________________
वक्षस्कारः - ४
३६७
'एआहिं' इत्यादि, एताभिर्देवीभिश्चशब्दाद् राजधानीभिरनन्तरसूत्रे वक्ष्यमाणाभिः सह पूर्वाभिलापेन नन्दनवनकूटसत्कसूत्रगमनेन नेतव्यानि इमानि वक्ष्यमाणानि कूटानि इमाभिर्वक्ष्यमाणाभिर्दिग्भिः, एतदेव दर्शयति - 'पुरथिमिल्लस्स' इत्यादि, इदं च सर्वं भद्रशालवनगमसध्शं तेन तदनुसारेण व्याख्येयं, विशेषश्चात्रायं पञ्चशतिके नन्दनवने मेरुतः पञ्चाशदयोजनान्तरे स्थितानि पञ्चशतिकानि कूटानि किञ्चिन्मेखलातो बहिराकाशे स्थितानि बोध्यानि बलकूटवत्, एतत्कूटवासिन्यश्च देव्योऽष्टौ दिक्कुमार्य, अत्र नवमं कूटं सहस्रङ्कमिति पृथक् पृच्छति
'कहिण' मित्यादि, क्व भदन्त ! नन्दनवने बलकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मेरोरीशानविदिशि नन्दनवनं अत्रान्तरे बलकूटं नाम कूटं प्रज्ञप्तं, अयमर्थः - मेरुतः पञ्चाशदयोजनातिक्रमे ईशानकूणे एशानप्रासादस्ततोऽपीशानकोणे बलकूटं, महत्तमवस्तुनो विदिशोऽपि महत्तमत्वात्, एवमनेनाभिलापेन यदेव हरिस्सहकूटस्य - माल्यवद्वक्षस्कारगिरेर्नवमकूटस्य प्रमाणं सहस्रयोजनरूपं, यथा चाल्येऽपि स्वाधारक्षेत्रे महतोऽप्यस्यावकाशः या च राजधानी चतुरशीतियोजनसहस्रप्रमाण तदेव सर्वं बलकूटस्यापि नवरमत्र बलो देवस्तत्र तु हरिस्सहनामा । अथ तृतीयवनोपक्रमः
मू. (१९८) कहि णं भंते! मंदरए पव्वए सोमनसवणे नामं वने प० ?, गोअमा ! नंदनवनस्स बहुसमरमणिज्जाओ भूमिभागाओ अद्धतेवट्ठि जो अणसहस्साइं उद्धं उप्पइत्ता एत्थ णं मंदरे पव्वए सोमनसवने नामं वने पन्नत्ते पञ्चजोणसयाइं चक्कवालविक्खम्मेणं वट्टे वलयाकारसंठाणसंठिए जेणं मंदरं पव्वयं सव्वओ समंता संपरिक्खित्ताणं चिट्ठइ ।
- चत्तारि जो अणसहस्साइं दुन्नि य अनुत्तरे जोअणसए अट्ठ य इक्कारसभाए जो अणस्स बाहिं गिरिवक्खम्भेणं तेरस जोअणसहस्साइं पञ्च य एक्कारे जोअणसए छच्च इक्कारसभाए जो अणस्स बाहिं गिरिपरिरएणं तिण्णि जोअणसहस्साइं दुन्नि अ बावत्तेर जोअणसए अट्ठ य इक्कारसभाए जोयणस्स अतो गिरिविक्खम्भेणं दस जोअणसहस्साइं तिन्नि अउणापन्ने जोअणसए तिन्नि अ इक्कारसभाए जो अणस्स अंतो गिरिपरिरएणंति । से णं एगाए पउमवरवेइआए एगेण य वनसंडेणं सव्वओ समंता संपरिक्खित्ते वण्णओ किण्हेजाव आसयन्ति एवं कूडवज्जा सच्चेव नंदनवनवत्तव्वया भा०, तं चेव ओगाहिऊण जाव पासायवडेंसगा सक्कीसाणाणंति ।
वृ. 'कहि ण 'मित्यादि, क्व भदन्त ! मेरौ सौमनसवनं नाम वनं प्रज्ञप्तम् ?, गौतम ! नन्दनवनस्य बहुसमरमणीयाद् भूमिभागादर्द्धत्रिषष्टिं सार्द्धद्वाषष्टिरित्यर्थः योजनसहस्राण्यूर्ध्वमुत्पत्यात्रान्तरे मन्दरपर्वते सौमनसवनं नाम वनं प्रज्ञप्तं, पञ्चयोजनशतानि चक्रवालविष्कम्भेनेत्यादिपदानि प्राग्वत्, यन्मन्दरं पर्वतं सर्वतः समन्तात् सम्परिक्षिप्य तिष्ठति, एतच्च कियता विष्कम्भेन कियता च परिक्षेपेणेत्याह- ' चत्तारी 'त्यादि, प्रथमेखलायामिव द्वितीयमेखलायामपि विष्कम्भद्वयं वाच्यं तत्र बहिर्गिरिविष्कम्भेन चत्वारि योजनसहस्राणि द्वे च योजनशते द्विसप्तत्यधिके अष्टौ चैकादशभागा योजनस्य, एतदुपपत्तिरेवं- धरणीतलात् सौमनसं यावद् गमने मेरूच्छ्रयस्य ६३ सहस्रयोज - नान्यतिक्रान्तानि एषां चैकादशभिर्भागे लब्धं ५७२७ /,, अस्मिंश्च राशौ धरणीतलगतमेरुव्या-साध्शहनयोजनप्रमाणाच्छोधिते जातं यथोक्तं मानमिति, बहिर्गिरिपरिरयेण त्रयोदशयोजन - सहस्राणि पञ्चयोजनशतानि एकादशानि - एकादशाधिकानि षट्च एकादशभागा योजनस्य, तथाऽन्तर्गिरिविष्कम्भेन त्रीणि योजनसहस्राणि द्वे द्वासप्तत्यधिके योजनशते अष्टौ
99
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org