________________
३६०
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१९४ करणमिदं-ऊर्ध्वगतस्य यत्र योजनादौ विस्तारजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्ते यल्लब्धं तस्मिन् कन्दविस्तारादपनीते यदवशिष्टं स तत्र प्रदेशे मेरुव्यासः, तथाहि-कन्दाघोजनलक्षमूर्ध्वं गतस्ततो योजनलक्षं ध्रियते तस्मिन्नेकादशभिभक्ते लब्धानि नवतिशतानि नवत्यधिकानियोजनानांदशचैकादशभागायोजनस्य अस्मिन् कन्दव्यासात्दशयोजनसहस्राणि नवत्यधिकानि दश चैकादशभागायोजनस्येत्येवंपरिमाणादपनीयते शेषंयोजनसहस्रं, एतावानत्र प्रदेशे मेरुपरितलेव्यासः,अथवा योजनसहनमारूढस्ततोयोजनसहस्रएकादशभिर्भक्तेलब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् योजनसहनमारूढस्ततो योजनसहनं एकादशभिर्भक्ते लब्धानि नवतियोजनानि दश चैकादशभागा योजनस्य अस्मिन् पूर्वोक्तात् कदन्व्यासाच्छोधिते शेषं दशयोजनसहस्राणि एवमन्यत्रापि भाव्यं ।।
अथ शिखरादवरोहे करणं, यथा मेरुशिखरादवपत्य यत्र योजनादौ विष्कम्भजिज्ञासा तस्मिन् योजनादिके एकादशभिर्भक्तेयल्लब्धंततसहितंतत्रप्रदेशे मेरुव्यासमानं, यथाशिखरायो जनलक्षमवतीर्णस्ततो लक्षे एकादशभिर्भक्ते लब्धानि नवतिशतानि नवत्यधिकानि दश चैकादशभागाः अस्मिन् योजनसहस्रप्रक्षेपेजातानि १००९०", इयान्कन्दे व्यासः, अथवा शिखरान- वनवतियोजनसहस्राण्यवतीर्णस्ततस्तेषामेकादशभिर्भागे हृते लब्धानि नवहस्राणि तानि सहस्रसहितनिजातानि दशसहस्राणि एतावान् धरणीतले विस्तारः, एवमन्यत्रापि, अथ मेरौमूलादारोहेमौलितोऽवरोहे चविष्कम्भविषयकहानिवृद्धिज्ञानार्थंकरणमिदं-उपरितनाधस्तनयोर्विस्तारयोविश्लेषे कृते तयोर्मध्यवर्तिनापर्वतोच्छ्रयेण भक्ते यल्लब्धंसाहानिवृद्धिश्च, तथाहिउपरितनेविस्तारेयोजनसहनं अधस्तनाद्योजन १००९००, इत्येवंरूपाच्छोधिते शेषं ९०९० सवर्णनार्थं योजनराशिमेकादशगुणीकृत्य अधस्तना दश भागाः प्रक्षेप्याः जातं १०००००/. अस्य च भजनार्थं मध्यवर्तिनि पर्वतोच्छ्रये १००००० इत्येवंरूपे एकादशगुणे कृते जातं १०००००/.....अत्र छेदराशेरेकादश-गुणत्वाद्भागाप्राप्तौ उभयोर्लक्षणापवर्ते कृते जातं '1.. इयती प्रतियोजनं हानिर्वृद्धिश्च तथा इदमेव लब्धमीकार्य एककस्यार्धासम्भवात् छेद एव द्विगुणीक्रियते जातं इयं मेरोरेकस्मिन् पार्वे वृद्धिानिश्चेति ।
अथोच्चत्वपरिज्ञानाय करणमिदं-मेरोर्यत्र भूतलादौ प्रदेशे यो यावान् विस्तारः तस्मिन् मूलविस्ताराच्छोधिते यच्छेषं तदेकादशभिर्गुणितं सत् यावद् भवति तावप्रमाण उत्सेधः, तथाहि-शिखरव्यासो योजनसहस्रं तस्मिन् कन्दव्यासात् पूर्वोक्ताच्छोधिते शेषं नवतिसहस्रणि नवत्यधिकानि दश चैकादशभागा योजनस्येत्येतदात्मकं योजनराशिरेकादशभिर्गुण्यते जातं ९९९९० ये च दशैकादशभागास्तेऽपि एकादशभिर्गुण्यन्तेजातं ११० तस्यैकादशभिर्भागे हृते लब्धानि दश योजनानि पूर्वराशौ प्रक्षिप्यन्ते जातं योजनानां लक्षं, एतावदधोविस्तारोपरितनविस्तारयोरन्तरे उच्चत्वं, एवं मध्यभागादावप्युच्चत्वपरिमाणंभावनीयमिति।
नन्विह कस्मादेकादशलक्षणः छेदः कस्माद्वा तेन शेषं गुण्यते?, उच्यते, एकादशानां योजनानामन्ते एकं योजनं एकादशानां योजनशतानामन्ते एक योजनशतं एकादशानां योजनसहस्रानामन्ते एकं योजनसहस्रं त्रुटयति तत एकादशलक्षणः छेदः, तेनोच्चत्वपिज्ञानाय विस्तारशेषं गुण्यते, अन्यथा योजनानां दशसहस्राणि नवत्यधिकानि दश चैकादशभागा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org