________________
वक्षस्कारः-४
३७३
मू. (२०२) मंदरस्सणं भंते ! पव्वयस्स कति नामधेजा प० गो० सोलस तं०
वृ. 'मंदरस्सण मित्यादि, मन्दरस्स पर्वतस्य भगवन्! कति नामधेयानि नामानिप्रज्ञप्तानि गौतम ! षोडश नामधेयानि प्रज्ञप्तानि, तद्यथा-- मू. (२०३)मन्दर १ मेरु र मनोरम ३ सुदंसण ४ सयंपभे अ५ गिरिराया ६।
रयणोच्चय ७ सिलोचय ८ मज्झे लोगस्स ९ नाभी य १०॥ वृ. 'मन्दरे'त्यादि गाथाद्वयं, मन्दरदेवयोगात् मन्दरः ?, एवं मेरुदेवयोगात् मेरुरिति, नन्वेवं मेरोः स्वामिद्वयमापद्यतेति चेत, उच्यते, एकस्यापिदवस्यनामद्वयंसम्भवतीति नकाप्याशङ्का, निर्णीतिस्तु बहुश्रुतगम्येति २, तथा मनांसि देवानामप्यतिसुरूपतया रमयतीति मनोरमः ३, तथा सुष्टु-शोभनं जाम्बूनदमयतया रत्नबहुलतया च मनोनिवृतिकरं दर्शनं यस्यासौ सुदर्शनः ४,तथारलबहुलतयास्वयमादित्यादिनिरपेक्षाप्रभा-प्रकाशोयस्यासी स्वयम्प्रभः ५, चःसमुच्चये, तथा सर्वेषामपि गिरीनामुच्चेन तीर्थकरजन्माभिषेकाश्रयतयाच राजा गिरिराजः ६, तथा रत्नानां नानाविधानामुत्-प्राबल्येन चयः-उपचयो यत्र स रत्नोच्चयः ७, तथा शिलानां-पाण्डुशिलादीनामूर्ध्व-शिरस उपरिचयः-सम्भवो यत्र स शिलोच्चयः ८॥
तथा लोकस्य मध्यं, अस्य सकललोकमध्यवर्तित्वात् नन्वत्र लोकशब्देन चतुर्दशरज्ज्वात्मकलोके व्याख्यातव्ये 'घम्माइ लोगमज्झंजोअणअस्संखकोडीहिं' इति वचनात् समभूतलाद्ररत्नप्रभाया असंख्याताभिर्योजन-कोटीभिरतिक्रान्ताभिर्लोकमध्यंतत्र चमेरोरसम्भवेन बाधितं व्याख्यानं, अथ लोकशब्देन तिर्यग्लोकस्तस्याप्यष्टादशशतयोजनप्रमाणोच्चस्यास्मिन्नेवान्तीनत्वात् कुतरस्तरामस्य लोकमध्रवर्त्तित्वमिति चेत्, उच्यते, तिर्यग्लोके तिर्यग्भागस्य स्थालाकारैकरज्जुप्रमाणायाम-विष्कम्भस्यात्र लोकशब्देन ववक्षणात् तस्य मध्यं, मेरु तन्मध्य-वर्तीत्यर्थः, अस्मात्सर्वतोऽप्य-लोकस्य पञ्चसहस्रनार्द्धरज्जुप्रमाणेन दूरव्यवहितत्वात्, अत एवोप-लक्षणालोकस्याप्यसौ मध्यं अस्मात् सर्वतोऽप्यलोकस्यानन्तयोजनप्रमाणत्वात् ९, एवं 'नाभीय'त्ति अत्र च देहलीप्रदीपन्यायेन लोकशब्दस्य संयोजनात् लोकनाभि, अत्र भावना तु उक्तन्यायेनैव १०, चः समुच्चये। मू. (२०४) अच्छे अ११ सूरिआवत्ते १२, सूरिआवरणे १३ तिआ।
उत्तमे १४ अदिसादीअ१५, वडेंसेति १ असोलसे ।। वृ.अथश्लोकबन्धेन अच्छे'इत्यादि, अच्छः-सुनिर्मलःजाम्बूनदरत्नबहुलत्वात्, चतुर्थाङ्गे षोडशसमवाये तु अत्थे इति पाठः, तत्र अनेन ह्यन्तरितः सूर्यादिरस्त इत्यभिधीयते, इदं च पूर्वापरमहाविदेहापेक्षया ज्ञेयं, अतोऽयमपि कारणे कार्योपचारादस्त इति ११, तथा सूर्या उपलक्षणमेतत्तेन चन्द्रादयश्चप्रदक्षिणमावर्त्तन्ति यस्य ससूर्यावर्त्तः १२, तथा सूर्यैरुपलक्षणमेतत् चन्द्रग्रहनक्षत्रादिभिश्च समन्ताद् भ्रमणशीलैराव्रियते स्म-वेष्टयते स्मेति सूर्यावरणः ‘कृबहुल' मिति वचनात् कर्मण्यनट्प्रत्ययः १३, इतिशब्दो नामसमाप्तौ चः समुच्चये, तथा उत्तमो गिरिषु सर्वतोऽप्यधिकसमुन्नतत्वात्, समवायाङ्गेतुउत्तर इति पाठः, तत्र उत्तरतः-उत्तरदिग्वर्ती सर्वेभ्यो भरतादिवर्षेभ्य इति, यदाह
“सर्वेषामुत्तरो मेरु"रिति, ननुभरतादिभ्यः उत्तरदिग्वर्तित्वंजम्बूद्वीपपट्टादौ विलोकनेन
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org