________________
जम्बूद्वीपप्रज्ञप्ति-उपाङ्गसूत्रम् ४/१७१ पाईणपडीणविच्छिण्णे सोलसजोअणसहस्साइं पश्च य बानउए जोअणसए दोन्नि अ एगूणवीसइभाए जोअणस्स आयामेणं सीआए महानइए अंतेणं दो जोअणसहस्साइं नव य बावीसे जोअणसए विक्खंभेणं तयणंतरंच णं मायाए २ परिहायमाणे २ नीलवंतवासहरपव्वयंतेणं एगं एगूणवीसइभागं जोअणस्स विष्क्खंभेणंति, से णं एगाए पउमवरवेइआए एगेण य वनसण्डेणं संपरिक्खितं वण्णओ सीआमुह- वणस्स जाव देवा आसयंति, एवं उत्तरिल्लं पासं समत्तं । विजया भणिआ । रायहाणीओ इमाओ
वृ. 'कहि ण'मित्यादि, सर्वं सुगमं कच्छतुल्यवक्तव्यत्वात्, नवरं खेमपुरा राजधानीं सुकच्छरतत्र राजा चक्रवर्ती समुत्पद्यते, विजयसाधनादिकं तथैव सर्वं वक्तव्यमिति शेषः । उक्तः सुकच्छः, अथ प्रथमान्तरनद्यवसरः - 'कहि णं भंते!' इत्यादि, क भदन्त ! जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावत्या अन्तरनद्याः कुंडं प्रभवस्थानं ग्राहावतीकुंडनम कुंडं प्रज्ञप्तम् ? गौतम ! सुकच्छस्य विजयस्य पूर्वस्यां महाकच्छस्य विजयस्य पश्चिमायां नीलवतो वर्षधरपर्वतस्य दाक्षिणात्ये नितम्बे, अत्र - सामीपिकेऽधिकरणे सप्तमी तेन नितम्बसमीपे इत्यर्थः, अत्र जम्बूद्वीपे द्वीपे महाविदेहे वर्षे ग्राहावतीकुंडं प्रज्ञप्तं यथैव रोहितांशाकुंडं तथेदमपि विंशत्यधिकशतयोजनायामविष्कम्भमित्यादिरीत्या ज्ञेयं कियत्पर्यन्तमित्याह - यावद्ग्राहावती द्वीपं भवनं चेति, उपलक्षणं चैतत्, तेनार्थेन सूत्रमपि भावनीयम्, तथाहि - 'से केणणं भंते!' एवं बुच्चइ गाहावई दीवे गाहावई दीवे ?, गोअमा ! गाहावई दीवे णं बहूई उप्पलाई जाव सहस्सपत्ताइं गाहावईदीवसमप्पभाई समवण्णाई' इत्यादि, अथास्माद्या नदी प्रवहति तामाह
"
३४६
'तस्स ण' मित्यादि व्यक्तं, नवरं ग्राहाः - तन्तुनामानो जलचरा महाकायाः सन्त्यस्यामिति ग्राहावती, मतुबप्रत्यये मस्य वत्वे ङीप्रत्यये रूपसिद्धि दीर्घत्वं चात्राकृतिगणत्वात् 'अनजिरादिबहुस्वरशरादीनां मता' वित्यनेन, महानदी प्रव्यूढ सती सुक्च्छमहाकच्छौ विजयी द्विधा विभजन्ती २ अष्टाविंशत्या नदीसहस्रैः समग्रा - सहिता दक्षिणेन भागेन - मेरोर्दक्षिणदिशि शीतां महानदीं समुप- सर्पति, अथास्य विष्कम्भादिकमाह - ग्राहावती महानदी प्रवहे - ग्राहव - तीकुंड निर्गमे मुखे - शीताप्रवेशे च सर्वत्र मुखप्रवहयोरन्यत्रापि स्थाने समा समविस्तरोद्वेधा एतदेव दर्शयति-पंचविंशत्यधिकं योजनशतं विष्कम्भेन, अर्द्धतृतीयानि योजनान्युद्वेधेन, सपादशतयोजनानां पंचाशत्तमभागे एतावत एव लाभात् पृथुत्वं च प्राग्वत्, तथाहि - महाविदेहेषु कुरुमेरुभद्रशालविजयवक्षस्कारमुखवनव्यतिरेकेणान्यर सर्वत्रान्तरनद्यः, ताश्च पूर्वापरविस्तृतास्तुल्यविस्तारप्रमाणास्तत एव तत्करणावकाशः, तत्र मेरुविष्कम्भपूर्वापरभद्रशालवनायामप्रमाणं चतुः पंचाशत्सहस्राणि विजय १६ पृथुत्वं पंचत्रिंशत्सहस्राणि चतुःशतानि षडुत्तराणि वक्षस्कार ८ पृथुत्वं चत्वारि सहस्राणि मुखवनद्वय २ पृथुत्वं ५८४४, सर्वमीलनेन नवनवतिसहस्राणि द्वे शते पंचाशदधिके, एतज्जम्बूद्वीपविष्कम्भलक्षाच्छोध्यते शोधिते च जातं सप्तशतानि पंचाशदग्राणि । एतच्च दक्षिणे उत्तरे वा भागेऽन्तरनद्यः षट् सन्तीति षडभिर्विभज्यते लब्धः प्रत्येकमन्तरनदीनामुक्तो विष्कम्भ इति, आयामस्तु विजयायामप्रमाणवजयवक्षस्कारान्तरनदीमुखवनानां समायामकत्वात्, ननु 'जावइया सलिलाओ माणुसलोगंमि सव्वंमि ॥ पणयालीस सहस्सा आयामो होइ सव्वसरिआणं' इति वचनात् कथमिदं सङ्गच्छते ?, उच्यते, इदं वचनं भरतगङ्गादिसाधारणं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org