________________
वक्षस्कारः - ४
३५९
पुक्खरिणीओ भिंगा भिंगनिमा चेव, अंजणा अंजणप्पभा । पासायवडिंसओ सक्कस्स सीहासनं सपरिवारं, उत्तरपुरत्थिमेणं पुक्खरिणीओ - सिरिकंता १ सिरिचंदा २ सरिमहिआ ३ चेव सिरिनिलया ४ । पासायवडिंसओ ईसानस्स सीहासणं सपरिवारंति मंदरे णं भंते! पव्वए भद्दसालवने कइ दिसाहत्थिकूड़ा पं० ?, गो० ! अट्ठ दिसाहत्थिकूडा पन्नत्ता, तंजहा
वृ. 'कहि 'मित्यादि, प्रश्नः प्राग्वत्, उत्तरसूत्रे गौतम! उत्तरकुरूणां दक्षिणस्यां देवकुरूणां उत्तरस्यां पूर्वविदेहस्य वर्षस्य पश्चिमायां पश्चिममहाविदेहस्य वर्षस्य पूर्वस्यां जम्बूद्वीपस्य द्वीपस्य बहुमध्यदेशभागे, अत्रान्तरे जम्बूद्वीपे द्वीपे मन्दरो नाम पर्वतः प्रज्ञप्तः, नवनवतियोजनसहस्राणि ऊर्ध्वोच्चत्वेन एकं योजनसहस्रमुद्वेधेन सर्वाग्रेण पूर्णं लक्षमित्यर्त, वक्ष्यमाणचूलासत्कानि चत्वारिंशद्योजनानि त्वधिकानि, उच्छ्रयचतुर्थांशो भूम्यवगाहस्तु मेरुवर्जपर्वतेषु ज्ञेय इति, मूले - कन्दे दशयोजनसहस्रणि नवतिं च योजनानि दश चैकादशभागान् योजनस्य विष्कम्भेन एकादशरूपेण छेदेन क्रमादपचीयमानविष्कम्भोऽसौ धरणीतले समे भागे दशयोजनसहस्राणि विष्कम्भेन, मूलतो योजनसहस्रमूर्द्धगमने मूलगतानि नवतियो० दश च एकादशभागा योजनस्य तुत्रुटुरित्यर्थः, तदनन्तरं मात्रया २ ऊर्ध्वगमने – उच्चत्वस्य योजनैकादशाशवृद्ध्या विष्कम्भस्य योजनैकादशांशहानिस्तथोच्चत्वैकादशयोजनवृद्धया विष्कम्भैकयोजनहानि एवमेकादशयोजनशतवृद्धया . योजनशतहानि० तथा एकादशयोजनसहस्रवृद्धया योजनसहस्रहानि - रित्येवंरूपेण परिमाणेन परिहीयमाणः २ उपरितले - यत्र चूलिकाया उद्भवस्तत्र एकं योजनसहस्रं विष्कम्भेन ।
समभूतलतो नवनवतियोजनसहस्राण्यर्ध्वगमने पृथुत्वगतनवयोजनसहस्रणि तुत्रुटुरित्यर्थः, अथास्य परिधिः- मूले एकत्रिंशद्योजनसहस्राणि नव च शतानि दशोत्तराणि त्रींश्चैकादशभागान् योजनस्य परिक्षेपण, धरणीतले एकत्रिंशद्योजनसहस्राणि षट् च त्रयोविंशत्यधिकानि योजन - शतानि परिक्षेपेण उपरितले त्रीणि योजनसहस्राणि एकं च द्वाषष्ट्यधिकं योजनशतं किञ्चिद्विशेषाधिकं परिक्षेपेण, अथाद्यपरिधिगणितं मूले विष्कम्भस्य सच्छेदत्वाद्विषममिति दर्श्यते - मूले विष्कम्भो दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागा योजनस्य तत्र योजनराशावेकादशभागकरणार्थमेकादशभिर्गुणिते उपरितनदशभागक्षेपे च जाता एकादशभागा लक्षमेकादश च सहस्राणि ततोऽस्य राशेर्वर्गकरणे जातं एकको द्विकस्त्रिको द्विकः एककः षट् च शून्यानि ततोऽस्य दशभिर्गुणने जातानि सप्त सून्यानि अथास्य वर्गमूलानयने लब्धस्त्रिकः पञ्चक एककः शून्यमेकको द्विकः अथास्य योजन करणार्थं ११ भागः लब्धं योजन ३१९१० अंश २, शेषं ५७५८५६ ७०२०२४, अर्द्धाभ्यधि-कत्वाद्रूपे दत्ते अंशाः ३, समभूतलगतपरिधावपि ३१६२२ योजनानि अवशिष्टांशानाम- र्द्धाभ्यधिकत्वाद्रूपे दत्ते त्रयोविंशतिर्योजनानि, शिखरपरिधी चार्द्धतो न्यनत्वादंशानां सूत्रे किंचिदधिकत्वं न्यवेदि, अत एव मूले विस्तीर्णो मध्ये संक्षिप्तः उपरि तनुकः ऊर्ध्वं मेखलाद्वयाविवक्षया उदस्तगोषुच्छाकारेण संस्थितः सर्वात्मना रत्नमयः, इदं च प्रायोवचनं, अन्यथा काण्डत्रयविवेचने आद्यकाण्डस्य पृथ्व्युपलशर्करावज्रमयत्वं तृतीयकाणेड जाम्बूनदमयत्वं च भणिष्यमाणं विरुणद्धि, शेषं प्राग्वत् ।
अथात्र पद्मवरवेदिकाद्याह- 'से णं एगाए' इत्यादि, व्यक्तं, अत्र चारोहेऽवरोहे च इष्टस्थाने विस्तारादिकरणानि सूत्रेऽनुक्तान्यपि उत्तरग्रन्थे बहूपयोगानीति दर्श्यन्ते तत्र कन्दादारोहे
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org