________________
वक्षस्कारः-४
३४९
चवनमुखानि ततस्तदनुरोधात्वर्षधरसमीपेतेषांस्तोको विष्कम्भःशीताशीतोदासमपेतुभूयानिति, एषामिष्टस्थाने विष्कम्भपरिज्ञानाय सूत्रेऽनुक्तमपि प्रसङ्गगत्या करणमुच्यते-अतिक्रान्तं योजनादिकं गुरुपृथुत्वेन २९२२ इत्येवंरूपेण गुण्यते, गुणितश्च योजनराशि कलीकरणार्थमेकनोविंशत्या गुण्यते, तन्मध्ये च गुरुपृथुत्वगणितः कलाराशि प्रक्षिप्यते, ततः कलीकृतेन वनायामपरिमाणराशिना ह्रियते, ततो लभ्यते इष्टस्थाने वनमुखविष्कम्भः, यथा यथानिषधान्नीलवतो वा षोडशसहस्राणि पंच शतानि द्विनवत्यधिकानि योजनानां द्वे च कले इत्येतावद् गत्वा विष्कम्भो ज्ञातुमिष्टः तेनैष राशिप्रिंयते १६५९२ कला २, धृत्वा च एकोनत्रिंशच्छतैभविंशत्यधिकैर्गुण्यते, जातोयोजनराशि४८४८१८२४, कलाद्वयमपि २९२२ अनेनैव गुण्यते जातः कलाराशि ५८४४, ततो योजनराशौ ४८४८१८२४ सवर्णिते जातं ९२११५४६५६ततः कलाराशि ५८४४ क्षेपे जातं ९२११६०५०० ततोऽस्यमुखवनायामेन १६५९२ सवर्णितेन कलाद्वययुक्तेन ३१५२५० भागे हृते लब्ध इष्टस्थाने २९२२ योजनरूपो विष्कम्भः, एवमन्यत्रापि।
अथास्य पद्मवरवेदिकादिवर्णनायाह-‘से णं एगाए पउ०' इत्यादि, तन्मुखवनमेकया पद्मवरवेदिकया एकेनच वनखण्डेन सम्परिक्षिप्तम्।अथ शीतामुखवनस्य वर्णको वाच्यः-'किण्हे किण्होभासे'इत्यादि, कः कियत्पर्यन्तमित्याह-यावद्देवता आसतेशेरतेइत्यादि, अत्रविजयदिशि पद्मवरवेदिका गोपिका लवणदिशि तु जगत्येव गोपिका इत्येका, इयं च पद्मवरवेदिकां जगतीवन्मुखवनव्यास एवान्तर्लीना, यत्रतुवनव्यासः कलाप्रमाणस्तत्र विजयव्यासंरुणद्धीति तात्पर्य, अन्यथा विजयदिभिर्जम्बूदद्वीपस्य परिपूर्णलक्षपूर्तावुभयतो जगत्यादेः क्वाकाशः स्यात्, अत॥१॥ “अविवक्खिऊण जगइंसवेइवणमुहचउक्कापिहुलत्तं।
गुणतीससयदुवीसंणइंति गिरिअंति एगकला ।" इति, अथोपसंहारमाह-‘एवं उत्तिरिल्लं' इत्यादि, एवं-विजयादिकथनेन उत्तरदिग्वर्त्ति पार्श्व समाप्तम्, प्राच्यमिति शेषः, प्राक् चतुर्विभागतयोद्दिष्टस्य विदेहक्षेत्रस्य प्राच्योत्तरपार्वं विजयादिकथनापेक्षया पूर्णं निर्दिष्टमित्यर्थः । अथ प्रतिविजयमेकैकां राजधानी निद्दिशन्नाह-'विजया' इत्यादि, विजया भणिताः, अत्र च भणितानामपि विजयानां यत्पुनर्भणनमुक्तं तद्राजधानीनिरूपणार्थं, राजधान्यश्चेमाः पद्यबन्धेन संगृह्णाति। मू. (१७२) खेमा १ खेमपुरा २ चेव, रिट्ठा ३ रिट्ठपुरा ४ तहा।
खग्गी ५ मंजूसा ६ अविअ, ओसही ७ पुंडरीगिणी ८॥ वृ. कच्छविजयतः क्रमेण नामतो ज्ञेयाः, क्षेमा १ क्षेमपुरा २ अरिष्ठा ३ अरिष्ठपुरा ४ तथा खगी ५ मंजूषा ६ अपि चेति समुच्चये औषधी७पुंडरीकिणी ८ इति, एताः शीताया औदीच्यानां विजया नां दक्षिणार्द्धमध्यमखण्डेषु वेदितव्याः, अथैषु श्रेणिस्वरूपमाह
मू. (१७३) सोलस विजाहरसेढीओ तावइआओ अभिओगसेढीओ सव्वाओ इमाओ ईसाणस्स, सव्वेसु विजएसु कच्छवत्तव्वया जाव अट्ठो रायाणो सरिसनामगा विजएसु सोलसण्हं वक्खारपव्वयाणं चित्तकूडवत्तव्वया जाव कूडा चत्तारि २ बारसण्हं नईणं गाहावइवत्तव्बया जाव उभओ पासिं दोहिं पउमवरवेइआहिं वनसंडेहि अवण्णओ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org