________________
३६६
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१९७ बाह्याभ्यन्तररूपं विष्कम्भद्वयं भवति, तत्र मेरौ बाह्यविष्कम्भोऽयं-नवयोजनसहस्राणि नव शतानिचतुष्पञ्चाशदधिकानिषट्चैकादशभागायोजनस्य, तथाहि-मेरोरुर्ध्वमेकस्मिन् योजने गते विष्कम्भसम्बन्धी एक एकादशभागो योजनस्य गतो लभ्यते इतिप्रागुक्तं ततोऽत्र त्रैराशिकंयधेकयोजनारोहे मेरोरुपरि व्यासस्यापचयः सर्वत्रैकादशो भागो योजनस्यैको लभ्यते ततः पञ्चशतयोजनारोहे कोऽपचयोलभ्यते?, लब्धानि४५योजनानि., एतत्समभूतलगतव्यासात् दशयोजनसहस्ररूपात् त्यज्यते जातं यथोक्तं मान, एतच्च नन्दनवनस्य दहि पूर्वापरयोरुत्तरदक्षिणयोर्वा अन्तयोः सम्भवति, अतो नन्दनवनाद्वहिर्वतित्वेन बाह्यो गिरिविष्कम्भः, तथा एकत्रिंशदयोजनसहस्राणि चत्वारि शतानि एकोनाशीत्यधिकानि किञ्चिद्विशेषाधिकानिइत्ययं बाह्योगिरिपरिरयो मेरुपरिधिरित्यर्थः, णमिति वाक्यालङ्कारे अन्तर्गिरिविष्कम्भो नन्दनवनादर्वाक् योगिरिविस्तारः सोऽष्टयोजनसहस्राणिनवचयोजनशतानिचतुष्पञ्चाशदधिकानिषट्च एकादशभागा योजनस्येत्येतावप्रमाणः, अयं च बाह्यगिरिविष्कम्भे सहस्रोने यथोक्तः स्यात्, तथा अष्टाविंशतियोजनसहस्राणि त्रीणिचयोजनशतानिषोडशाधिकानिअष्टचैकादशभागा योजनस्यैतावतप्रमाणोऽन्तर्गिरिपरिरय इति, णमिति प्राग्वत्।
अथात्र पद्मवरवेदिकाद्याह-'सेणंएगाएपउम'इत्यादि, व्यक्तं, अथात्र सिद्धायतनादिवक्तव्यमारभ्यते-मन्दरस्यपूर्वस्यांअत्र-नन्दने पञ्चाशदयोजनातिक्रमे महदेकंसिद्धायतनंप्रज्ञप्तम्, एवमिति-भद्रशालवनानुसारेण चतसृषु दिक्षुचत्वारि सिद्धायतनानि विदिक्षुपुष्करिण्यः, तदेव प्रमाणंसिद्धायतनानांपुष्करिणीनांचयद्भद्रशाले उक्तंप्रासादव-तंसकास्तथैवशक्रेशानयोर्वाच्याः यथा भद्रशाले दक्षिणदिकसम्बद्धविदिग्वर्तिनः प्रासादाः शक्रस्य तथोत्तरदिकसम्बद्धविदिग्वर्तिनस्तु ईशानेन्द्रस्य तेनैव प्रमाणेन-पञ्चयोजनशतोच्चत्वादिनेति, अत्र च पुष्करिणीनां नामानि सूत्रकारालिखितत्वाल्लिपिप्रमादाद्वा आदर्शेषु न दृश्यन्ते इति तत्रैशान्या-दिप्रासादक्रमादिमानि नामानि द्रष्टव्यानि पूज्यप्रणीतक्षेत्रविचारतः-नन्दोत्तरा १ नन्दा २ सुनन्दा ३ नन्दिवर्द्धना ४ तथा नन्दिषेणा १ अमोधा २ गोस्तूपा ३ सुदर्शना ४ तथा भद्रा १ विशाला २ कुमुदा ३ पुण्डरीकिणी ४ तथा विजया १ वैजयन्ती २ अपराजिता ३ जयन्ती ४ इति, कूटान्यपि मेरुतस्तावत्येवान्तरे सिद्धायतनप्रासादावतंसकमध्यवर्तीनि ज्ञातव्यानि, तत्र यो विशेषस्तमाह
__'नंदनवनेण'मित्यादि, व्यक्तं, भद्रशालेऽष्टौ कूटानि इह तुनवततः सङ्ख्यया नामभिश्च विशेषः, तेष्वाद्यं स्थानतः पृच्छति-'कहि ण'मित्यादि, क्व भदन्त ! नन्दनवने नन्दनवनकूटं नाम कूटं प्रज्ञप्तम् ?, गौतम ! मन्दरस्य पर्वतस्य सम्बन्धिनः पौरस्त्यसिद्धायतनस्योत्तरतः उत्तरपौरस्त्ये-ईशानदिग्वर्तिनःप्रासादावतंसकस्य दक्षिणेन एतस्मिन् प्रदेशे नन्दनवनकूटनाम कूटं प्रज्ञप्तं, अत्रापि मेरुतः पञ्चाशदयोजनातिक्रम एव क्षेत्रनियमो बोध्यः, अन्यथाऽस्य प्रासादभवनयोरन्त- रालवर्त्तित्वं न स्यात्, अथ लाघवार्थमुक्तस्य वक्ष्यमाणानां च कूटानां साधारणमतिदिशति- पञ्चशतिकानि कूटानि पूर्वं विदिगहस्तिकूटप्रकरणे वर्णितानि उच्चत्वव्यासपरिधिवर्णसंस्थान-राजधानीदिगादिभितान्यत्रभणितंव्यानीतिशेषः, सध्शगमत्वात, अत्र देवी मेघङ्करा नाम्नी अस्य राजधानी विदिशि अस्य पद्मोत्तरकूटस्थानीयत्वेन राजधानीविदिगुत्तरपूर्वा ग्राह्या, अथशेषकूटानां तद्देवीनांतद्राजधानीनांच का व्यवस्था इत्याह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org