिणो वर्षधरस्योत्तरस्यां उत्तरदिग्वर्त्तिनो लवणसमुद्रस्य दक्षिणस्यां 'पुरत्थिमे' त्यादि प्राग्वत् अत्रान्तरे जम्बूद्वीपे ऐरावतं नाम वर्षं प्रज्ञप्तं, स्थाणुबहुलं कण्टकबहुलं एवमनेन प्रकारेण यैव भरतस्य वक्तव्यता सैवास्यापि सर्वा निरवशेषा नेतव्या, यतो यन्मेरोर्दक्षिणभागे तन्निरवशेषमुत्तरेऽपि भागे भवति, यथा वैताढयेन द्वेधा कृतं भरतमित्याद्युक्तं तथैवैरावतेऽपि विज्ञेयमिति, साच कथंभूतेत्याह-सओअवणा - षट्खण्डैरावतक्षेत्रसाधनसहिता सनिक्खमणा-दीक्षा कल्याणकवर्णकसहिता सपरिनिर्वाणा - मुक्तिगमनकल्याणकसहिता, नवरं राजनगरी क्षेत्र दिगपेक्षया ऐरावतोत्तरार्द्धमध्ये तापक्षेत्रदिगपेक्षया त्वेपाऽपि दक्षिणार्द्ध एव केवलमिह शास्त्रे क्षेत्र दिगपेक्षया व्यवहारः, क्षेत्रदिक् च 'इंदा विजयदाराणुसाराओ' इत्यादिना भावनीयेति, तथा वैताढयश्चात्र विपर्ययनगरसङ्घयः, जगत्यनुरोधेन क्षेत्रसाङ्कीण्यार्त, तथैरावतनामा चक्रवर्ती वक्तव्यः कोऽर्थः ? यथा भरतक्षेत्रे भरतश्चक्रवर्त्ती तस्य च दिग्विजयनिष्क्रमणादिकं निरूपितं तथैराव- तचक्रवर्त्तिनो वाच्यं, अनेन चैरावतस्वामियोगादैरावतमिति नाम सिद्धं, अथवा ऐरावतो नाम्नाऽत्र देवो महर्द्धिको यावत्पल्योपमस्थितिकः परिवसति चेत्यध्याहार्यं तेन तत्स्वामिकत्वादैरावतमिति व्यवह्रियते इति निगमनवाक्यं स्वयमभ्यूह्यम् ॥
वक्षस्कारः - ४ समाप्तः
जम्बूद्वीपप्रज्ञप्ति - उपाङ्गसूत्रम् ४/२११
"
इति सातिशयधर्मदेशनारससमुल्लासविस्मयमानएदंयुगीननराधिपतिचक्रवर्त्तिसमानश्री अकब्बरसुरत्राणप्रदत्तषाण्मासिकसर्वजगज्जन्तुजाताभयप्रदानशत्रुञ्जयादिकरमोचनस्फुरन्मानप्रदानप्रभृतिबहुमानसाम्प्रतविजयमानश्रीमत्तपागच्छाधिराजश्रीहीरविजयसूरीश्वरपदपद्मोपासनाप्रवणमहोपाध्याय श्रीसकलचन्द्रगणिशिष्योपाध्याय श्री शान्तिचन्द्रगणिविरचितायां जंबूद्वीपप्रज्ञप्तिवृत्तौरत्नमञ्जूषानाम्न्यांक्षुद्रहिमवदादिवर्षधरैरावतान्तवर्षवर्णनोनामचतुर्थो वक्ष० ।
मुनि दीपरत्नसागरेण संशोधिता सम्पादिता जंबूदीपप्रज्ञप्तिउपाङ्गसूत्रे चतुर्थ वक्षस्कारस्य शान्तिचन्द्रवाचकेन विरचिता टीका परिसमाप्ता ।
वक्षस्कारः-५
वृ. सम्प्रति यदुक्तं पाण्डुकम्बलाशिलादौ सिंहासनवर्णनाधिकारे 'अत्र जिना अभिषिच्चन्ते' तत्सिंहावलोकनन्यायेनानुस्मरन् जिनजन्माभिषेकोत्सर्णनार्थं प्रस्तावनासूत्रमाह
मू. (२१२) जया णं एकमेकं चक्कवट्टिविजए भगवंतो तित्थयरा समुप्पज्जंति तेणं कालेणं तेणं समएणं अहेलोगवत्थव्वाओ अठ्ठ दिसाकुमारीओ महत्तरिआओ सएहिं २ कूडेहिं सएहिं २ भवणेहिं सएहिं २ पासायवडेंसएहिं पत्तेअं २ चउहिं सामानि असाहस्सीहिं चउहिं महत्तरिआहिं सपरिवाराहिं सत्तहिं अनिएहिं सत्तहिं अनि आहिवईहिं सोलसएहिं आयरक्खदेवसाहस्सीहिं अन्नेहि अ बहूहिं भवणवइवाणमंतरेहिं देवेहिं देवीहि अ सद्धिं संपरिवुडाओ महया हयनट्टगीयवाइअ जाव भोगभोगाई भुंजमाणीओ विहरंति, तंजहा
वृ. यदा- यस्मिन् काले एकैकस्मिन् चक्रवर्त्तिविजेतव्ये क्षेत्रखण्डे भरतैरावतादौ भगवन्तीस्तीर्थकराः समुत्पन्ते - जायन्ते तदाऽयं जन्ममहोत्सवः प्रवर्त्तते इति शेषः, अत्र च चक्रवर्त्तिविजये
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org