________________
३४८
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७१ क्षस्कारः-'कहिणं० सर्वं स्पष्टं, नवरंपुष्कलार्वत्तः सप्तमो विजयः स एव चक्रवर्तिविजेतव्यत्वेन चक्रवर्तिविजय इत्युच्यते, एवंपुष्कलावतीचक्रवर्तिविजयोऽपिबोध्या, सम्प्रत्यष्टमोविजयः
___ 'कहिणंभंते! महाविदेहे' इत्यादि, प्रकटार्थंः, नवरंऔत्तराहस्यशीतामहानद्या मुखवनस्यअनन्तरसूत्रे वक्ष्यमाणस्वरूपस्यशीतामहानदीनीलवर्षधरमध्यवर्तिमुखवनस्यवनस्य पश्चिमायामित्यर्थः, दाक्षिणात्याच्छीतामुखवनादयं वायव्यां स्यादिति औत्तराहग्रहणमिति, अथानन्तरमेवोक्तं शीतामुखवनं लक्षयन्नाह- 'कहि ण'मित्यादि, क्व भदन्त ! महाविदेहे वर्षे शीताया महानद्या उत्तरदिग्वर्तिशीतायाः मुखे-समुद्रप्रवेशे वनं शीतामुखवनं निरस्तं, तथाहि-चत्वारि मुखवनानि-एकं शीतानीलवतोर्मध्ये १ द्वितीयं शीतानिषधयोः २ तृतीयं शीतोदानिषधयोः ३ चतुर्थं शीतोदानीलवतोः ४ एषां मध्ये आद्यस्यैव शीतात उत्तरेण दर्शनात् ।
गौतम! नीलवतोदक्षिणस्यांशीतायाउत्तरस्यांपौरस्त्यलवणसमुद्रस्य पश्चिमायांपुष्कलावतीचक्रवर्तिविजयस्य पूर्वस्यां अत्रान्तरे शीतामुखवनं नाम वनंप्रज्ञप्तम्, उत्तरदक्षिणायतेत्यादिविशेषणानि विजयवद्वाच्यानि, इह विजयवक्षस्कारगिर्यन्तरनद्यः सर्वत्र तुल्यविस्ताराः वनमुखानि तुनिषधसमीपे नीलवत्समीपे चाल्पविष्कम्भानि शीताशीतोदोभयकूलपार्श्वे तु पृथुविष्कम्भानि जगत्यनुरोधात्, तथाहि-पूर्वस्यामपरस्यांच दिशि निषधान्नीलवतो वाऽऽरभ्य जगती वक्रगत्या शीतां शीतोदां वा प्राप्ता, जगतीसंस्पर्शवर्तीनि च मुखवनानि, ततस्तदनुरोधाद् दर्शयतिशीतामहानद्यन्ते द्वे योजनसहरोनवच द्वाविंशत्यधिकानियोजनशतानि विष्कम्भेन, अत्रोपपत्ति प्राग्वत्, विजयवक्षस्काराद्यन्तरनदीमेरुपृथुत्वपूर्वापरभद्रशालवनायाममीलनेजातानि९४१५६, अस्य राशेर्जम्बूद्वीपरिमाणात् शोधने शेषं ५८४४, अस्य शीताशीतोदयोरेकस्मिन् दक्षिणे उत्तरे वा भागे द्वे मुखवने इति द्वाभ्यां भागे हृते आगतानि द्वाविंशत्यधिकान्येकोनत्रिंशद्योजनशतानि २९२२, अत्रो च तेवीसे इति पाठोऽशुद्धः, एतच्च पृथुत्वपरिमाणं न सर्वत्र शीताशीतोदयोर्मुखप्रत्यासत्तावेतत्करणावकाशादत्रैव महाविदेहवर्षस्य सर्वोत्कृष्टविस्तारलाभादित्याहतदनन्तरं च मात्रया २-अंशेनांशेन परिहीयमानं २-हानिमुपगच्छद् नीलवद्वर्षधरपर्वतान्ते एकमेकोनविंसतिभागंयोजनस्य विष्कम्भेन, एकां कलांयावत्पृथुत्वेनेत्यर्थः, 'कालाध्वनोव्यार्पतावित्यनेन द्वितीया, अत्र करणं-मुखवनानां सर्वलघुर्विष्कम्भो वर्षधरपार्वे ततो वर्षधरजीवात इदं करणं समुत्तिष्ठति, तथाहि
प्रस्तुते नीलवजीवा चतुर्नवतिसहस्राणि शतमेकं षट्पञ्चाशदधिकं योजनानां द्वे चैकोनविंशतिभागरूपे कले अथ पूर्वोक्तानि विजय १६ वक्षस्कारः ८ अन्तरनदी ६ गन्धमादन १ माल्यवत् १ गजदन्तपृथुत्वोत्तरकुरुजीवापरिमाणान्येकत्र मील्यन्ते, जातानि चतुर्नवतिसहस्राणि शतमेकंषट्पञ्चाशदधिकं एतस्मिन् प्रागुक्ताज्जीवापरिमा-णाच्छोधिते शेषं द्वेकले तत् एकस्मिन् दक्षिणे उत्तरे वा भागे शीताशीतोदासत्के द्वे वने इति द्वाभ्यां भज्यते आगतैका कला इति, ननु विजयवक्षस्कारादीनां सर्वत्र तुल्यविस्तारकत्वेन वनमुखानांच वर्षधरसमीपे एककलामात्रविष्कम्भकत्वेन सप्तदशकलाधिकैकोनत्रिंशद्योजनशतप्रमाणः शेषजम्बूद्वीपक्षेत्र- विभागः कुत्रान्तर्भावनीयः?,अत्रजगत्या वृत्तत्वेन सङ्कीर्णभूतत्वात् समाधेयं, अयमर्थः-पूर्वस्यामपरस्यां चदिशि निषधान्नीलवतो वा आरभ्य जगती वक्रगत्या शीताशीतोदे प्राप्ता, जगतीसंस्पर्शवर्तीनि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org