________________
वक्षस्कारः - ४
३४७
तेन यथा तत्र नदी क्षेत्रस्याल्पत्वेनानुपपत्तावुपपत्यर्थं कोट्टाककरणमाश्रयणीयं तथाऽत्रापि, अत्र श्रीमलयगिरिपादाः क्षेत्रसमासवृत्तौ जंबूद्वीपाधिकारे एताश्च ग्राहावतीप्रमुखा नद्यः सर्वा अपि सर्वत्र कुंडाद्विनिर्गमे शीताशोतोदायाः प्रवेशे च तुल्यप्रमाणविष्कम्भोद्वेधा इत्युक्त्वा यत्पुनर्धातकीखण्डपुष्करार्द्धाधिकारयोर्नदीनां द्वीपे द्वीपे द्विगुणविस्तारं व्याख्यानयन्तः प्रोचुः यथा जम्बूद्वीपे रोहितांशारोहितासुवर्मकूलारूप्यकूलानां ग्राहावत्यादीनांच द्वादशानामन्तरनदीनां सर्वाग्रिण षोडशानां नदीनां प्रवाहविष्कम्भा द्वादशयोजनानि सार्द्धानि उद्वेधः क्रोशमेकं समुद्रपरवेशे ग्राहावत्यादीनां च महानदीप्रवेशे विष्कम्भो योजन १२५ उद्वेधो योजन २ क्रोश २ इति तन्न पूर्वापरविरोधि, यतस्तत्रैव तैः "अत्र लघुवृत्यभिप्रायेण प्रवहप्रवेशयोर्विशेषोऽभिहित" इति कथनेन समाहितम्, एवमन्योऽपि लघुवृत्तिगतस्तात्रभिप्रायो दर्शितो वर्त्तते, उभयत्रापि तत्वं तु सर्वविदो विदन्ति, किंच- आसां सर्वत्र समविष्कम्भत्वे आगमवद्युक्तिरप्यनुकूला, तथाहि - आसां विष्कम्भवैषम्य उभयपार्श्ववर्त्तिनोर्विजययोरपि विष्कम्भवैषम्यं स्यादिष्यते च समविष्कम्भकत्वमिति, शेषं व्यक्तमिति, अथ तृतीयं विजयं प्रश्नयन्नाह - 'कहि ण 'मित्यादि, स्पष्टं, नवरं यावत्पदात् 'तत्थ णं अरिट्ठाए रायहाणीए महाकच्छे नामं राया समुप्पज्जइ, महया हिमवंत जाव सव्वं भरहोअवणं भाणिअव्वं, निक्खमणवज्रं सेसं भाणि - अव्वं, जाव भुंजइ माणुस्सए सुहे, महाकच्छनामधेज्जे' इति ग्राह्यं, ईद्दशेनाभिलापेनार्थो महाकच्छ- शब्दस्य भणितव्यः ।
सम्प्रति ब्रह्मकूटप्रश्नः - 'कहिण' मित्यादि, सर्वं व्यक्तं, ब्रह्मकूटनामा द्वितीयो वक्षस्कारः चित्रकूटातिदेशेन यावत्पदादायामसूत्रादिकं भूमिरमणीयसूत्रान्तं च सर्वं वाच्यम् । अथात्र कूटवक्तव्यतामाह-‘ब्रह्मकूडे चत्तारि कूडा' इत्यादि, व्यक्तं, नवरं एवं चित्रकूटवक्षस्कारकूटन्यायेन वाच्यं, यावत्करणात् समा उत्तरदाहिणेणं परुप्परंतीत्यादि ग्राह्यं, अर्थो - ब्रह्मकूटशब्दार्थः, 'से hणणं भंते! एवं वुइ-ब्रह्मकूडे २' इत्यालापकेन उल्लेख्यः, ब्रह्मकूटनामा देवश्चात्र पल्योपमस्थितिकः परिवसति, तदेतेनार्थेनेति सुगमं । अथ चतुर्थविजयः - 'कहिणं० व्यक्तं, परं द्रहावत्याः अन्तरनद्याः पश्चिमायां कच्छगावतीविजयः कच्छा एव कच्छकाः- मालुकाकच्छादयः सन्त्यस्यामतिशायिन इति 'अनजिरे' ति सूत्रे शरादी - नामाकृतिगमत्वेन सिद्धि, शेषं प्राग्वत्, अथायमनन्तरोक्तो वियो यस्याः पश्चिमायां तामन्तरनदीं लक्षयितुमाह- 'कहि गं० प्रश्नसूत्रं व्यक्तं, उत्तरसूत्रे आवर्त्तनाम्नः पूर्वदिग्वर्त्तिनो विजयस्य पश्चिमायां कच्छावत्या विजयस्य पूर्वस्यां यावद् द्रहावतीकुंडं नाम कुंडं प्रज्ञप्तं शेषं यथा ग्राहावतीकुंडस्य स्वरूपाख्यानं ग्राहावतीद्वीपपरिमाण भवनवर्णकनामार्थकथनप्रमुखं तथा ज्ञेयं, नवरं द्रहावतीद्वीपो द्रहावतीदेवीभवनं द्रहावतीप्रभपद्मादियोगाद् द्रहावतीति नामार्थ समधिगम्यः, द्रहा - अगाधजलाशयाः सन्त्यस्यामिति द्रहावती साधनिका प्राग्वत्, अथ यथेयं महानदीं समुपैति तथाऽऽह - 'तस्स णं० उक्तप्रायम्, अथ पञ्चमो विजयः - 'कहि णं० व्यक्तम्, अथ तृतीयो वक्षस्कारः
'कहि ण 'मित्यादि, सूत्रद्वयमपि व्यक्तं, नवरं द्वितीयसूत्रे कूटानि पञ्चशतकानिपंचशतप्रमाणानीति, अथ षष्ठो विजयः - 'कहि ण'मित्यादि, स्पष्ट, पङ्कावत्या स्तृतीयान्तरनद्या इति, अथ तृतीयान्तरनद्यसरः - 'कहिण 'मित्यादि, प्रायः प्राग्वत्, नवरं पङ्कोऽतिशयेनास्त्यस्यामिति पङ्कावती प्राग्वद्रूपसिद्धि, अथ सप्तमविजयावसरः- 'कहि णमित्यादि व्यक्तं, अथ चतुर्थव
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org